०६४ दशरथमृतिः

वधमिति । राघवो दशरथो वधं स्मृत्वा पुत्रं प्रति विलपन्नेव कौसल्यामिदमब्रवीदवदत् ॥ २।६४।१ ॥

सङ्कुलितेन्द्रियः क्षुभितेन्द्रियः कथं नु सुकृतं भवेदित्वचिन्तयम् ॥ २।६४।२ ॥

तत एवं चिन्तानन्तरं यथाख्यातपथं मुनिकुमारोपदिष्टं मार्गं प्राप्या ऽ ऽरुह्या ऽ ऽश्रमं गतः ॥ २।६४।३ ॥

तत्राश्रमे ऽपरिणायकौ सञ्चारयितृपुरुषान्तररहितौ ॥ २।६४।४ ॥

तन्निमित्ताभिः पुत्रनिमित्ताभिः कथाभिर्हेतुभिरपरिश्रमावासीनौ पुत्रो जलमानेष्यतीत्येवंरूपां तामाशामुपासीनौ सेवमानौ मत्कृते मत्कृतदुष्कर्मनिमित्तं तामाशां प्रति हीनावपि तां सेवमानावपश्यमिति पूर्वेणान्वयः । “उदासीनौ” इति पाठे ऽनाथवदुदासीनौ दुःखिताविव ॥ २।६४।५ ॥

तौ दृष्ट्वा शोकोपहतचित्त इत्यादि भूयो ऽधिकम् ॥ २।६४।६ ॥

चिरायसि विलम्बयसि ॥ २।६४।७ ॥

यन्निमित्तं येन हेतुना एतावत्कालं त्वया सलिले क्रीडितं तेन ते मातोत्कण्ठिता सशोकस्मरणवत्यभूत् । “यन्न दत्तम्” इति पाठे यत्त्वया शीघ्रं जलमावयोर्न दत्तम्, यत्त्वया सलिले क्रीडितं तेन ते मातोत्कण्ठितेत्यन्वयः ॥ २।६४।८ ॥

व्यलीक्रमप्रियम् ॥ २।६४।९ ॥

अगतीनां त्वं गतिः हीनचक्षुषां त्वं चक्षुः अतो यन्न भाषसे तत्कथं कस्मात् ॥ २।६४।१० ॥

सुतपदशब्दत इव सुतधिया सज्जमानया गद्गदया अत एव हीनव्यञ्जनया व्यञ्जनाक्षरव्यक्तिरहितया अत एवाव्यक्तया वाचा वदन्तं मुनिं प्रेक्ष्य भीतचित्त इवाहं तादृश्यैव वाचा ऽब्रुवमित्यन्वयः ॥ २।६४।११ ॥

मनस इति । मनसः कर्म भीतिरूपं वाग्बलमाश्रित्य चेष्टाभिरभीतिसाध्यव्यवहारैरभि अभितः संस्तभ्य भीताकारतामाच्छाद्याभीत इवाचचक्षे ॥ २।६४।१२ ॥

महात्मनस्तव पुत्रो नाहमिति योजना सज्जनावमतं सज्जनगर्हितम् मया भवता चेति शेषः ॥ २।६४।१३ ॥

तदेवाह भगवन्निति । निपाने आगतं श्वापदं व्याघ्रादिं गजं वा जिघांसुरित्यन्वयः ॥ २।६४।१४ ॥

अयं शब्दहेतुः पदार्थ इत्यर्थः । द्विप इति मत्वाहं स्थितस्ततो मया स बाणेन हतः ॥ २।६४।१५ ॥

गतप्राणं गतकल्पप्राणम् ॥ २।६४।१६ ॥

तस्यैव त्वत्पुत्रस्यैव वचनाद्बाण उद्धृत इत्यन्वयः ॥ २।६४।१७ ॥

अन्धौ मातापितरौ को ऽतःपरं रक्षिष्यतीति भगवन्तौ शोचन्विलाप्य च स्वर्गमास्थित इत्यन्वयः ॥ २।६४।१८ ॥

युष्मद्रक्षके पुत्रे एवं गते सति शेषं कर्तव्यं यत्स्यात्तत्तत्र मह्यं भगवान्प्रसीदतु तदुद्दिश्य मामाज्ञापयत्वित्यन्वयः । युष्मद्रक्षणमपि मया कर्तुं शक्यमिति भावः ॥ २।६४।१९ ॥

