अथेति ॥ २।६५।१ ॥
परमसङ्स्कारा व्याकरणादिशिक्षावन्तः परमालङ्कारा वा । मागधा वंशावलीकीर्तकाः । “मङ्गलाः” इति पाठे ऽपि मङ्गलपाठकास्त एव उत्तमश्रुता उत्तमं श्रुतं वंशपरम्पराश्रवणमेषां ते मागधाः । श्रुतिशीला गायकास्तन्त्रीनादविभाजनशीला गायकाः पृथक्पृथङ् निगदन्तः स्वस्वमार्गानुसारेणेति शेषः ॥ २।६५।२ ॥
उदात्तमुचैःस्वरेणाभिहिता आशिषो यैस्तेषां प्रासादानामाभोगेषु मध्येषु विस्तीर्णः प्रतिध्वनिनेति शेषः ॥ २।६५।३ ॥
पाणिवादकाः पाणिवादनशीलाः अपदानानि राज्ञां वृत्ताद्भुतकर्माण्युदाहृत्य तदनुगतं पाणिवादान्यवादयन् ॥ २।६५।४ ॥
सस्वनुः फणादित्वात्पक्षे एत्वाभ्यासलोपाभावः । ये राजकुलगोचरा राजकुलवासयोग्या ये शुकादयः ॥ २।६५।५ ॥
तैः पूर्वश्लोकोक्तैः शुकादिभिर्व्याहृताः पुण्यशब्दाः काशीगङ्गादिरूपाः गाथानां केवलगायकानामाशीर्गेयमाशीर्वादप्रधानं गानं यद्वा गाथा राज्ञां चरित्रादिप्रतिपादिकास्तासामाशीर्वादघटितं गानमित्यर्थः ॥ २।६५।६ ॥
पर्युपस्थानं परिचर्या स्त्रीभिर्वर्षवरैः षण्ढैश्च भूयिष्ठाः । “षण्ढो वर्षवरस्तुल्यौ” । परिचारका इति शेषः ॥ २।६५।७ ॥
स्नानशिक्षाज्ञाः स्नानविधिज्ञाः यद्वारुणोदयात्पूर्वमेवोषसि स्नानार्थं जलाद्यानेतव्यमिति शिक्षाज्ञाः ॥ २।६५।८ ॥
मङ्गलालम्भनीयानि मङ्गलार्थमालम्भनीयानि स्पर्शनीयानि गवादीनि । “आलम्भः स्पर्शहिंसयोः” । प्रशानीयानि गङ्गोदकादीनि । दन्तधावनानन्तरं गण्डूषत्वेन प्राशनीयानि यानि नारीकेलोदकजीरकोदकानि च उपस्करा दर्पणवस्त्राभरणादयः कुमारीबहुलाः कुमार्यो बहुला यासु ताः स्त्रियो वरनार्यः ॥ २।६५।९ ॥
आभिहारिकं प्रातःसमये राज्ञो यदभिहर्तव्यं मङ्गलार्थमानेतव्यम्, तत्सर्वं सर्वलक्षणयुक्तं सर्वं विधिवदर्चितं यथायोग्यं बहूकृतं सुगुणं च तल्लक्ष्मीवच्च ॥ २।६५।१० ॥
परिसमुत्सुकं राजदर्शनं प्रतीति शेषः तस्थौ ततो ऽनुपसंप्राप्तमप्राप्तराजदर्शनमत एव किंस्विदित्युपशङ्कितमभूत् ॥ २।६५।११ ॥
शयनं प्रति अनन्तरा आसन्नाः कौसल्यादिव्यतिरिक्ताः प्रत्यबोधयन्प्रतिबोधनोचितमृदुविनीतवचनैः स्पर्शैश्च ॥ २।६५।१२ ॥
उचितवृत्ताः स्पर्शनादिव्यापारोचिताः किंचिदपि जीवच्चेष्टादि ॥ २।६५।१३ ॥
