०९१ भरद्वाजकृतातिथ्यम्

कृतबुद्धिं कृतनिश्चयम् । आतिथ्येन विशिष्टभोजनोपेतातिथिसत्काररूपहेतुना फलमपि हेतुः ॥ २।९१।१ ॥

वने यदुपपद्यते तेनातिथ्यं कृतं नन्वित्यब्रवीदित्यन्वयः ॥ २।९१।२ ॥

वनवासित्वेन दरिद्रत्वादेतदधिकातिथ्यकरणे ऽसामर्थ्यं मन्यत इत्याशयेन प्रहसन्निवेति । येनकेनचिदपि तुष्येस्तुष्टो भवेरिति मन्ये वन्येनाप्यातिथ्येन प्रीतियुक्त इति जाने ॥ २।९१।३ ॥

अथापि सेनाया इत्यादि । मम प्रीतिर्यथारूपा ममेच्छा यादृशी तथारूपां तां त्वमर्हो ऽसि अङ्गीकर्तुमिति शेषः ॥ २।९१।४ ॥

बलं दूरे निक्षिप्यैकाकी किमर्थमागतः । अयमेवार्थो व्यतिरेकमुखेन दर्श्यते कस्मादिति ॥ २।९१।५ ॥

अत्रोत्तरमाह भरत इति । भगवद्भयाद्भगवदाश्रमपीडाप्रसङ्गभयादित्यर्थः ॥ २।९१।६ ॥

विषयेषु देशेषु परिहर्तव्यास्तदाश्रमवर्तिवृक्षोदकादिबाधाप्रसङ्गनिमित्तमनुपरोध्याः ॥ २।९१।७ ॥

तदेवाह वाजीत्यादि ॥ २।९१।८,९ ॥

परमर्षिणा श्रुतभरतवचसा समुपागमं समीपानयनम् ॥ २।९१।१० ॥

पीत्वापः परिमृज्येति हृदयङ्गमाभिर्द्विरोष्ठौ परिमृज्येत्सकृदाचम्येत्युक्तरित्या ऽ ऽचम्य आतिथ्यक्रियाहेतोरातिथ्यसंपादननिमित्तम्, विश्वकर्मा सृष्टिकर्तृविशेषः ॥ २।९१।११ ॥

आह्वानप्रकारमाह आह्वये इति । त्वष्टारं तक्षणादिव्यापारोपेतं विश्वकर्माणम्, संविधीयतां विश्वकर्मसाध्यगृहादि सर्वं सिद्धं क्रियताम् ॥ २।९१।१२ ॥

त्रीन्यमवरुणकुबेरानिति तीर्थः । कार्यविशेषेष्वेषामपि नियोगो बोध्यः ॥ २।९१।१३ ॥

अन्तरिक्षे नदी आकाशगङ्गा ॥ २।९१।१४ ॥

तासां कृत्यमाह अन्या इति । मैरेयं मद्यभेदो धात्रीधातकीप्रभृतिनिर्मितः । सुरा गौडी माध्वी पैष्टी चेति त्रिविधा । सुनिष्ठितां सुनिष्पादिताम् । इक्षुकाण्डरसोपमं तद्वन्मधुरम् ॥ २।९१।१५ ॥

हहा हाहाः छन्दोवशाद्ध्रस्वपाठः ॥ २।९१।१६,१७ ॥

सपरिच्छदाः सालङ्काराः नृत्यगीताद्यपेक्षितपरिकरोपेताश्च । “ब्राह्मणम्” इति पाठे बृहस्पतिं या उपतिष्ठन्तीत्यनुकर्ष इति कतकः । ताः सर्वा भामिनीराह्वये इति संबन्धः ॥ २।९१।१८ ॥

कुरुषूत्तरकुरुषु यद्दिव्यं वनं चैत्ररथाख्यम् । दिव्यत्वोपपादकं वासोभूषणान्येव पत्राणि यद्वर्तिवृक्षाणां तत् । दिव्यनार्य एव फलानि यत्र तत् । इहैव तु इह वने एवागच्छत्विति शेषः । “इहैतु वै” इति पाठान्तरम् । तद्देवताधिष्ठानादिदमेव वनं तथा भवत्वित्यर्थः ॥ २।९१।१९,२० ॥