एवमज्ञानकृतत्वबोधनाच्छेषायुः पर्यन्तं रक्षणस्यापि कर्तव्यताबोधनाच्च मां दैवान्न भस्मसादकरोदित्याह– स इति । तीव्रमायासं भस्मीभावफलकशापदानम् ॥ २।६४।२०,२१ ॥

स्मशाब्दौ वाक्यालङ्कारे । फलेद्विशीर्येत ॥ २।६४।२२ ॥

ज्ञानपूर्वत्वे सद्यो ऽनर्थप्राप्तिः स्यादित्याह क्षत्रियेणेति । विशेषतो ऽन्धत्वानाथत्वादेः ज्ञानपूर्वं

कृतो यद्ययं वधः स्यात्तदा तच्छ्रवणजो मत्कोपो वज्रिणमपि स्थानाच्च्यावयेत्पातयेत्किमु त्वादृशमित्यर्थः ॥ २।६४।२३ ॥

पुत्रकोपेनापि तत्कालनासाभावो ऽज्ञानादेवेत्याह सप्तधा त्विति । स्वापेक्षया तपोन्यूनत्वात्सप्तधेति ब्रह्मवादिनि ब्रह्मवादिसमे । “ब्रह्मचारिणि” इति पाठान्तरम् ॥ २।६४।२४ ॥

जीवसे जीवसि ते तव यस्मादिदं कर्माज्ञानात्कृतं तेन जीवसि । हिः पादपूरणार्थः । यदि ज्ञानपूर्वं कृतमिदं स्यात्तदा राघवाणां कुलमेव न स्यात् कुतो भवान् जीवेदिति शेषः ॥ २।६४।२५ ॥

पश्चिमदर्शनमन्तर्दर्शनं द्रष्टुमिच्छावो ऽतस्तं देशं नयेति मामभाषत ॥ २।६४।२६,२७ ॥

अहं तं देशं नीत्वा तं पुत्रमस्पर्शयम् ॥ २।६४।२८ ॥

तं तदवस्थमात्मनः पुत्रमासाद्य स्पृष्ट्वास्य शरीरे निपेततुः पितैनमुवाच च ॥

२।६४।२९ ॥

कुपितो जातकोपः ॥ २।६४।३० ॥

“नन्वहम्” इति पाठः । अप्रिय इति च्छेद इति कतकः “न त्वहम्” इति पाठः । अहं यदि तव प्रियो न तथापि मातरं पश्येति संबन्ध इति तीर्थः ॥ २।६४।३१ ॥

अन्यद्वा पुराणं वैश्याच्छूद्र्यां जातत्वेन संकरत्वाद्वेदप्रसङ्गो नोक्तः ॥ २।६४।३२ ॥

सन्ध्यामिति तन्त्रमार्गेणेति शेषः । हुतहुताशनो “नमस्कारेण मन्त्रेण पञ्चयज्ञान्समापयेत्” इत्युक्तरीत्या श्लाघयिष्यति श्लाघनमुद्वर्तनं तत्पूर्वंकं स्नापयिष्यति । “नाप्सुश्लाघमानः स्नायात्” इति ब्रह्यचारिप्रकारणस्थापस्तम्बस्मृतौ तथा व्याख्यानात् ॥ २।६४।३३ ॥

कन्दं जलोद्भवपद्मादीनाम्, मूलं स्थलोद्भवानामिति तीर्थः । अकर्मण्यं कर्मानुष्ठानाक्षमम् अप्रग्रहं नीवारादिसङ्ग्रहरहितम् अनायकं पालकहीनमित्यर्थः तीर्थः । कर्मणि साधुं कर्मण्यमित्यतिथिविशेषणम् भोजयिष्यति । “कर्मण्यम्” इत्येव च पाठः । अप्रग्रहं यष्टिग्रहणपूर्वकमार्गप्रदर्शकरहितम् अत एवानायकं स्नानादिकर्मप्रवर्तकहीनमित्यर्थः कतकः ॥ २।६४।३४ ॥

