०९३ रामाश्रमदर्शनम्

यायिन्या गच्छन्त्या । यूथपा यूथनाथाः ॥ २।९३।१ ॥

पृषताः सबिन्दव रुरवो ऽबिन्दवः अर्दिता दृश्यन्त इत्यर्थः ॥ २।९३।२ ॥

नादिन्या घोषवत्या ॥ २।९३।३,४ ॥

तस्मिन्काले मार्गगमनकाले । सा मही ॥ २।९३।५ ॥

मन्त्रिणां मन्त्रविदां वरं श्रेष्ठम् ॥ २।९३।६ ॥

भरद्वाजो यं देशं चित्रकूटं यादृशमब्रवीद्यथा चास्माभिः श्रुतं तथैवास्य देशस्य रूपं लक्ष्यते, तस्माद्व्यक्तं तं देशं प्राप्ताः स्म । छान्दसो विसर्गलोपः ॥ २।९३।७ ॥

प्राप्तिमेव विवृणोति अयमिति ॥ २।९३।८ ॥

अवमृद्यन्ते पीड्यन्ते ॥ २।९३।९ ॥

अत एवैते नगा वृक्षा गजानामाघातेन चलितशाखाः पर्वतसानुषु कुसुमानि मुञ्चन्ति ॥ २।९३।१०,११ ॥

प्रचोदिताः सैनिकैः । वायुप्रविद्धाः वायुप्रेरिताः मेघजाला मेघसमूहाः । “मेघराज्यः” इति पाठान्तरम् ॥ २।९३।१२ ॥

अमी भटा मेघप्रकाशैः फलकैः शस्त्रनिवारणचर्मभिरुपलक्षिता दक्षिणात्या नरा इव शिरःसु कुसुमापीडान्कुसुमनिर्मितभूषणविशेषान्कुर्वन्ति धारयन्तीति तीर्थः । अमी वृक्षा निबिडप्रत्यग्रपलाशभूयिष्ठतया मेघवदवभासमानैः फलकैर्महास्कन्धशाखाभिरुपलक्षिता दाक्षिणात्या दक्षिणदिग्भवाः शशिप्रभान्सुरभीन्कुसुमापीडान्स्तबकशेखरान्कुर्वन्ति । “दाक्षिणात्याः शशिप्रभान्” इति पाठ इति कतकः ॥ २।९३।१३ ॥

इदं वनं पूर्वं निष्कूजं जनशब्दरहितम्, अत एव घोरदर्शनं भूत्वा सांप्रतमस्मदागमने जनाकीर्णायोध्येव भाति । पाठान्तरे जनाकीर्णमिदं वनमयोध्येव भाति ॥ २।९३।१४ ॥

वहत्यपनयति । मम प्रियं कुर्वन्निव चित्रकूटदर्शनेन निरोधनिवर्तकत्वादिति भावः ॥ २।९३।१५ ॥

संपततो गच्छतः ॥ २।९३।१६,१७ ॥

व्यक्तं स्पष्टम् । स्वर्गपथः स्वर्गप्रदेशः ॥ २।९३।१८ ॥

पृषतानां सबिन्दुत्वात्कुसुमैश्चित्रिता इवेत्युक्तिः ॥ २।९३।१९ ॥

साधु यथोचितं प्रतिष्ठन्तां गच्छन्तु । गमनफलं विचिन्वन्त्वित्यादि ॥ २।९३।२० ॥

धूमाग्रं धूमशिखां तेन वह्निमनुमाय तत्संपादकत्वेन राघवावनुमाय भरतमूचुः ॥ २।९३।२१ ॥

नामनुष्ये वनदाहाभावविशिष्टतया प्रत्यक्षं दृश्यमाने इति शेषः । तस्मान्मनुष्यकारणकवह्न्यनुपपत्त्या अत्रैव राघवाविति जानीमः ॥ २।९३।२२ ॥

राजभीत्या निश्चयेन तथा वक्तुमशक्नुवन्तः पक्षान्तरमाहुः अथेति । अत्र न तौ तथाप्यन्ये तपस्विनो ऽत्र भविष्यन्ति तन्मुखात्तद्वासस्थानलाभो भविष्यतीति भावः ॥ २।९३।२३ ॥

साधुसंमतं न्यायवित्संमतं तेषां वचनं श्रुत्वा तत्र प्रदेशे रामावस्थितिं निश्चित्य सर्वान्सैन्यानुवाच ॥ २।९३।२४ ॥

वचनमाह यत्ता इति । यत्ताः सावधानाः, कोलाहलमकुर्वन्तः । धृतिरित्यशोकमन्त्रिणो नामान्तरम् ॥ २।९३।२५,२६ ॥

अपि च या चमूर्भरतेन व्यवस्थिता भरतेन व्यवस्थापिता सा वासाय अग्रतो भूमिं निरीक्षमाणा न चिरेण शीघ्रम् ॥ २।९३।२७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे त्रिनवतितमः सर्गः ॥ २।९३ ॥