एवमिति । हेत्वर्थसंहितं हेत्वार्थाभ्यामुपपत्तियोजनाभ्यां संयुक्तम् ॥ २।८५।१ ॥
ऊर्जितो महांस्ते ऽयं कामः कामनाविषयो मत्सत्कारो मम कृत एव खलु । कथं तत्राह यो मे इति । तव श्रद्धयैव सर्वं कृतमित्यर्थः ॥ २।८५।२ ॥
पन्थानं दर्शयन्गन्तव्यपथि संमुखं हस्तं कुर्वन्पुनः पुनरब्रवीदित्यन्वयः । आदरेण वारंवारं कथनम् । “गुहं वचनमुत्तमम्” “निषादाधिपतिं पुनः” इति द्वितीयचतुर्थपादौ पाठान्तरे ॥ २।८५।३ ॥
कतरेण पथा । गहनो दुष्प्रवेशः ॥ २।८५।४ ॥
गहनगोचरो गहनं वनं गोचरो देशो यस्य सः ॥ २।८५।५ ॥
दाशास्त्विति । अतो गहनविषया न काचिच्छङ्केति भावः ॥ २।८५।६ ॥
अपि त्वक्लिष्टकर्मणो रामस्य विषये दुष्टो दुष्टभावो न व्रजसि कच्चिद्रामद्रोहं कर्तुं न व्रजसि कच्चिदित्यर्थः । ननु का ते दोषशङ्का तत्राह इयं ते इति । रामसन्दर्शनमात्राय गमने एतावत्सेनाया व्यर्थत्वान्मम सन्देह इति भावः ॥ २।८५।७ ॥
आकाश इवेत्युपमया त्रैकालिकमलसंबन्धाभावो दर्शितः ॥ २।८५।८ ॥
यद्यत्र काले कष्टं त्वदाशङ्कितं रामद्रोहरूपं जायते स कालो मा भूत् हि यतो राघवो ज्येष्ठो भ्राता पितृसमः, अतो मां शङ्कितुं नार्हसि ॥ २।८५।९ ॥
तदेवाह तमिति । मे मयि । “न ते कार्या” इति पाठान्तरम् ॥ २।८५।१०१२ ॥
चरिष्यति प्रचरिष्यति ॥ २।८५।१३ ॥
नष्टप्रभो मन्दीभूतरश्मिः ॥ २।८५।१४ ॥
“गुहेन परिरक्षितः” इति पाठे परिहृतचोरबाध इत्यर्थः ॥ २।८५।१५ ॥
अनर्हस्य दुःखानर्हस्य । धर्मप्रेक्ष्यस्य धर्मदृष्टेः तादृशो वागगोचरः उपस्थितः प्राप्तः ॥ २।८५।१६ ॥
दहनः शोकाग्निः राघवं भरतं वनदाहको ऽग्निवनदाहाग्निर्दावाग्निस्तेन सन्तप्तं शुष्कम् । गूढो ऽग्निः कोठरसंसक्तो ऽग्निः ॥ २।८५।१७ ॥
स्वेदं प्रसृतः कर्तरि निष्ठा गत्यर्थत्वात् ॥ २।८५।१८ ॥
दुःखे पर्वतरूपकम् । रामविषयध्यानान्येव निर्दरशैला विदारणरहितशिलासमूहा यस्मिन्, निःशेषतो दीर्णशिलासमूहा यस्मिन्निति वा । विनिःश्वसितमेव गौरिकादिधातुर्यस्मिन्, श्वाससंपर्केण भूषणानामन्यवर्णजननात् । दैन्यं करणानां स्वस्वविषयप्रवृत्तिवैमुख्यं स एव पादपसङ्घो यस्मिन् । शोकजा आयासाश्चित्तश्रान्तयस्ता एवाध्यधिरूढानि शृङ्गाणि तद्वता ॥ २।८५।१९ ॥
प्रमोहा एवानन्तसत्त्वानि वन्यप्राणिनो यस्मिंस्तेन । सन्तापो ऽन्तर्बहिःकरणसन्ताप एव ओषधयो वेणवश्च यस्मिन् । मज्जता मग्नं कुर्वता सकरणग्राममात्मानमधो नयता एवंभूतेन दुःखरूपशैलेनाक्रान्तः अभूदिति शेषः ॥ २।८५।२० ॥
प्रकर्षेण मूढा संज्ञा चेतना यस्य । यूथहतो यूथभ्रष्टः ॥ २।८५।२१ ॥
समाहित एकाग्रचित्तः, सजनः सपरिवारः, गुहेन सार्धं समागतो मिलितो भरतो ऽग्रजं प्रति सुदुर्मना बभूव । तादृशं तं भरतं गुहः पुनराश्वासयत् ॥ २।८५।२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥ २।८५ ॥