जगाम द्रष्टुमिति शेषः । अवस्थाप्य आश्रमोपरोधनिवृत्तय इति शेषः ॥ २।९०।१ ॥
पद्भ्यामिति विनयप्रदर्शनार्थम् ॥ २।९०।२ ॥
ततः सन्दर्शने आश्रमप्रवेशानन्तरमृषिदर्शनावसरे अनुपुरोहितं पुरोहितस्य पश्चात् ॥ २।९०।३ ॥
शिष्यान्प्रति अर्घ्यमानयतेति ब्रुवन् ॥ २।९०।४ ॥
अबुध्यत वसिष्ठेन सहागमनादिति शेषः ॥ २।९०।५ ॥
ताभ्यां वसिष्ठभरताभ्याम् । आनुपूर्व्यात्क्रमेण प्रथमं ब्राह्मणस्य पश्चात्क्षत्रियस्य कुले गृहे ॥ २।९०।६ ॥
वृत्तमतीतम् अत एव राजानं नोदाहरद्राजकुशलं न पृष्टवान् ॥ २।९०।७ ॥
शरीरादित्रयस्य यथायोगं तपःसाधनत्वात्तदनामयप्रश्नः, मृगपक्षिणामभयावस्थानद्वारा धर्मसाधनत्वाच्छिष्यवत्प्रियत्वाच्च तदनामयप्रश्नः ॥ २।९०।८ ॥
तथेति प्रतिज्ञायानामयमित्युक्त्वा राघवो रामः ॥ २।९०।९ ॥
न शुध्यते न विश्वसिति ॥ २।९०।१० ॥
अविश्वासबीजमाह सुषुवे इति । कौसल्या यं सुषुवे । चिरं चिरकालमुद्दिश्य प्रव्राजितः ॥ २।९०।११ ॥
वनवासी भवेति नियुक्तः ॥ २।९०।१२ ॥
इह वने तस्य रामस्य तस्यानुजस्य लक्ष्मणस्य च पापं कर्तुमिहेच्छसीत्यन्वयः । तत्र हेतुः– अकण्टकमसपत्नम् ॥ २।९०।१३ ॥
पर्यश्रुनयनः परिस्रुतनयनः संसज्जमानया स्खलन्त्या ॥ २।९०।१४ ॥
मामेवं पापप्रसक्तं यदि भगवान्सर्वज्ञो मन्यते तदा हतो ऽस्मि व्यर्थजन्मास्मि । दोषं प्रव्राजनदोषं मत्तो मद्रूपनिमित्ततो नेत्यहमाशङ्के स्वानुभवतो जानामि अतो मामेवं मानुशाधि मैवं कर्णकठोरं ब्रूहि ॥ २।९०।१५ ॥
ननु कथमपलापः क्रियते ऽत आह न चेति । मदन्तरे मद्विषये । यत्तु मया विनेत्यर्थ इति तन्न, अन्तरेणेत्यव्ययस्यैव तदर्थत्वात्, मम त्ववसरवाची अन्तरशब्द इति न दोषः । यन्मे मातावोचन्मदभिषेकरामवनवासादि तन्मे नेष्टम् । तदेव विवृणोति नाहमिति । एतेन मातृकृतव्यापारेण । न च तद्वचनमाददे ऽङ्गीकरोमि इदानीमपीति शेषः ॥ २।९०।१६ ॥
अथ स्वागमनकारणमाह अहं त्विति । प्रसादक उपयातः प्राप्तः ॥ २।९०।१७ ॥
एवंगतमेवंबुद्धिम् । क्व संप्रति कस्मिन्प्रदेशे ॥ २।९०।१८ ॥
याचितो भरताय प्रसन्नो भवेति प्रार्थितः, प्रसादात्प्रसादं प्राप्य ॥ २।९०।१९ ॥
एतदुक्तरूपं वचस्त्वयि युक्तं तवोचितम् । तदेव समर्थयति गुर्विति । गुरुवृत्तिर्गुरुसेवा यतो गुरुसेवादित्रयं राघववंशजे प्रायो दृष्टमिति शेषः, यद्वा एतत्त्रयं त्वयि युक्तमित्यन्वयः ॥ २।९०।२० ॥
दृढीकरणमन्यथाभावान्निवृत्तिः । बहूनामग्रे उक्तो ह्यर्थो नान्यथा कर्तुं शक्यते । मुख्यप्रयोजनमाह कीर्तिं समभिवर्धयन् असर्वज्ञजनं प्रतीति शेषः । हेतौ शता कीर्त्यभिवृद्धिहेतवे ऽपृच्छमित्यर्थः ॥ २।९०।२१ ॥
अथ रामः क्वेति प्रश्नस्योत्तरमाह जाने चेति ॥ २।९०।२२ ॥
एतमद्यवासरूपम् । कामार्थकोविद वाञ्छितार्थप्रदानसमर्थ ॥ २।९०।२३ ॥
प्रतीतरूपः प्रसिद्धयशाः “रूपं यशस्याभिरूप्ये वर्णे चैव निरूपणे” इति कोशात् । तदाश्रमे
भरद्वाजाश्रमे ॥ २।९०।२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे नवतितमः सर्गः ॥ २।९० ॥