स्वप्नशीलज्ञाः स्वप्नप्रभावज्ञाः सञ्चलनादिषु हृदयकरमूलनाडिषु चेष्टां नोपलेभिरे ततो वेपथुयुक्ताः राज्ञः प्राणेषु शङ्किता आसन् ॥ २।६५।१४ ॥
प्रतिस्रोति इति । स्रोतोभिमुखस्थितवेतसादितृणाग्राणां सदृशं कम्पं सञ्चकाशिरे प्रकाशितवत्यः प्राप्ता इति यावत् । सन्देहमानानां सन्दिहानानां यदाशङ्कितं पापं मरणपूर्वं राज्ञेति शेषः । तस्य निश्चयो जज्ञे जातः ॥ २।६५।१५ ॥
यथाकालसमन्विते मृते इव, यद्वा यथाकालसमन्विते बह्वीषु रात्रिषु दुःखतो जागरणादयथाकाले प्रत्युषसि निद्रया समन्विते इत्यर्थः ॥ २।६५।१६ ॥
शोकेन सन्नोपहता संनता सुप्तिवशसङ्कुचितहस्तपादादिकरणा । कौसल्येति अत्रसुप्तेति
शेषः ॥ २।६५।१७ ॥
न विभ्राजते न विशेषेण भ्राजते । तत्र हेतुः– शोकेत्यादि ॥ २।६५।१८ ॥
ते उभे देव्यौ प्रश्वासादिना सुप्ते दृष्ट्वा नृपं च तं सुप्तमेव सन्तं तदवस्थायामेवोद्गतप्राणं लक्षणतो दृष्ट्वा सर्वमेवान्तःपुरमुद्गतप्राणं तत्कल्पमदृश्यत । “अमन्यत” इति पाठे ऽन्तःपुरं कर्तृ नृपमुद्गतप्राणममन्यतेत्यर्थः । तीर्थस्तु अदृश्यतेत्येतत्परस्परमपश्यदित्यर्थ व्याचष्टे ॥ २।६५।१९ ॥
स्थानाद्वासस्थानात्प्रच्युतो यूथपो महागजो यासां ताः करेणव इव प्रचुक्रुशुरित्यन्वयः ॥ २।६५।२०,२१ ॥
हा भर्तेति । हा भर्तरितीत्यर्थः ॥ २।६५।२२ ॥
अयोध्याजनपदवाची कोशलशब्दस्तालव्यमध्यः कौसल्यापितृदेशवाची तु दन्त्यमध्यः ॥ २।६५।२३ ॥
शान्तगुणे उपशान्तजीवनधर्मे ॥ २।६५।२४,२५ ॥
ताभिः कैकेयीप्रभृतिभिः पश्चादन्तःपुरं प्रविष्टाभिः स्वनादेन प्रथमप्रविष्टानां स्त्रीणां बलवान्नादो ऽनुद्रुतो युक्तः अभूदिति शेषः, येनानुद्रवणेन स्फीतीकृतो वर्धितः स नादो भूयो ऽधिकं तद्गेहं समनादयद्व्याप्तवान् । तीर्थस्तु– “येन स्थिरीकृतं भूयः” इति पठित्वा येन नादेन स्थिरीकृतं मुखरितं तद्गृहं कर्तृ भूयो ऽत्यर्थं समनादयदनददित्यर्थमाह ॥ २।६५।२६ ॥
पर्युत्सुकजनाकुलं पूर्ववृत्तान्तज्ञानाय पर्युत्सुकजननिबिडम् ॥ २।६५।२७ ॥
दिष्टान्तं कालधर्ममुपेयुषः प्राप्तस्य सद्म परित्रस्तसंभ्रान्तत्वादिगुणविशिष्टं बभूव ॥ २।६५।२८ ॥
अतीतं मृतं पत्नयः पत्न्यः बाहु प्रगृह्याभिहृत्य अनाथवदनाथार्हम् ॥ २।६५।२९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे पञ्चषष्टितमः सर्गः ॥ २।६५ ॥