पादपप्रच्युतानि वृक्षेभ्यः स्वयं जातानि ॥ २।९१।२१ ॥

शिक्षास्वरसमायुक्तं शिक्षाप्रतिपाद्यवर्णोच्चारणलक्षणोपेतम्, तथा व्याकरणोपदिश्यमानप्रकृतिप्रत्ययस्वरोपेतम् । स्वरेत्युपलक्षणम् । “एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति” इत्युक्तेः । समाधितेजस्तपोभिर्युक्त एवंगुणोपेतमाह्वानवाक्यमब्रवीदित्यर्थः । महर्षेस्तपोबलात्स्वर्गे कामधुक्त्वेन प्रसिद्धादपि वचनादिहैव सर्वं सिद्धमिति भावः ॥ २।९१।२२ ॥

मनसा ध्यायतो मनसा ध्यानपूर्वककृताह्वानस्य तान्याहूतानि ॥ २।९१।२३ ॥

मलयदर्दुरौ चन्दनपर्वतौ उपस्पृश्य स्पृष्ट्वा युक्त्या यथोचितवृत्त्या शैत्यमान्द्यसौरभयोगेन सुप्रियात्मा सुप्रियस्वरूपः अत एव शिनः सुखद ईदृशो ऽनिलः सुखं ववौ ॥ २।९१।२४ ॥

घना मेघाः ॥ २।९१।२५ ॥

वीणा वाद्यमाना इति शेषः । स्वरान्ष़ड्जादीन् ॥ २।९१।२६ ॥

लयो नृत्तगीतानुगततालप्रमाणम् ॥ २।९१।२७ ॥

भरतस्येदं भारतं सैन्यं विश्वकर्मणो विधानं ददर्श ॥ २।९१।२८ ॥

तदेव विधानं दर्शयति बभूवेत्यादि । छन्ना बभूवेत्यनुकर्षः । शाद्बलं कोमलतृणमत्र ॥ २।९१।२९ ॥

तस्मिन्पञ्चयोजनमिते देशे फलभूषिताः कपित्थादयो बभूवुरित्यन्वयः ॥ २।९१।३० ॥

वनं चैत्ररथम् नदी जातावेकवचनम् तीरजैर्वृक्षैः ॥ २।९१।३१ ॥

चतुःशालानि शुभ्राणि गृहाणि जातानीति शेषः । तथा गजादीनां शालाश्च जाताः तोरणानि पुरद्वाराणि ॥ २।९१।३२ ॥

सितमेघनिभं सुधालेपेन, शुक्लमाल्यः कृत आकारो यस्य, दिव्यैर्गन्धैर्गन्धवज्जलैरुक्षितं सिक्तम् ॥ २।९१।३३ ॥

