०८४ गुह-भरतसंवादः

गङ्गामनु आश्रिताम्, निविष्टां क्वचित्कार्ये ऽभिनिवेशवतीम् ॥ २।८४।१ ॥

इत इह गङ्गातीरे । नास्या अन्तमित्यर्थे सन्धिरार्षः ॥ २।८४।२ ॥

यदा नु खलु यस्माद्धेतोर्दुर्बुद्धिर्भरतः स्वयमागतस्ततो महती सेना प्रदृश्यत इत्यन्वयः, रामपीडार्थं प्रवृत्त इत्याशयेन दुर्बुद्धितावादः । भरतागमनचिह्नमाह स इति । महाकायो महाप्रमाण इक्ष्वाकुकुलचिह्नभूतः कोविदारध्वजो रथे दृश्यते, अतो भरत एवायमिति भावः ॥ २।८४।३ ॥

नन्वायातु भरतः, किमस्माकमत आह बन्धयिष्यतीति । स्वामात्यैरिति शेषः, वधिष्यतीति वा । अनु ततः पश्चाद्रामं वधिष्यति इति मन्ये इति शेषः ॥ २।८४।४ ॥

ननु रामवधे ऽस्य किं फलमत आह संपन्नामिति । संपूर्णामित्यर्थः । सार्वकालिकीमिति यावत्, तस्य राज्ञो रामस्य सुदुर्लभां तस्मिञ्जीवति दुष्प्रापाम् अतो रामं हन्तुं समधिगच्छति बुद्धिं प्राप्नोति ॥ २।८४।५ ॥

नन्वेवमपि तव का भीतिरत आह भर्तेत्यादि । एवं च तत्पक्षत्वादस्माकं भीतिरिति भावः । अस्माभिश्च सखित्वादेव रामेष्टं कर्तव्यम्, अतो नास्माभिरेते गङ्गा तारयितव्याः, अतो यूयं तस्य रामस्यार्थकामाः प्रयोजनेच्छवः संनद्धा अत्र गङ्गानूपे मत्संनिधौ तिष्ठत ॥ २।८४।६ ॥

सर्वे मामका दाशास्तु गङ्गां नदीमेवान्वाश्रिताः, नदीरक्षा नदीतरणमार्गविघ्नवन्तो मांसमूलफलाशना एतद्भीत्या तीरे आगन्तुमशक्यतया नावारोपितमांसाद्यशना बलवन्तः सन्तस्तिष्ठन्तु ॥ २।८४।७ ॥

बलवतामेवाह नावामिति । पञ्चशतसंख्याकनावां प्रत्येकं संनद्धानां युद्धसंनाहवतां यूनां युद्धार्हाणां कैवर्तानां शतं शतमारुह्य तिष्ठन्त्वित्यभ्यचोदयत् ॥ २।८४।८ ॥

एवं स्थितैरपि युद्धे त्वरा न कार्येत्याह यदीति । यदि रामविषये तुष्ठस्तदेयं सेना स्वस्तिमती तरिष्यति अन्यथा नौकासु स्थित्वा एतान्निहन्म इति भावः । “यदादुष्टः” इति पाठे ऽदुष्ट इति च्छेदः ॥ २।८४।९ ॥

अभिचक्राम दर्शनार्थम् ॥ २।८४।१०,११ ॥

स्थपतिः प्रभुः । दण्डकारण्ये कुशलो निग्रहानुग्रहसमर्थश्चारैस्तत्रत्यवृत्तान्तज्ञः ॥ २।८४।१२ ॥

अपि चानेन प्रयोजनमस्तीत्याह असंशयमिति ॥ २।८४।१३१५ ॥

अयं देशो निष्कुटो गृहारामकल्पः । वयं वञ्चिताः प्रस्थानसमये ऽप्रेषितनियोगदेशत्वात् । इयमुपचारोक्तिः सर्वं राज्यं ते निवेदयाम, वयं त्वदीयाः, अतः स्वीयदाशगृहे वस ॥ २।८४।१६ ॥

वन्यं नीवारश्यामाकादि ॥ २।८४।१७ ॥

स्वाशिता सुष्ठु भोजिता वत्स्यतीत्याशंसे प्रार्थये । “वसत्वेनाम्” इति पाठान्तरम् । तत्राशंसे इति पुनरुक्तम् ॥ २।८४।१८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे चतुरशीतितमः सर्गः ॥ २।८४ ॥