अथ कविस्तत्रस्थितरामवृत्तान्तं वर्णयति दीर्घेत्यादि । प्रियं सन्तोषमाकाङ्क्षन्निच्छन्स्वानुरोधेन घोरं वनमागतायाश्चित्तखेदस्योपशमनीयतया चित्रकूटरामणीयकदर्शनेन तच्चित्तमुपलालयन्स्वं च चित्तं वनवासादिखिन्नं तथा कुर्वंश्चित्रकूटमदर्शयदित्यन्वयः ॥ २।९४।१,२ ॥
विनाबवो विनावस्थानं मे मनो न बाधत इत्यन्वयः । दृष्ट्वा स्थितस्येति शेषः ॥ २।९४।३ ॥
खमिवोद्विद्धः शीलितादिवत्कर्तरि निष्ठा खस्य वेधकैरित्यर्थः, अभ्रंलिहैरिति यावत् ॥ २।९४।४ ॥
क्षतजं रुधिरम् । पीतवर्णा माञ्जष्ठवर्णाश्च ॥ २।९४।५ ॥
पुष्पः पुष्परागः, अर्कः स्फटिकः, केतकानि केतकपुष्पाणि, ज्योतिर्नक्षत्रम्, रसः पारदरसः ॥ २।९४।६ ॥
द्वीपी महव्याघ्रः, तरक्षुः क्षुद्रव्याघ्रः, अदुष्टैस्तपस्विवैभवाद्धिंसादिदोषरहितैः ॥ २।९४।७ ॥
असनः पीतसारः, प्रियालो राजादनम्, धवाह्कोलभव्यतिनिशा वृक्षविशेषाः ॥ २।९४।८ ॥
अरिष्टो निम्बः, धन्वन इन्द्रयवः, बीजप्रचुरफलविशेषा दाडिमादयः ॥ २।९४।९ ॥
पुष्यति वर्धयति ॥ २।९४।१० ॥
कामहर्षणान् देशानिति शेषः, तत्र रममाणान्किन्नरान्पश्य ॥ २।९४।११ ॥
खङ्गान् किन्नराणामिति शेषः, तथा विद्याधरीणां क्रीडोद्देशान्पश्य तासां शाखावसक्तान्यत्बराणि च पश्य ॥ २।९४।१२ ॥
जलप्रपातैरुच्चप्रदेशात्पताद्भिर्जलप्रवाहैरुद्भेदैर्भुवमुद्भिद्य निर्गतैर्निष्पन्दैरल्पनिर्झ रैः स्रवद्भिरित्युभयविशेषणं प्रवहद्भिरित्यर्थकम् ॥ २।९४।१३ ॥
गुहासमीराणो गुहाद्वारप्रवृत्तः समीरणः घ्राणतर्पणं कुर्वाण इति शेषः । अभ्येत्य प्राप्य ॥ २।९४।१४ ॥
शरदः संवत्सरान् ॥ २।९४।१५ ॥
रतवान्रतिमान् रतिः प्रीतिः ॥ २।९४।१६ ॥
धर्मे सत्यपालनलक्षणे ॥ २।९४।१७ ॥
मनोवाक्कायसंमतांस्तत्प्रियान्वर्णेन वाक्प्रियता । भावाः पदार्थाः । ऽसंयताऽ इति पाठे सम्यङ्नियमितकरणत्रयेत्यर्थः । ऽसंयताःऽ इति बहुवचनान्तपाठे भावानित्यस्य विशेषणम् । लिङ्गव्यत्यय आर्ष इति तीर्थः । तत्र न कंचिद्युक्तामर्थं पश्यामः ॥ २।९४।१८ ॥
इदमेव नियमसहित वने ऽवस्थानमेव अमृतं प्राहुर्मोक्षसाधनं प्राहुः । मे प्रपितामाहा मन्वादयः । वनवासे प्रेत्यैतच्छरीरत्यागोत्तरं भवार्थाय भवः शिवो हिरण्यगर्भस्तल्लोकप्राप्तिरूपायार्थाय प्रयोजनायाहुरित्येके । भवार्थाय संसारक्लेशनिवृत्तये इति कतको व्याचष्टे ॥ २।९४।१९ ॥
अभित इति पदम् ॥ २।९४।२० ॥
अचलेन्द्रसंबन्ध्योषध्यः स्वकान्तिसंपदा शोभमाना आग्निसिखा इव निशि भान्ति ॥ २।९४।२१ ॥
क्षयनिभा गृहसदृशाः अतिनिबिडबहुपलाशवृक्षकत्वात् उद्यानसंनिभाश्चम्पकमालत्यादिबाहुल्यात् एकशिला अनेकजनावस्थानक्षमैकशिलायुक्ताः ॥ २।९४।२२ ॥
कूटो ऽग्रभागः ॥ २।९४।२३ ॥
कुष्ठमुत्पलमिति तीर्थः । स्थगरः पुत्रजीवकः, भूर्जौ भूर्जपत्रवृक्षः, एतेषां पत्राण्युत्तरच्छदा येषां तान्कामिनां स्वास्तरानास्तरणानि कुशेशयं पझं तद्दलैरासमन्ताद्युतान्पश्य ॥ २।९४।२४ ॥
फलानि भुक्तानीति शेषः ॥ २।९४।२५ ॥
वस्वौकसारा कुबेरनगरी, नलिनी शक्रनगरी ऽवस्वौकसारा श्रीदस्य शक्रस्य नलिनी पुरीऽ इति हरिः । अतीत्य शोभते इति शेषेणान्वयः ॥ २।९४।२६ ॥
हे वनिते सीते परैः श्रेष्ठैः स्वैः स्वीयैर्नियमैः सह सतां पथि स्थितः सन् इमं कालं चतुर्दशवर्षमितं त्वया लक्ष्मणेन च सह विजह्रिवन्प्राप्तविहारो यदि भाविष्यामि तदा कुलधर्मवर्धिनीं रतिं सौरव्यं प्रपत्स्ये प्राप्स्यामि ॥ २।९४।२७ ॥
अष्टाविंशतिश्लोका अत्रेति कतकः ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे चतुर्नवतितमः सर्गः ॥ २।९४ ॥