०८३ शृङ्गिबेरपुरे भरतवासः

कल्यं प्रातःकाले ॥ २।८३।१,२ ॥

यथाविधिकल्पितानि गजसंनहनोक्तविधिना कृतसंनाहानि ॥ २।८३।३,४ ॥

समारूढानि सादिभिरिति शेषः ॥ २।८३।५ ॥

कैकेयी च स्वकृतेः पुत्रं प्रत्यहिततया जातत्वान्मया किं कृतमिति खिन्ना पुनः प्रकृतिमापन्ना हर्षेण ययौ । अत एव मध्यमत्वे ऽप्यादौ तदुल्लेखः । यानेनेत्येकवचनं प्रत्येकापेक्षया सौहार्दादेकयानेनैव तिसृणां गमनं वा ॥ २।८३।६ ॥

आर्यसंघातास्त्रैवर्णिकसमूहाः ॥ २।८३।७९ ॥

परिष्वजानाः परिष्वजमानाः नगरे चरन्तीति नागरिकाः “चरति” इति ठक् ॥ २।८३।१० ॥

तत्र नगरे संमताः प्रसिद्धाः, नैगमा वणिजः, प्रकृतयः श्रेणयः ॥ २।८३।११ ॥

श्रेणीर्विविच्याह मणिकारा इति । शाणादौ मणिशोधकाः, सूत्रकर्मविशेषज्ञास्तन्तुवायाः, शस्त्रोपजीविनः शस्त्रनिर्माणोपजीविनः ॥ २।८३।१२ ॥

मायूरका लीलामयूरग्राहिणः इदमुपलक्षणं शुकादिकग्राहिणाम्, यद्वा मयूरपिच्छैश्छत्रादिव्यञ्जनकारिणः, क्रकचः करपत्रं तेन जीवन्ति ते क्राकचिकाः, वेधका मणिमुक्तादिवेधकर्तारः, रोचकाः काचकुप्यादिकर्तार इति कतकः । दन्तकारा गजदन्तादिभिः समुद्गकादिकर्तारो दन्तलेखकाश्च, सुधाकाराः सुधालेपकाराः, गन्धोपजीविनो गन्धद्रव्यविक्रयिकाः ॥ २।८३।१३ ॥

स्नापका उष्णोदकस्नापकाः, उष्णोदका अङ्गमर्दकाः । “उष्णोदकं समुल्लेखोद्वाहनोद्वर्तनेषु च” । धूपका धूपक्रियया जीविनः, शौण्डिका मद्यकृतः, “शुण्डा करिकरे मद्ये” ॥ २।८३।१४ ॥

तुन्नवायाः सूच्या सीवनकर्तारः, ग्रामे घोषे च वर्तमाना महत्तराः शैलूषा नटाः, कैवर्तकाः “कैवर्तकारवाः” इति पाठे कारवाः कर्माराः ॥ २।८३।१५ ॥

गोरथैः शकटैः ॥ २।८३।१६ ॥

गोरोचनकुङ्कुमादिसंबन्धात्ताम्रवर्णं मृष्टं संपूर्णमनुलेपो ऽनुलेपनं येषां ते ॥ २।८३।१७ ॥

प्रहर्षः कायिकरोमाञ्चादिरूपः मोदो मानसः ॥ २।८३।१८ ॥

शृङ्गवेरुपुरं प्रति शृङ्गवेरपुर इत्यर्थः ॥ २।८३।१९ ॥

अप्रमादेन सावधानतया ॥ २।८३।२०,२१ ॥

अनुत्थितां गमने ऽनुद्योगाम् ॥ २।८३।२२ ॥

अद्य विश्रान्ताः श्वः प्रतरिष्यामः, इत्यभिप्रायेणेति मदभिप्रायज्ञापनेन निवेशयतेत्यर्थः ॥ २।८३।२३ ॥

और्ध्वदेहनिमित्तार्थम् एतच्छरीरपातोत्तरकालिकदेहभवसुखप्रयोजनायेत्यर्थः । यद्वा एतद्देहपातादूर्ध्वं जातदेहो निमित्तं यस्य परलोकस्य स ऊर्ध्वदेहनिमित्तः परलोकः स्वार्थिको ऽण् तदर्थमित्यर्थः । मध्ये मिलितनद्यन्तरे एवमनुक्तया गङ्गायास्तर्पणेन पितृस्वर्गप्राप्तिकरत्वं सूचितम् ॥ २।८३।२४ ॥

स्वेन स्वेन छन्देन स्वस्वेच्छया ॥ २।८३।२५ ॥

गङ्गामनु गङ्गां लक्षीकृत्येत्यर्थः । परिबर्हो यात्रोपयुक्तपटवेश्माद्युपकरणजातम् । विधानैर्वासव्यवस्थाकल्पनैः रामस्य निवर्तनं विचिन्तमानः चिन्तयमान इत्यर्थः ॥ २।८३।२६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥ २।८३ ॥