व्युष्योषित्वा । काल्यमुषःकाले उषःपर्यायौ कल्यकाल्यावुभावपीति ज्ञायते ॥ २।८९।१,२ ॥
आर्यं विचिन्तयन्नहमपि यथा त्वं तथैव जागर्मि न स्वपिमीत्येवमब्रवीदित्यन्वयः ॥ २।८९।३,४ ॥
शर्वरीमवात्सीः अत्यन्तसंयोगे द्वितीया ॥ २।८९।५ ॥
रामस्यानुवशो रामाधीनः ॥ २।८९।६ ॥
ते त्वया पूजिताः ॥ २।८९।७ ॥
प्रतिप्रविश्य ततो निवृत्तिपूर्वकं प्रविश्य ॥ २।८९।८,९ ॥
नावां पञ्चशतानि समानिन्युः ॥ २।८९।१० ॥
अन्याः पञ्चशतनौकाभ्यो ऽन्याः स्वस्तिकविज्ञेयाः स्वस्तिकाख्यया लोकप्रसिद्धा राजार्हनौभेदाः महाघण्टां धारयन्ति ता महाघण्टाधराः पताकास्ता धारयन्तीत्यर्थः । शोभमानाः स्वर्णादिरूपितचित्रैः शोभमानाः पताकिन्यो बह्वरित्रवत्यः अरित्रं नावाकर्षणदण्डः युक्तवाहा नौवहने नाविकवत्यः । “युक्तवाताः” इति पाठे युक्तगतयः सुसंहृता दृढसन्धिबन्धाः ॥ २।८९।११ ॥
सनन्दिघोषामुपरिप्रतिष्ठितमङ्गलवादित्रघोषसहितां ततः इतरस्वस्तिकाभ्यो विलक्षणां स्वस्तिकाख्यां पाण्डुकम्बलो राजास्तरणकम्बलस्तद्वर्तीं राजार्हां नावं गुहः स्वयमेवोपाहरत् ॥ २।८९।१२,१३ ॥
तत्पूर्वं समातृकभरतारोहात्पूर्वमनन्तरं तेषां तासां चानन्तरम् । राजदारा अनुचरप्रभुस्त्रियः । शकटान्यापणाः पण्यानीतरनौष्वारोपिता इति शेषः ॥ २।८९।१४ ॥
आवासमुषितावासमादीपयतामग्निसात्कुर्वताम् अयं सेनाधर्मः । तीर्थं नद्यवतारमवगाहतामहमहमिकया विशताम्, भाण्डान्युपकरणानि ॥ २।८९।१५ ॥
आशुगाः शीघ्राः ॥ २।८९।१६ ॥
नारीणामित्यादौ तृतीयार्थस्य शेषत्वविवक्षायां षष्ठी नारीभिः पूर्णा इत्याद्यर्थः । यानानि शकटादीनि, युग्या अश्वाश्वतरबलीवर्दाद्याः । महाधनं बहुमूल्यम् यद्वा महाधनं जीवाजीवरूपनानाप्रकारम् ॥ २।८९।१७ ॥
तं जनमवरोप्य निवृत्ताः नावः समारुह्य दाशबन्धुभिः क्रीडार्थं काण्डचित्राणि काण्डे जले चित्राणि चित्रगमनानि लघुत्वात्क्रियन्ते स्मेत्यर्थः । “काण्डो ऽस्त्री दण्डबाणार्ववर्गावसरवारिषु” इत्यमरः ॥ २।८९।१८ ॥
सवैजयन्ताः सध्वजाः ॥ २।८९।१९ ॥
प्लवा वेणुतृणादिनिर्मिताः । कुम्भा महान्तः, घटाः स्वल्पा विपरीतं वा ॥ २।८९।२० ॥
मैत्रे मुहूर्ते उदयात्तृतीयमुहूर्ते । नाडीद्वयं मुहूर्तः “रौद्रः सार्पस्तथा मैत्रः पैत्रो वासव एव च । आर्यो वैश्यस्तथा ब्राह्मः प्राजो रौद्रो ऽग्निरेव च ॥ ऐन्द्रो ऽथ निऋतिश्चैव वारुणो यमसाधकौ । एते क्रमेण विज्ञेया मुहूर्ता दश पञ्च च ॥ " इत्युक्तेः ॥
२।८९।२१ ॥
यथोपजोषं यथासुखमाश्वासयित्वा विश्राम्य निवेशयित्वा प्रयागवने स्थापयित्वा ॥ २।८९।२२ ॥
देवपुरोहितस्य । भरद्वाजो ह्युतथ्यभार्यायां ममतायां बृहस्पतेर्जात इति पुराणे प्रसिद्धम् । तं च भर्तृभिया त्यक्तुकामां ममतां देवा ऊचुः– “उतथ्यस्य क्षेत्रजत्वेन बृहस्पतेरौरसत्वेन भरद्वाजानममुं भर” इति । तस्माद्भरद्वाज इति तस्य नाम ॥ २।८९।२३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे
एकोननवतितमः सर्गः ॥ २।८९ ॥