भृशमप्रियं जटाधारणरूपम् । यत्र तत्रैव यत्र क्षण इत्यर्थः । ध्यानं जगाम स्वाभिलषितकार्यसंकटं जातमिति चिन्तां प्रापेत्यर्थः ॥ २।८७।१ ॥
सुकुमारत्वादिगुणेन जटादिकं धृतम् अतो निवृत्तिर्दुर्लभेति चिन्तां जगाम ॥ २।८७।२ ॥
ततो मूहूर्तं कालं परमदुर्मनाः परमखिन्नः प्रत्याश्वस्य पुनश्च सहसा दुःखवेगेन ससादावशो ऽभूत् । तोत्रैरङ्कुशैः, हृदि हृदयदेशे ॥ २।८७।३,४ ॥
तदवस्थमचेतनावस्थम् । अनन्तरस्थितः समीपस्थितः ॥ २।८७।५,६ ॥
अनुसृत्य समीपं प्राप्य ॥ २।८७।७ ॥
स्वं वत्सं स्पपुत्रं यथा तथोपगुह्य ॥ २।८७।८ ॥
व्याधिः पित्तप्रकोपादिलक्षणो भ्रममूर्छादिः ॥ २।८७।९,१० ॥
भ्रममूर्छादेः कारणान्तरं पृच्छति कच्चिदिति । अप्रियं प्राणात्ययरूपम् एकपुत्रायाः ममेति शेषः ॥ २।८७।११ ॥
मुहूर्तं विसंज्ञः सन्पश्चात्समाश्वस्येत्यर्थः, परिसान्त्व्य त्वच्छङ्कितं किमपि नास्ति, किं तु तयोर्जटाधारणश्रवणजदुःखेन मूर्छितो ऽस्मीत्युक्त्वा ॥ २।८७।१२,१३ ॥
हृष्टो लक्ष्मणवद्भरतस्यापि पूर्णभ्रातृभक्तिदर्शनेन तुष्टः यद्विधं यादृशं व्यवहारं रामे प्रतिपेदे कृतवांस्तमब्रवीद्रामकृतं चेत्यन्वयः ॥ २।८७।१४ ॥
तमेवाह अन्नमित्यादि ॥ २।८७।१५ ॥
प्रत्यनुज्ञासीन्मदनुग्रहार्थं केवलमङ्गीकृत्य पुनर्मह्यमेव दत्तवान् । क्षत्रधर्ममप्रतिग्रहरूपम् । न प्रत्यगृह्णादभ्यवहाराय न स्वीकृतवान् ॥ २।८७।१६ ॥
तमेव धर्ममाह नहीति । नन्वेवं भरद्वाजादिदत्ताङ्गीकारः कथमिति चेन्न, मधुपर्कादिना राजपूजाया ब्राह्मणं प्रति विधानेन तद्दत्ताङ्गीकारस्य स्वाभ्युदयफलकत्वेन च तस्य युक्तत्वात् गुहस्य निषादत्वेन राजपूजानधिकारात् अस्वदेश्यत्वेन करग्रहणायोग्यत्वाच्च तदीयानङ्गीकार इति न देषः ।
यद्यपि गुहस्य तत्त्वज्ञत्वे नास्त्येव भगवत्पूजाधिकारस्तथापि व्रतस्थत्वात्तदभोजनमिति तत्त्वम् ॥ २।८७।१७ ॥
औपवास्यमुपवासं स्वार्थे ष्यञ् ॥ २।८७।१८ ॥
अकरोत् पानक्रियामिति शेषः । त्रयः सुमन्त्रेण सहिताः समाहितचित्ताः ॥ २।८७।१९ ॥
ततः पश्चात्सन्ध्यावन्दनोत्तरम् । बर्हींषि दर्भान्, स्वास्तरं शयनम् ॥ २।८७।२० ॥
व्यपाक्रामत् शयनप्रदेशाद्बहिर्दूरमिति शेषः ॥ २।८७।२१।२२ ॥
इषुधी पृष्ठे बद्धा तलयोः करतलयोरङ्गुलित्राणवान् सज्जं धनुरुपोह्य धृत्वास्य परितो भ्रमन्नतिष्ठत् केवलं निद्रारहितः ॥ २।८७।२३ ॥
परिपालयं पर्यपालयम् ॥ २।८७।२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥ २।८७ ॥