तदिति ॥ २।८८।१ ॥
इह भूमौ शर्वरी शयिता अधिकरणे निष्ठा, एतद्देशावच्छिन्नशयनाधिकरणं शर्वरीत्यर्थः । इदमस्य विमर्दितम् अङ्गानामिति शेषः, विमर्दनाधिकरणमित्यर्थः ॥ २।८८।२ ॥
उक्तविशेषणेन दशरथेन हेतुना जातो नोर्व्यां स्वप्तुमर्हति ॥ २।८८।३ ॥
अजिनेन राजार्हकन्दलीचमूर्वादिमृगाजिनविशेषरूपेणोत्तरेण मञ्चोत्तरच्छदेन संस्तीर्णे तानि चाजिनानि शीतोष्णयोरुष्णशीते । वरास्तरणानां कार्पासवस्त्ररत्नकम्बलाद्यास्तरणानां सञ्चयः समूहो यत्र पर्यङ्के, शीतकाल औष्ण्यार्थं तद्बाहुल्यम् ॥ २।८८।४ ॥
प्रासादाग्रविमानेषु विमानाकारप्रासादाग्रगृहेषु वलभी कूटागारम् हैमानि राजतानि च भौमानि भूतलानि येषु ॥ २।८८।५ ॥
शुकसङ्घरुतेषु तद्रुतवत्सु ॥ २।८८।६ ॥
प्रासादवराणां प्रासादश्रेष्ठानां मध्ये वर्येषु श्रेष्ठेषु तेषूषित्वा कथं भूमौ शेत इति संबन्धः ॥ २।८८।७ ॥
वराभरणानां परिचारिकानूपुराद्याभरणानां निःस्वनैर्गीतादिशब्दैः स्तुतिभिश्च प्रतिबोध्यमानः कथं भूमौ केवलं शेत इति संबन्धः ॥ २।८८।८,९ ॥
इदं रामस्य भूशयनम् । लोके ऽत्रत्यजनेषु तन्मध्ये तन्मुखाच्छ्रुतमप्यश्रद्धेयमेव । तदेव विवृणोति मा मां सत्यं न प्रतिभाति । तस्मादेतद्विषये भावो ऽन्तःकरणं मुह्यते, मम मोह इत्यर्थः । अथवा स्वप्नो ऽयं भवितुमर्हतीति मतिः । स्वप्ने ह्यसंभावितमपि संभाष्यते ॥ २।८८।१० ॥
कालेन कालतो बलवत्तरं किंचित्किमपि दैवतं नास्तीति नूनं मन्ये । यत्र काले प्राप्ते सति रामो ऽपि भूमावशेत ॥ २।८८।११ ॥
यस्मिन्काले दशरथदयिता प्रिया स्नुषा भूमौ शयिता ततो न बलवत्किंचित् ॥ २।८८।१२।१३ ॥
कनकबिन्दवो भूषणावयवकनकशकलानीति कतकः ॥ २।८८।१४,१५ ॥
भर्तुः शय्या कोमला वा कठिना वा स्त्रीणां सुखैव मन्ये, यतःसुकुमारीत्यादि ॥ २।८८।१६ ॥
मम कृते कैकेयीप्रवृत्तेः स्वानुमतिराहित्ये ऽपि स्वमुद्दिश्य जातत्वादिति भावः ॥ २।८८।१७१९ ॥
विषमे काले सङ्कटकाले ॥ २।८८।२० ॥
या पतिमनु अनुसृत्य वनं गता सा सिद्धार्था वयं संशयिता रामसेवाविषयसंशयमापन्नाः कालान्तरप्रार्थनीयसेवत्वात्, इदानीमस्मत्सेवानुमतौ संशयादिति भावः ॥ २।८८।२१ ॥
अकर्णधारा नौरिव शून्या प्रवृत्तिशून्या ॥ २।८८।२२ ॥
कश्चिन्मादृशः ॥ २।८८।२३ ॥
शून्यसंवरणारक्षां संवरणानां प्राकाराणामासमन्ताद्रक्षया शून्यां हीनाम् । अनावृतत्वं रक्षकाभावात् ॥ २।८८।२४ ॥
अप्रहृष्टं बलं यस्याम् अत एव शून्यां क्षीणबलां नाभिमन्यन्ते स्वीकर्तुं नेच्छन्ति अत्र तद्बाहुवीर्यरक्षितत्वं हेतुः ॥ २।८८।२५ ॥
अतस्तमेव राज्यार्हमानेष्यामि, यदि स व्रतभङ्गः कथं कार्य इति वदेत्तदा तत्प्रतिनिधितयाहं व्रतमनुष्ठास्ये इत्याह– अद्येत्यादि ॥ २।८८।२६ ॥
तस्य व्रतसंकल्पं स्वयं गृहीत्वा तत्परिपालनार्थमुत्तरं कालं चतुर्दशवर्षपर्यन्तमहं
वने वत्स्यामि । एवं सति नार्यस्य तत्प्रतिश्रुतं मिथ्या भविष्यति ॥ २।८८।२७ ॥
वसन्तमिति ॥ २।८८।२८,२९ ॥
प्रसाद्येति । प्रपत्स्यते निवृत्तिविषये प्रसादमिति शेषः, उपेक्षितुं नार्हति भक्तवत्सलत्वादिति भावः ॥ २।८८।३० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे ऽष्टाशीतितमः सर्गः ॥ २।८८ ॥