अथ नदीप्रदर्शनेनोपलालयतिअथेति ॥ २।९५।१ ॥
वरारोहामुत्तमस्त्रीम् ॥ २।९५।२ ॥
कुसुमैः पझादिभिः ॥ २।९५।३ ॥
पुष्पफलयुतैर्द्रुमैस्तीरभवै राजन्तीं शोभमानाम् । राजराजः कुबेरस्तस्य नलिनी सौगन्धिकाख्या ॥ २।९५।४ ॥
तीर्थान्यवतारमार्गाः । रतिं प्रीतिम् ॥ २।९५।५,६ ॥
उपतिष्ठते मन्त्रैरुपस्थानं कुर्वते । एते परे मुनयः प्रकाशन्ते जपपरा इति शेषः ॥ २।९५।७ ॥
प्रनृत्त इव नृत्तं कर्तुमुपकान्त इव अत एव पुष्पाञ्जलिकरणं पादपैः ॥ २।९५।८ ॥
मणिनिकाशं मुक्तानिकाशमुदकं यस्यास्ताम् ॥ २।९५।९ ॥
अम्भसि पोप्लूमानान्पुनः पुनः प्लवमानान्पुष्पसंचयान्पश्य । ऽपश्योहाचलमध्यमेऽ इति पाठः कृशत्वाचलनाशक्तमध्यवतीत्यर्थ इति कतकः ॥ २।९५।१० ॥
रथाङ्गाह्वयनाश्चक्रवाकाः रथाङ्गं तद्वाचकः शब्दो आह्वयने नामनि येषामिति विग्रहः । अधिरोहन्ति पुलिनानीति शेषः ॥ २।९५।११ ॥
तव दर्शनाच्चाधिकमधिकसुखावहम् ॥ २।९५।१२,१३ ॥
सखीवत् मन्दाकिन्या इति शेषः । कमलपुष्करे रक्तसितपझे तान्यवमज्जन्ती प्रक्षिपन्ती ॥ २।९५।१४१६ ॥
उपस्पृशान् स्नानं कुर्वन् ॥ २।९५।१७ ॥
सुपुष्पितां सुपुष्पितवनान्तामवगाह्य यः सुखी न स्यात्स नास्तीत्यन्वयः ॥ २।९५।१८ ॥
सरितं प्रति सरितं वर्णयन् । नयनयोग्याञ्जनवन्नीलप्रभम् ॥ २।९५।१९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे पञ्चनवतितमः सर्गः ॥ २।९५ ॥