०६३ दशरथेन पूर्वकृतबालवधकथनम्

प्रतिबुद्धे इति ॥ २।६३।१ ॥

वासवोपमं तं दशरथम् उपसर्गं उपप्लवः शोक इति यावत् । आसुरं तमो ऽसुरस्य राहोः संबन्धि तम आवरणशक्तिर्यथा सूर्यमावृणोति तद्वत् ॥ २।६३।२ ॥

आत्मनो दुष्कृतं स्मृत्वासितापाङ्गीं विवक्षुरभवत् ॥ २।६३।३ ॥

षष्ठीं रजनीम् । प्राप्येति शेषः ॥ २।६३।४,५ ॥

तदेव लभते तल्लभत एवेति च ॥ २।६३।६ ॥

अर्थानामैहिकानां कर्मणां पारलौकिकानामारम्भ आरम्भकाले फलं प्रति यो गुरुलाघवं गौरवं लाघवं च दोषं वा गुणं वा न जानाति केनचिदल्पेन इत्यादिना महदनिष्टं केनचिन्महतापि यागादिनाल्पफलं तथेदं कर्माल्पदोषं बहुगुणमिदं च बहुदोषमल्पगुणमित्येवं न जानाति स बाल इत्युच्यते न स्तनन्धयः ॥ २।६३।७ ॥

छित्त्वा पलाशोपरोधनिवृत्त्यर्थमिति शेषः । पुष्पं दृष्ट्वा पुष्पमहत्त्वं दृष्ट्वा फलमहत्त्वमनुमायेत्यर्थः । गृध्नुर्लिप्सुः शोचति स्वतर्कितफलाभावात् ॥ २।६३।८ ॥

दृष्टान्तं दार्ष्ठान्तिके योजयति– अविज्ञायेति । फलं क्रियमाणकर्मणो भावि फलमविज्ञायाविचार्य कर्म त्वेव कर्मैव तु लौकिकं वैदिकं वानुधावत्यनुतिष्ठति शोचेत् तप्येदित्यर्थः ॥ २।६३।९ ॥

अस्तु प्रकृते किं तत्राह सो ऽहमिति । फलागमे रामकृतस्वोत्तरक्रियया लभ्यपारलौकिकफलप्राप्तिसमये रामाभिषेकजसुखप्राप्तिसमये वा ॥ २।६३।१० ॥

यदाचरतीत्याद्युक्तिविषयमाह लब्धेति । कुमारो ऽजकुमारः शब्दवेधीति लब्धः शब्दो येन तादृशेन मया शब्दवेधीत्येवं लब्धकीर्तिनेति यावत् । कुमारेम जीवत्पितृकेण इदं वक्ष्यमाणम् ॥ २।६३।११ ॥

तदिदं तत्फलमिदं दुःखम् । अज्ञानकृतकर्मणा कथमेवं फलं तत्राह– संमोहादिति ।

अज्ञानेनापि भक्षितं विषं यथा बालमपि हन्ति तद्वदित्यर्थः ॥ २।६३।१२ ॥

शब्दवेध्यं शब्दवेधित्वमित्यर्थे आर्षम् । इदं फलमेवं दुष्टफलमिति मयाप्यविज्ञातम् । अयं भावः यथान्यः प्राकृतः पुरुषः पलाशैः पलाशपुष्पैर्मोहितस्तत्फलं न जानाति, तथाहमपि शब्दवेधित्वं लोकपूज्यं ज्ञात्वा तत्फलमेवं क्रूरमिति न ज्ञातवानिति । कतकस्तु– यथा पलाशपुष्पैरन्यो मोहितो भवति, तथाहं कैकेयीवाक्यैरिति शेषः । अथाज्ञानकृतस्यापि विषपानवदावश्यकं फलमित्युपसंहरति– एवमिति । शब्दवेधित्वरूपं सामर्थ्यं प्राप्य यत्कर्माविज्ञातं सत्कृतं तस्य कर्मण इदं फलं कैकयीवाक्यकृतो मोह इत्यर्थ इत्याह ॥ २।६३।१३ ॥

