मांसेन छन्दयन्मांसविशेषप्रदर्शनेन लालयन्सान्त्वयन् गिरिनिन्नगां मन्दाकिनीम् ॥ २।९६।१ ॥
तेन लालनप्रकारमाहइदमिति । एवमित्यस्य ब्रुवन्निति शेषः ॥ २।९६।२ ॥
आसतो गिरिप्रदेश आसीनस्य उपयायिनो रामसमीप आगच्छतो भरतस्य सैन्यरेणुः सैन्यशब्दश्च प्रादुरास्तां प्रादुर्बभूवतुः ॥ २।९६।३ ॥
एतस्मिन्नन्तरे सेनाशब्दप्रवृत्तिसमये ॥ २।९६।४ ॥
स राघवो रामः । सैन्यसमुद्धूतं तदुत्पादितम् ॥ २।९६।५ ॥
ऽस निस्वनम्ऽ इति पाठे स इति पदम् ॥ २।९६।६ ॥
भीमं भयंकरं यत्स्तनितं मेघशब्दस्तद्वद्गम्भीरं यथा भवति तथा यो ऽयं स्वनः श्रूयते ऽस्य कारणं पश्येति योजना ॥ २।९६।७ ॥
यत्सहसा मृगाः प्रद्रुता दिशस्तस्य कारणम् । तथा सिंहैर्वित्रासितानि गजयूथानि वा, अथ तैर्वित्रासिता महिषा दिशः प्रद्रुतास्तत्कारणं च पश्य । वा शब्दौ चार्थे ॥ २।९६।८ ॥
तत्कारणमुन्नयन्स्वयमाहराजा वेति । राजादिर्मृगयामटते ज्ञातुमर्हसि । अन्यद्वा श्वापदं दुष्टजन्तुः वनं क्षोभयतीति शेषः ॥ २।९६।९,१० ॥
सालो वृक्षः ॥ २।९६।११ ॥
यत्तैः सज्जैः ॥ २।९६।१२ ॥
सेनां शशंस सेनां श्रुतशब्दकारणमुक्तवान् ॥ २।९६।१३ ॥
आग्निं संशमयतु परसेनादर्शनजक्षोभकालिको ऽयं व्यापारः सर्वजनसिद्धः । गुहामन्तर्गृहं , शरांश्च गृहाणेति शेषः ॥ २।९६।१४ ॥
तं युद्धसंनाहवादिनं रामो विमृश्यकारित्वादाहअङ्गेति । यामिमां चमूं भयहेतुं मन्यसे सा कस्येत्यवेक्षस्वेत्यर्थः ॥ २।९६।१५ ॥
रुषितः क्रुद्धः ॥ २।९६।१६ ॥
अभिषेचनं राज्यं प्राप्य । संपन्नमकण्टकम् ॥ २।९६।१७ ॥
तच्चिह्नमाहएष इति । य यष वृक्षो महान्संप्रकाशते तत्समीपे तं लक्षीकृत्य रथे कोविदारध्वजो विराजते ॥ २।९६।१८ ॥
भजन्त्येतद्देशमागच्छन्ति । सादिनो गृहीतसादिचिह्ना गजारोहाः ॥ २।९६।१९ ॥
अतःगृहीतधनुषाविति ॥ २।९६।२० ॥
अपि नौ वशमागच्छेदिति कामप्रवेदने लिङ् । महव्द्यसनं त्वया प्राप्तमित्युत्तरेणान्वयः ॥ २।९६।२१ ॥
यन्निमित्तं यस्माद्धेतोः ॥ २।९६।२२ ॥
वध्यत्वे ऽयमेव हेतुः ॥ २।९६।२३ ॥
त्यागे वधे ॥ २।९६।२४ ॥
संख्ये युद्धे मया पश्येदित्युत्तरेणान्वयः ऽमृधमास्कन्दनं संख्यं समीकं सांपरायिकम्ऽ ॥ २।९६।२५ ॥
सानुबन्धां सकुब्जाम् ॥ २।९६।२६ ॥
कलुषेण पापेन कैकेयीरूपेण असत्कारं कैकेयीकृतम् ॥ २।९६।२७२९ ॥
भरतलक्ष्मणयोः समतया रामोपकरणत्वाल्लक्ष्मणस्य भरतविषय एवं वादः रामस्य तूभयोरपि स्वोपकरणत्वान्न क्वापि क्रोध इति तत्त्वमत्र ॥ २।९६।३० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे षण्णवतितमः सर्गः ॥ २।९६ ॥