यानं शिबिकादि ॥ २।९१।३४ ॥

धौतत्वेन प्रक्षालितत्वेन निर्मलानि भाजनानि यस्मिन् ॥ २।९१।३५,३६ ॥

वेश्मसंविधिं वेश्मसंविधानम् ॥ २।९१।३७ ॥

राजासनं सिंहासनं राजवद्राजयोग्यं तदभ्यवर्तत प्रदक्षिणीकृतवान् ॥ २।९१।३८ ॥

न तु तत्रोपविष्ट इत्याह आसनं पूजयामासेति । रामचन्द्रीयमेतदिति बुद्ध्या रामाय प्रणम्यासनोपरि प्रितिष्ठितं रामं ध्यात्वेति शेषः । वालव्यजनमादाय रामसेवाशेषतयेति शेषः । सचिवासने सचिवार्थक्लृप्तासने सिंहासनाधस्तले । अत्रेदं बोध्यम् भरतेन वाचोक्तमपि राज्यानभिलाषं लोका न श्रद्दध्युः, अतः क्रिययापि सर्वलोकप्रत्यायनाय महर्षिणा तपोव्ययेनापीदृशमातिथ्यकरणम् । किं च पुष्पादिभिः पूजेवेयमपि क्रिया विष्णोरंशभूतभरततुष्टये इति तत्करणम् । किं च भरतं प्रति त्वं दुष्टबुद्ध्या ऽ ऽगतो ऽसि किम् इति प्रश्ने तस्य ऋषेरसर्वज्ञत्वासामार्थ्यादिशङ्कावारणाय स्वसामर्थ्यदर्शनम् । अपि च भगवद्रामप्रीतिमाहात्म्यं प्रदर्शयितुं तद्दर्शनेन च तेषां तत्राधिकां प्रीतिमुत्पादयितुं तथाकरणं मुनेरिति दिक् ॥ २।९१।३९ ॥

आनुपूर्व्याद्यथोचितोपवेशनप्रकारेण प्रशास्ता शिबिररक्षकः ॥ २।९१।४०,४१ ॥

उभयतः कूलमुभयोः कूलयोः पाण्डुमृत्तिकालेपनाः सुधालिप्ताः ब्राह्मणस्य भरद्वाजस्य ॥ २।९१।४२ ॥

आगुरागतवत्यः ॥ २।९१।४३ ॥

सुवर्णमणिमुक्तेनेति समाहारद्वन्द्वः ॥ २।९१।४४ ॥

गृहीतो दर्शनादिनात्मवशीकृतः सोन्मादः उद्भूतसन्तोषसहित इत्यर्थः । नन्दनमिन्द्रवनम् ॥ २।९१।४५ ॥

नारदादयो गन्धर्वराजाः कान्त्या सूर्यसमा ययुः ॥ २।९१।४६,४७ ॥

प्रयागे प्रयागक्षेत्रे ॥ २।९१।४८ ॥

बिल्वा बिल्ववृक्षाः मार्दङ्गिका मृदङ्गवादकरूपधराः, एवं विभीतकाः, शम्याख्यतालग्राहकाः “वह्नौ तालविशेषे च शमे तालक्रियान्तरे । शम्या यज्ञायुधे इति ॥ २।९१।४९ ॥

सरलो देवदारुविशेषः ॥ २।९१।५० ॥

शिंशपादयो ये स्त्रीलिङ्गशब्दवाच्या वृक्षाः । लता मल्लिकामालत्यादयः मुनेस्तपोमाहात्म्यादेव वृक्षादीनां तत्तद्रूपतापत्तिः पुनर्लतादिरूपप्रत्यापत्तिश्चेति मन्तव्यम् ॥ २।९१।५१ ॥

तत्र प्रमदारूपं धृत्वा किं कुर्युस्तदाह सुरामिति । एवमूचुरिति शेषः ॥ २।९१।५२ ॥

उच्छोद्योद्वर्तनं कृत्वा एकमेकं पुरुषम् । अत्र “एकं बहुव्रीहिवत्” इति बहुव्रीहिवद्भावाभाव आर्षः ॥ २।९१।५३ ॥

संवाहन्त्यः पादसंवाहनादि कुर्वत्यः । परिमृज्य जलार्द्रमङ्गं वस्त्रादिना परिमृज्यालङ्कृत्य च पाययन्ति मध्वादिकमिति शेषः ॥ २।९१।५४ ॥

सुरभेः सुता वृषभाः । तेषां हयदीनां भोज्यं तांस्तत्तत्पालका अभोजयन्नित्यर्थः ॥ २।९१।५५ ॥

इक्ष्वाकुवरयोधानां वाहनानि चोदयन्तो भक्षणाय प्रेरयन्तः । तानिक्ष्वादीन्भोजयन्ति स्म ॥ २।९१।५६ ॥

मत्ता मदकरद्रव्यसेवया, प्रमत्ता मधुपानेन कार्याकार्यविवेकशून्या, मुदिता स्रक्चन्दनस्त्र्यादिभोगेन ॥ २।९१।५७ ॥