तादृशदुष्कर्मप्राप्तिः कदेत्यत्राह– देवीति ॥ २।६३।१४ ॥

प्रावृषं वर्णयति– अपास्येति । भौमान्रसानपास्य निरस्य शोषयित्वेति यावत् । तेनैव हेतुनाजगत्तप्त्वा परेताचरितामतएव भीमां दिशं दक्षिणां दिशमाचरते गच्छति । “आविशते” इति पाठान्तरम् । “उपास्य” इति पाठे ऽपि सेवित्वेत्यर्थद्वारा शोषयित्वेत्यत्रैव पर्यवसानं बोध्यम् ॥ २।६३।१५ ॥

सारङ्गा हरिणाश्चातका वा ॥ २।६३।१६ ॥

क्लिन्नाः पक्षोत्तराः पक्षोपरिभागा येषाम् अत एव कृच्छ्रात्कृच्छ्राद्याचरणनिमित्तं स्नाता इव वृष्टियुक्तवातेन कम्पिताग्रान् ॥ २।६३।१७ ॥

पतमानेन पतता मत्ताः सारङ्गा यस्मिंस्तादृशो ऽचलस्तोयराशिरिवाबभौ ॥ २।६३।१८ ॥

गिरिधातुभ्यो धातुरूपहेतुभ्यः क्वचित्पाण्डुरधातुसंयोगात्पाण्डुराणि क्वचिदरुणधातुसंयोगादरुणानि क्वचित्सभस्मानि, भस्मसंबन्धाद्भुजङ्गवत्कुटिलानीति शेषः ॥ २।६३।१९ ॥

व्यायामो मृगयाविहारः ॥ २।६३।२० ॥

जिघांसुरन्वगामित्यन्वयः ॥ २।६३।२१ ॥

पूर्यतः शत्रन्तत्वमार्षम् ॥ २।६३।२२ ॥

शब्दं प्रति शब्दं लक्ष्यं कृत्वा, यद्वा शब्दावगतवेध्यं प्रति गजप्रेप्सुर्गजरूपं वध्यं प्राप्तुमिच्छुः । तज्जिघांसया शरमुद्धृत्याभिलक्ष्य संमुखमपातयम् ॥ २।६३।२३ ॥

यत्र निशितं बाणममुञ्चं तत्र वनौकस आरण्यकमनुष्वस्य बाणाभिहतमर्मणस्तोये पततो हा हेति व्यक्ता वागुषसि प्रादुरासीत् तत्र भूमौ तस्मिन्निपतिते सति मानुषी वागभूत् ॥ २।६३।२४,२५ ॥

तामेव वाणीमाह– कथमित्यादि । अस्मद्विधे तपस्विन्यजातशत्रौ प्रविविक्तां निर्जनां रात्रावपररात्रे उदाहार इत्यत्र दीर्घ आर्षः ॥ २।६३।२६ ॥

न्यस्तदण्डस्य त्यक्तपरपीडस्य ॥ २।६३।२७ ॥

जटाभारेत्यादिना हन्तुरपि लाभाभावः सूचितः ॥ २।६३।२८ ॥

मम वधेन कः पुमानर्थी मनुष्यमांसेन न कस्यापि प्रयोजनमिति व्यर्थ एव मद्वध इति भावः । परलोकनाशकत्वात्केवलानर्थसंहितमिह लोके च फलरहितम् ॥ २।६३।२९ ॥

क्वचिदिहलोके परत्र वा यथा गुरुतल्पगं न साधु मन्यन्त एवमेनं न मन्येत को ऽपीत्यर्थः । आत्मन इमं जीवितक्षयं नानुशोचामि ॥ २।६३।३०,३१ ॥

एकेनेषुणा वृद्धौ हतौ, अहं च हतः मद्वधेन तयोर्वधस्य सिद्धत्वादित्याशयः ॥ २।६३।३२ ॥