भरिष्यामि स्वयमन्ध इति शेषः ॥ २।६४।३५ ॥

मा मेत्याबाधे द्विर्वचनम् । मामुद्दिश्य तिष्ठ मा गमः मा गच्छेति वा । समेधितः सङ्गतः ॥ २।६४।३६ ॥

यमक्षयं यमगृहम् ॥ २।६४।३७ ॥

यमगृहगमने स्वप्रयोजनमाह तत इति । धर्मराजो मे क्षमतां पुत्रवियोगजनकं पूर्वकृतापराधम् अयं मे पुत्रः पितरौ बिभृयात्पालयतु ॥ २।६४।३८ ॥

ननु त्वया याचिते ऽपि कथमेतल्लभ्यते ऽत आह दातुमिति । लोकपालोपम ईदृशस्यानाथस्याभयदक्षिणां पुत्रदानेन तदभावेन महाभयप्राप्तेरिति भावः । कतकस्तु– यतो ऽयं मे पुत्रः पितरौ बिभृयात्, अतो ऽस्य धर्मराजो भवान्क्षमतां शस्त्रघातजन्यदुर्मरणजनकं पापं क्षमताम् एवं मया प्रार्थितो दुर्मरणजां दुर्गतिं दूरीकृत्य त्वां स्वर्गं नयिष्यति, ईदृशस्य तपस्विनो ममैकां पुत्रतारणरूपाभयदक्षिणां लोकपालत्वाद्दातुमर्हतीत्यर्थमाह ॥ २।६४।३९ ॥

अथ मृतस्य पुनर्लाभमशक्यं मत्वा विश्वामित्र इव त्रिशङ्कुं स्वमहिन्ना सुतं स्वर्गं प्रापयति– अपापो ऽसीत्यादि । अपापस्त्वं पुत्र पापकर्मणानेन क्षत्रियेण यथा निहतो ऽसि, तेन हननेन प्रायश्चित्तरूपेण शुद्धः सत्येन मदीयेनास्त्रयोधिनां शूराणां लोकान्गच्छेत्यर्थः । यद्वा हे पुत्र पापेन कर्मणा शस्त्रवधलक्षणेन निहतो यथा यद्यपि त्वमसि, तथापि तेन मदीयेन सत्येनापापो

भूत्वास्त्रयोधिनां लोकान्गच्छ ॥ २।६४।४० ॥

उक्तमेवार्थं पुनराह– यामिति ॥ २।६४।४१ ॥

तमेवार्थं विशेषत आह यां गतिमिति ॥ २।६४।४२ ॥

सर्वभूतानां गतिराश्रयो ब्रह्म । एकपत्नीव्रता रामादयः ॥ २।६४।४३ ॥

गुरुसेवाभृतस्तत्सेवाकर्तारः देहन्यासकृतो महाप्रस्थानादिना परलोकार्थं तनुत्यजः ॥ २।६४।४४ ॥

अस्मिन्कुले मदीये नित्यतपस्विकुले यास्यति अकुशलां गतिमित्यनुकर्षः ॥ २।६४।४५ ॥

उदकं संस्कारपूर्वकम् ॥ २।६४।४६ ॥

स्वर्गमध्यारुहत् तेन सत्येनाशु गच्छेति वचनानन्तरमेवेति शेषः । शक्रेण सहेत्यनेन मुनिपुत्रं स्वर्गे नेतुं शक्रः समागत इति ध्वनितम् ॥ २।६४।४७ ॥

आरुह्य पुनः शक्रेण सहागत्याबभाषे इत्यन्वयः । अस्यैव प्रपञ्चः– आश्वस्येत्यादि । अत्र वक्तुः शोकग्रस्ततया बभाषे ऽब्रवीदिति पौनरुक्त्यं न दोषाय ॥ २।६४।४८ ॥

भवतोरिति अनेन मातापितृसेवा धर्मान्तराभावे ऽपि सैवेन्द्रसालोक्यदेति ध्वनितम् । मूलं समीपम् ॥ २।६४।४९ ॥

वपुष्मता पुष्पकादिवत्प्रशस्ताकारेण ॥ २।६४।५०,५१ ॥

जहि प्राणैर्वियोजय ॥ २।६४।५२ ॥

यदज्ञानान्निहतो ऽतः शप्स्ये, न तु प्रत्यक्षमेव भस्मीकरोमि । सुदुःखमतिदारुणमिति क्रियाविशेषणे ॥ २।६४।५३ ॥

