सद्भावं ज्येष्ठानुवर्तनरूपं साधुत्वम् ॥ २।८६।१ ॥
तदेवाह तमिति । भ्रातृगुप्त्यर्थं जाग्रतं विनिद्रं गुणैः स्नेहसौशील्यादिगुणैः क्षत्रगुणैश्च युक्तम् ॥ २।८६।२ ॥
इयं तातेत्यादिरुक्तानुवादः पूर्वमेव व्याख्यातः ॥ २।८६।३ ॥
तस्य रामस्य ॥ २।८६।४२५ ॥
पञ्चविंशतिश्लोका अत्र सर्गे ।
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे षडशीतितमः सर्गः ॥ २।८६ ॥