अकृतात्मना ऽजितेन्द्रियेण धर्मानुकाङ्क्षिणो धर्मप्रतीक्षाशीलस्य मम कराभ्यामित्यन्वयः ॥ २।६३।३३ ॥

करुणं करुणाजनकं वचः श्रुत्वा विलपतः । “लालप्यतः” इति पाठे तु यङन्ताच्छता आर्षः ॥ २।६३।३४,३५ ॥

प्रविद्धं ध्वस्तं पर्यस्तं वा ॥ २।६३।३६ ॥

त्रस्तं नेत्राभ्यामुद्वीक्ष्या ॥ २।६३।३७३९ ॥

जनयिता पिता नूनं निश्चयेन मत्प्रतीक्षौ ॥ २।६३।४० ॥

कृतामासां पुत्रो जलमानेष्यतीत्येवंरूपां ममागमनात्तृष्णां पिपासां च चिरं धारयिष्यतः तपसः श्रुतस्य वेत्यत्र मामकस्य पित्र्यस्य चेति शेषः । फलयोगः फलसंबन्धो नास्ति ॥ २।६३।४१ ॥

अपरिक्रमः सञ्चाराक्षमो ऽन्धत्वात् ॥ २।६३।४२ ॥

अशक्तिर्वृद्धत्वात् वातादिना भिद्यमानं नगं वृक्षमन्यो नग इव मां त्रातुमशक्तः त्वमेव मे पितुराचक्ष्व ॥ २।६३।४३ ॥

एधितो वर्धितो वह्निर्वनमिव त्वां न दहेत् मा दहत्वित्यर्थः । एकपदी सूक्ष्ममार्गः यतो यया एकपद्या मे पितुराश्रमः प्राप्यते सेयमेकपदी ॥ २।६३।४४ ॥

तया गत्वा तथा प्रसादय यथा त्वां न शपेत् मां विशल्यं कुरु ते शरो मे मर्म रुणद्धि पीडयति । मृदु सिकताप्रायम् सोत्सेधमुच्छ्रायवत्तीरम् अम्बुरयो नदीवेग इव ॥ २।६३।४५४७ ॥

मम चिन्तां लक्षयामासेत्यन्वयः । एवं चिन्तया शल्यं नोद्धरतीति ज्ञातवान् परमार्थः शास्त्रतत्त्वम् । “परमार्तवत्” इति पाठे परमार्तः सन्नित्यर्थः ॥ २।६३।४८ ॥

क्षयं शक्तिक्षयं गतः प्राप्तः विवृत्ताङ्गः परावृत्तनेत्रः अचेष्टमानो हस्तपादादिचेष्टारहितः धैर्येण शोकं संस्तभ्याहं स्तिरचिन्तो भवामि मम चित्ते मोहो नास्तीत्यर्थः अतो यद्वदामि तच्छृण्वित्यर्थः । शोकं ब्रह्महत्याप्तिजं संस्तभ्य त्यक्त्वा अधुना स्थिरचित्तो भवेति पाठान्तरे ऽर्थः ॥ २।६३।४९ ॥

अतो ब्रह्महत्याकृतं तापं भयम् अर्धचादिस्तापशब्दः ॥ २।६३।५० ॥

वैश्येन शूद्रायां जातः करणः इतीव इत्येवंजातीयकम् ॥ २।६३।५१ ॥

आताम्यमानस्य ताम्यतः व्यथया सङ्कुचिताङ्गस्येति यावत् । उद्धरम् अडभाव आर्षः । सन्त्रस्तः प्राणहरत्वात् तपोधनस्तत्कुमारः ॥ २।६३।५२ ॥

कृच्छं मर्मव्रणं प्राप्य विलप्य च सन्ततमुछ्वसन्तं सरयूतीरे मृत्वा शयानं वीक्ष्याहं भृशं विषण्णो ऽभवमिति कौसल्यां प्रत्युक्तानुवादः ॥ २।६३।५३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे त्रिषष्टितमः सर्गः ॥ २।६३ ॥