तमिति ॥ २।६६।१ ॥
राज्ञः शिर उपगृह्य अङ्के कृत्वेत्यर्थः ॥ २।६६।२ ॥
एकाग्रा पुत्रराज्यैकाग्रचित्ता ॥ २।६६।३ ॥
राज्यस्याकण्टकत्वं दर्शयति विहायेति । विपथे कान्तारे सार्थहीना सहायभूतपथिकसङ्घरहिता ॥ २।६६।४ ॥
आत्मनो दैवतं भर्तारं परित्यज्य त्यक्तधर्मणस्त्यक्तः स्त्रीधर्मो यया तादृश्याः कैकेय्या अन्यत्र अन्या पुत्रराज्ये का जीवितुमिच्छेत् । “परिष्वज्य” इति पाठे परिष्वज्य तेन सह भोगान्भुक्त्वा तं कालान्तरे परित्यज्येति शेषः ॥ २।६६।५ ॥
एवं साहसकरणे हेतुमाह नेति । किंपाको निम्बः, कतकस्तु किंपाको विषभेदस्तं कोपादिना भक्षयन्नात्महत्यादोषं न बुध्यते तद्वदित्यर्थ इत्याह तत्र लुब्ध इति नात्यन्तं समञ्जसं धनलोभादिना परस्य विषभक्षणं कारयन्यथा हत्यादोषं न बुध्यते इति वक्तुमुचितम् । यत्कैकेय्या राघवाणां कुलं हतं कत्कुब्जानिमित्तं प्रेरकतया ॥ २।६६।६ ॥
अनियोगे ऽनुचितनियोगे । वरव्याजात्कैकेय्या नियुक्तेन राज्ञा सभार्यं रामं विवासितं श्रुत्वा जनको ऽहमिव परितप्स्यति ॥ २।६६।७ ॥
जीवन्नेव नाशमदर्शनं गतः । “जीवनाशमितो गतः” इति पाठे राज्ञो जीवनाशो यथा भवति तथा गत इत्यर्थः ॥ २।६६।८ ॥
चारुतपस्विनी भर्तृसेवनादित्याशयः । पर्युद्वेगो भयं वने दुःखं प्राप्येति शेषः ॥ २।६६।९ ॥
निशम्यमाना नादमिति शेषः । “निशम्य नादम्” इति पाठान्तरम् ॥ २।६६।१० ॥
अल्पपुत्रश्चेति जनक इति शेषः । अल्पपुत्र इत्यस्य कन्यामात्रसन्ततिरित्यर्थ इति तीर्थः ॥ २।६६।११ ॥
दिष्टान्तं मरणम् । शरीरालिङ्गनपूर्वकमग्निप्रवेशे हेतुः– पतिव्रतेति ॥ २।६६।१२ ॥
व्यावहारिका व्यवहारे ब्राह्याभ्यन्तरसकलराज्यकृत्ये नियुक्ता अमात्या व्यपनिन्युः अन्तःपुराध्यक्षस्त्रीद्वारा भर्त्रालिङ्गनाद्विमोच्यान्यतो निन्युरित्यर्थः ॥ २।६६।१३ ॥
तैलद्रोणी तैलपूर्णकटाहः आदिष्टाः वसिष्ठादिभिराज्ञप्ता अमात्यास्तस्यां नृपं संवेश्य स्थापयित्वा ऽनन्तरं कर्तव्यानि दुःखपरिपालनादीनि कर्माणि चक्रुः ॥ २।६६।१४ ॥
पुत्रेण विना सङ्कालनं प्रेतनिर्हारं न कर्तुमीषुः । यतः सर्वज्ञास्ततो हेतोस्तैलद्रोण्यां भूयं रक्षन्ति ॥ २।६६।१५ ॥
शायितं ज्ञात्वा हा मृतो ऽयमिति पर्यदेवयन् ॥ २।६६।१६ ॥
नेत्राणां प्रस्रवणमश्रुप्रवाहो येषु मुखेषु तैः ॥ २।६६।१७।१९ ॥
तव प्रभुस्तव जीवनस्य प्रभुः ॥ २।६६।२० ॥
विदूषिता राज्यगर्वात्तिरस्कृताः ॥ २।६६।२१,२२ ॥
राघवस्य दशरथस्य ॥ २।६६।२३ ॥
न अराजतेति च्छेदः ॥ २।६६।२४ ॥
शून्यचत्वरवेश्मान्ता संमार्जनालेपवल्यादिशून्यचत्वराद्यन्ता यथापुरं यथापूर्वम् ॥ २।६६।२५ ॥
राज्ञि शोकात्पुत्रशोकात्त्रिदिवं स्वर्गं गते नृपाङ्गनासु च शोकादेव महीतलस्थासु महीतले लुठन्तीषु निवृत्तचारो निवृत्तकिरणप्रचारः प्रवृत्तचारा प्रवृत्ततमःप्रचारा ॥ २।६६।२६ ॥
सुहृदो वसिष्ठाद्याः पर्युषितदाहविविधवचनानि तु विप्रविषयाणीति न विरोधः । तस्मिञ्शयने
तैलद्रोण्याम् ॥ २।६६।२७ ॥
आ कण्ठं धारारूपेण प्रवहद्भिरस्रैरुपलक्षिताः कण्ठा येषां तैराकुला मार्गाश्चत्वराश्च यस्यां सा ॥ २।६६।२८,२९ ॥
एकः श्लोको ऽत्र सर्गे कतकसङ्ख्यया भ्रष्ट इति ज्ञायते ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय
आतिकाव्ये ऽयोध्याकाण्डे षट्षष्टितमः सर्गः ॥ २।६६ ॥