दुःखं मरणपर्यवसायि सांप्रतं वर्तते त्वन्निमित्तमिति शेषः । कालं करिष्यसि मृत्युं प्राप्स्यसि ॥ २।६४।५४ ॥

ब्रह्महत्या तत्समं पापम् ॥ २।६४।५५ ॥

एतादृशो भावः पुत्रशोकेन मरणरूपः । यथा तत्तद्वस्तु दक्षिणां दातारं यथा सा दक्षिणान्यतः प्राप्ता भवति तद्वत् ॥ २।६४।५६ ॥

देहं देहौ ॥ २।६४।५७ ॥

शब्दवेध्यनुकर्षिणा प्रथमं शब्दवेधिना पश्चाद्विद्धशल्यानुकर्षणमपि कृतवता पापं मुनिकुमारवधरूपम् । तीर्थस्तु “शब्दवेध्यानुशिक्षिणा” इति पाठं शब्देन वेद्धुं योग्यं शब्दवेध्यं तदनुशिक्षितुं शीलं यस्य तेनेत्यर्थं चाह । तदसमञ्जसमिति स्पष्टमेव ॥ २।६४।५८ ॥

विपाकः फलम् अपथ्यैर्व्यञ्जनैः सह भुक्ते ऽन्नरसे व्याधिर्यथोपतिष्ठते । “व्याधिमन्नरसो यथा” इति पाठे उपस्थापयतीति शेषः ॥ २।६४।५९ ॥

उदारस्य श्रेष्ठस्य तद्वचस्तद्वचःफलं त्रस्तो मरणभयादिति शेषः । रुदन् जीवितं त्यक्ष्यामीति भार्यामाहेति संबन्धः ॥ २।६४।६० ॥

चक्षुर्भ्यां न पश्यामि मुमूर्षत्वादिति भावः ॥ २।६४।६१ ॥

नहि द्रक्ष्यन्तीति इह विद्यमानान्स्वेष्टबन्धूनिति शेषः । इतः परं त्वत्स्पर्शादिकं मे दुर्लभमिति भावः । यदि मामद्य रामः सकृदपि स्पृशेत् अन्वारभेत्किंचिद्द्वारा वा स्पृशेत् ॥ २।६४।६२ ॥

यदि वा धनं कोशं यौवराज्यं वा लभेत तदा जीवेयम् । राघवे यन्मया कृतं विवासनरूपं तन्मे वृत्तस्य सदृशं न ॥ २।६४।६३ ॥

अनेन रामेण यन्मयि कृतं राज्यं त्यक्त्वा मद्वचःपरिपालनरूपं तत्तस्यैव सदृशम् ।

अनन्वयो ऽत्रालङ्कारः । मत्सदृशो ऽन्यायकृद्रामसदृश उचितकर्ता च भुवि नाभूदस्ति भविष्यति वान्य इत्याह दुर्वृत्तमपीति ॥ २।६४।६४६७ ॥

स्तोकमल्पं वारि आतपो यथा शुष्कं करोति । ये द्रक्ष्यन्ति न ते मनुष्याः, किं देवांशा एव ॥ २।६४।६८७१ ॥

शुक्रं मार्गगतं यथा मौढ्यादि विहाय स्वोच्चमार्गगतं शुक्रमिवेत्यर्थ इति तीर्थः । कतकस्तु– “शुक्रं मार्गगतं यथा” इति पाठः, हस्तात्पञ्जराद्वान्यदेशगतं पुनश्च मार्गं यथास्थानं गतं प्राप्तं शुक्रं क्रीडाशुकमिवेत्यर्थ इत्याह । चित्तमोहेन दुःखातिशयप्राप्तमूर्छया सीदतेतरामतिशयेन शीर्यतीव ॥ २।६४।७२ ॥

वेदये जानामि संयुक्तानिन्द्रियसंयुक्तान् संरक्ता भस्मतां प्राप्ता यथा दीपस्य रश्मयो विपद्यन्ते तथेन्द्रियाणीत्यर्थः ॥ २।६४।७३ ॥

संसाधयति नाशयति ॥ २।६४।७४७८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥ २।६४ ॥