सैन्याः सैनासमवेताः उदीरयन्नुदैरयन् ॥ २।९१।५८ ॥

तां वाचमाह नैवेति । न गमिष्यामेत्यार्षः सलोपः । भरतस्य कुशलमस्तु यत्संगत्या भूमौ स्वर्गसुखलाभः ॥ २।९१।५९ ॥

हस्त्यश्वारोहस्तद्बन्धकाश्च पादातरूपयोधाः चेन रथिकसंग्रहः । तं विधिं तादृशसत्कारम् अनाथा अपरतन्त्रा इवेत्यर्थ इति कतकः अयाचका इत्यर्थः इत्यन्ये । वक्तृ़णामतिहर्षयुक्ततया कवेरपि वर्णनीयमयीभावात्पुनरुक्तिर्न दोषाय ॥ २।९१।६० ॥

विनादः प्रहृष्टानां शब्दविशेषः ॥ २।९१।६१,६२ ॥

अभवद्भक्षणे मतिः क्लृप्तानामपि भक्ष्यसौष्ठवात्पुनराकाङ्क्षा ऽभूदित्यर्थः ॥ २।९१।६३ ॥

प्रेष्याः सेवकाः, चेट्यो दास्यः, बलस्थाः सेनास्थाः, अहतवाससो नूतनवस्त्रपरीधानाः ॥ २।९१।६४ ॥

अतो मुनिदत्तादन्यपदार्थं नाकल्पयन् नाभुञ्जन्नित्यर्थः । “नान्यो ह्यन्यमकल्पयत्” इति पाठे हिरप्यर्थे । अन्यो ऽपि सेनामन्तर्गतो ऽपि मार्गस्थः प्रसङ्गात्तद्देशमागतः अन्यमृषिकल्पितादन्यं पदार्थं नाकल्पयन्न भुक्तवानित्यर्थः, अनेनात्याधिक्यं सामग्र्याः सूचितम् ॥ २।९१।६५,६६ ॥

“निष्ठानं व्यञ्जनं ज्ञेयम्” इति हलायुधः । आम्रादिफलसंबन्धिक्वथितरससिद्धैरित्याजादिविशेषणं गन्धरसान्वितैरिति च । “वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके” इति वैजयन्ती । एतैराजादिभिः पूर्णा लौहीः स्वर्णरजतादिपात्रीर्ददृशुरित्यन्वयः । लोहशब्दः पञ्चलोहसाधारणः । पात्रीणां विशेषणं शोभार्थम् । कल्पितपुष्पध्वजयुक्ता अभितः शुक्लस्यान्नस्यौदनस्य च पूर्णाः पात्रीर्ददृशुः ॥ २।९१।६७,६८ ॥

वनपार्श्वेषु चैत्ररथवनवत्प्रतिभासमानवनप्रदेशेषु पञ्चयोजनमितेषु तत्रत्याः कूपाः पायसकर्दमा बभूवुः । तत्रत्या गावश्च कामदुघा बभूवुः ॥ २।९१।६९ ॥

निषादादिबलतृप्त्यर्थं प्रतापमात्रेण संस्कार्याः प्रतप्तास्तथा पिठरः कपालं तेषु संस्कृताः पक्वाः पैठरास्तैर्मृगादिसंबन्धिमांसचयैर्वृताः ॥ २।९१।७० ॥

पात्रीणामन्नाधाराणां स्थालीनां व्यञ्जनस्थालीनाम् । पात्राणि भोजनपात्राणीति कतकः । पात्राणां हस्तप्रक्षालनाद्युपयुक्तानां, स्थालीनां क्षुद्रजनपानपात्राणामिति तीर्थः ॥ २।९१।७१ ॥

कुम्भ्यः स्थाल्यो जलपानपात्रविशेषाः । करम्भ्यो दधिमन्थनपात्राणि । यौवनस्थस्य मथनोत्तरं यामान्तरितस्य सुपक्वस्य च केशरादिसंबन्धाद्गौरस्य पीतवर्णस्य “पीतो गौरो हरिद्राभः” ।

