०९२ भरतप्रस्थानम्

व्युष्योषित्वा सपरिच्छदः सपरिवारः, कामाद्रामप्राप्तिकामात् ॥ २।९२।१,२ ॥

अस्मद्विषये ऽस्मदाश्रमे सुखा सुखरूपा आतिथ्ये ते जनः समग्रः सम्यक्तृप्तिकः अभूदिति शेषः । अनेन हि तप एव महत्सर्वेष्टसाधनं न तु राज्यादीति ऋषिणा बोधितो भरतः ॥ २।९२।३ ॥

जनसमूहस्य बहुत्वात्सर्वेषां स्वदर्शनेन कृतकृत्यत्वायाश्रमान्निष्क्रान्तमृषिमुवाच ॥ २।९२।४ ॥

बलवदत्यन्तम् । बलवान्सेनासहितः ॥ २।९२।५ ॥

क्लमो ग्लानिः, सन्तापो देहौष्ण्यम्, अपि प्रेष्यानुपादाय प्रेष्यानप्यादाय तैरपि सहेत्यर्थः । सुभिक्षाः सुसमृद्धान्नपानाः सुप्रतिश्रयाः शोभनावासाः ॥ २।९२।६ ॥

आमन्त्रये पृच्छामि काममधिकं मैत्रेण स्निग्धेन ॥ २।९२।७ ॥

तस्य रामस्य कियान्कियद्दूरदेशे कतमस्तस्य मार्ग इति शंस ॥ २।९२।८,९ ॥

अर्धतृतीययोजनेषु सार्धयोजनद्वये ऽतीते इत्यर्थः । निर्दरा विदीर्णाः पाषाणाः, वर्तत इति शेषः ॥ २।९२।१० ॥

मन्दाकिनी तदाख्या काचिन्नदी चित्रकूटोत्तरपार्श्वं प्राप्य तिष्ठतीति शेषः ॥ २।९२।११ ॥

तस्या अनन्तरं तत्परपार्श्वे चित्रकूटं पर्वतं तयो रामलक्ष्मणयोः पर्णकुटीं च द्रक्ष्यसि तत्र पर्वते वसतः ध्रुवं निश्चयेन ॥ २।९२।१२ ॥

दक्षिणेनैव मार्गेण यमुनाया दक्षिणतीरमार्गेणैव गत्वा किंचिद्दूरं ततः पश्चात्सव्यदक्षिणं तस्य मार्गस्य शाखामार्गयोः सव्यभागवर्ती यो दक्षिणदिग्गामी मार्गो ऽस्ति तं मार्गं वाहिनीं वाहयस्व, न त्वन्यं शाखामार्गं तस्याल्पत्वाद्वनमार्गत्वाच्च ॥ २।९२।१३ ॥

राजराजस्य दशरथस्य ॥ २।९२।१४ ॥

ब्राह्मणं भरद्वाजं पर्यवारयन् नमस्कारार्थं स्त्रिय इति शेषः । वेपमानत्वादिगुणविशिष्टा कौसल्या ॥ २।९२।१५ ॥

असमृद्धेन फलसमृद्धिरहितेन कामेन मनोरथेनोपलक्षिता इत्यादि कैकेयीविशेषणम् ॥ २।९२।१६ ॥

सव्यपत्रपा अत एव सलज्जा ॥ २।९२।१७ ॥

दीनमनाः अप्राप्तमनोरथत्वात् कैकेयीति विशेष्यम् ॥ २।९२।१८ ॥

विशेषं तत्तन्नामरूपम् ॥ २।९२।१९ ॥

शोकानशनकर्शितां शोकवशप्राप्तानशनेन कृशीकृताम् ॥ २।९२।२० ॥

यां पश्यसि एषेत्यन्वयः । सिंहवद्विक्रान्तगमनशीलम् ॥ २।९२।२१ ॥

धातारमुपेन्द्रम् ॥ २।९२।२२ ॥

कर्णिकारो वृक्षविशेषः ॥ २।९२।२३ ॥

देववर्णिनौ देवतुल्यरूपौ ॥ २।९२।२४ ॥

यस्याः कैकेय्या जीवनाशं गतौ तादृशापदं प्राप्तौ ॥ २।९२।२५ ॥

दृप्तां गर्विताम् अकृतप्रज्ञामशिक्षितबुद्धिम् आर्यरूपिणीं सतीमिव प्रतिभासमानम् ॥ २।९२।२६ ॥

यतो मूलं यन्मूलम् ॥ २।९२।२७२९ ॥

दोषेण दुष्टकृत्यकर्तृत्वेन । सुखोदर्कं देवानामृषीणां च सुखफलम् ॥ २।९२।३० ॥

तदेवाह देवानामित्यादि । भविष्यदिति शत्रन्तम् जानीहीति शेषः । एवं देवादिकृतो ऽयं मन्थराद्वारा कैकेय्या बुद्धिमोह इति भावः, अत एव नैषा दोषभागिति बोध्यं देवादीनां सुखदत्वात् ॥

२।९२।३१ ॥

संसिद्धः प्राप्ताशीर्वादरूपानुग्रहः । स्वमातृकृत्यस्य ज्ञातिहितावहत्वाच्च युज्यतां गमनाय संनह्यताम् ॥ २।९२।३२,३३ ॥

गजकन्याः करेणवः सघोषा घण्टाघोषसहिताः ॥ २।९२।३४ ॥

सुमहार्हाणि यानान्यारुह्य तद्योग्याः प्रययुः, पदातयस्तु पादैरेव प्रययुः ॥ २।९२।३५ ॥

यानप्रवेकैर्यानोत्तमैः ॥ २।९२।३६ ॥

चन्द्रार्कतरुणाभासां तरुणचन्द्रार्कसदृशीं क्वचिद्भागे स्फटिकादिनिर्मितां क्वचिद्भागे पद्मरागादिनिर्मितामिति यावत् । नियुक्ताम् वाहकैरिति शेषः ॥ २।९२।३७,३८ ॥

गङ्गायाः परवेलायां पश्चिमतीरस्थिता सेना गिरिषु नदीषु च वर्तमानवनान्यतिक्रम्य प्रयाता बभूवेति शेषः ॥ २।९२।३९ ॥

सेति ॥ २।९२।४० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे द्विनवतितमः सर्गः ॥ २।९२ ॥