करित्थस्य तक्रस्य सुगन्धिनस्तादृशद्रव्यसंयुक्तस्य ॥ २।९१।७२ ॥

ह्रदाः पूर्णा इति पूर्वान्वयि । तथा रसालस्य तक्रविशेषस्य । “अपक्वतक्रं सव्योषं चतुर्जातं गुडार्द्रकम् । सजीरकं रसालं स्यान्मज्जिका शिखरिण्यपि” इति वैजयन्ती । तक्रमत्र निर्जलम् । व्योषं शुण्ठीमरीचिपिप्पल्यः । चतुर्जातम् “त्रिगन्धमेलात्वक्पत्रैश्चतुर्जातं सकेसरैः” इति शार्ङ्गधरे । पत्रं तजपत्रम्, गुडः खण्डशर्करा, आर्द्रकं प्रसिद्धं, तस्य च पूर्णा ह्रदाः । श्वेतस्य दध्नश्चापरे पयसो ऽन्ये पूर्णा ह्रदा इत्यनुषङ्गः । शर्कराणां च सञ्चया राशयः ॥ २।९१।७३ ॥

कल्कानामामलकादीनाम् । चूर्णकषायान्सुरभिचूर्णानि । “कषायो ऽथ सुरभौ लोहिते ऽपि च” । चूर्णकषाया नलदादिचूर्णक्वथितकषाया इति कतकः । स्नानानि स्ननार्थान्युष्णोदकानि तदर्थान्यन्यद्रव्याणि च । सरितां तीर्थेषु स्नानघट्टेषु ॥ २।९१।७४ ॥

शुक्लान्निर्मलानंशुमतो ऽग्रे कूर्चवतो दन्तधावनानामपामार्गादिकाष्ठानां सञ्चयान् । चन्दनकल्कान्घृष्टचन्दनात् समुद्रेषु ददृशुरिति संबन्धः ॥ २।९१।७५ ॥

पादुकोपानहं पादुका दार्वादिनिर्मिताः उपानहश्चर्मादिकृताः समाहारे टच्समासान्तः ॥ २।९१।७६ ॥

आञ्जनीरञ्जनयुक्तकरण्डिकाः, कङ्कतान्केशमार्जनानि कूर्चान्श्मश्रुप्रसाधकान्, मर्मत्राणानि कवचनि ॥ २।९१।७७ ॥

भुक्तजरणार्थं यत्पीयते तत्प्रतिपानम् । खरादीनामवगाहनयोग्यसुखावतारान्पद्मोत्पलसहितान्ह्रदान्ददृशुरिति संबन्धः । आकाशेत्याद्यर्धं पूर्वान्वायि । उपाधिविशेषान्नीलवर्णानित्यर्थः । सुखेनाप्लवः स्नानं येषु तान् ॥ २।९१।७८ ॥

यवसं तृणम् । निर्वापार्थं भक्षणार्थम् ॥ २।९१।७९ ॥

स्वप्नकल्पं मर्त्यदुर्लभं द्रागुत्पन्नविचित्रपदार्थत्वात् ॥ २।९१।८०,८१ ॥

ताः सर्वा अप्सरसः । अनुज्ञाप्य दत्तानुमतिकं कृत्वा ॥ २।९१।८२ ॥

स्वप्नादिवदेतदृषिकृतमातिथ्यं मिथ्या नेति दर्शयति– तथैवेति । मत्ता दृप्ता मदिरया उत्कटाः प्रमत्ताः । “मत्ते शौण्डोत्कटक्षीबाः” तथैव अनुभवकाल इव वर्तन्त इति शेषः । स्रक्षूत्तमाः स्रगुत्तमा उपभोगवशात्प्रकीर्णाः प्रमर्दिताश्च ॥ २।९१।८३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकनवतितमः सर्गः ॥ २।९१ ॥