एवं कौसल्याक्रूरवचोभीतस्य राज्ञो ऽञ्जलिपर्यन्तं दैन्यं दृष्ट्वा राजानमनुनयति एवं त्विति । चिन्तयामासानयोच्यमानं सर्वं सत्यं किमिह कर्तव्यमिति विचारयामास ॥ २।६२।१ ॥
मोहव्याकुलितेन्द्रियः जात इति शेषः ॥ २।६२।२ ॥
चिन्तामुपागमत्पुत्रविश्लेषजदुःखसाधनं कर्म ममेति चिन्तामाप ॥ २।६२।३ ॥
प्रत्यभात्प्रतिभातम् दुष्कृतं कर्म मुनिकुमारवधरूपं शब्दमेव लक्ष्यदेशस्थं प्राप्य विध्यतीति शब्दवेधी ॥ २।६२।४ ॥
अमना दुर्मनाः तेन शोकेन मुनिकुमारवधजेन शोकेन ॥ २।६२।५ ॥
अवाङ्मुखः स्वकृततदप्रियस्मरणाल्लज्जया ॥ २।६२।६ ॥
परेष्वपि शत्रुष्वपि ॥ २।६२।७ ॥
विमृशमानानां जानतीनाम् ॥ २।६२।८ ॥
दृष्टौ लोके परावरावुत्कर्षापकर्षौ यया सा अपकृष्टा अपि भर्तारमेवं न वदन्तीति भावः ॥ २।६२।९ ॥
प्रणाली प्रासादादौ जलनिर्गममार्गः नवोदकं वर्षजलम् ॥ २।६२।१० ॥
स्वानुनयाय राज्ञा कृतं राज्ञो ऽञ्जलिं पाणिभ्यां गृहीत्वा पद्ममिव मूर्ध्नि बद्धा रुदती त्रस्ता अहमपि कैकेयीवत्पतिशोककारिवचनादिकं प्राप्तवतीति भीता संभ्रमाद्राज्ञ्यत्यादराद्वच आह ॥ २।६२।११ ॥
भूमौ निपतितास्मि साष्टाङ्गं प्रणमामि हे देव त्वया याचिताहमनुनीताहं हतास्मि ईश्वरेप्सितवैपरीत्यस्यान्याय्यत्वात् अतस्त्वया क्षन्तव्या न किंतु दासीवत्प्रहर्तव्येत्यर्थः ॥ २।६२।१२ ॥
एषा हि लोके सा स्त्री कुलस्त्री न भवति या उभयोः श्लाघनीयेन पत्या संप्रसाद्यते ॥ २।६२।१३ ॥
किमप्यत्यनुचितं भाषितं तत्क्षन्तव्यमिति शेषः ॥ २।६२।१४ ॥
शोक एवमाद्यमनुचितव्यवहारप्रवर्तक इत्याह शोक इत्यादि ॥ २।६२।१५ ॥
सुसूक्ष्मो ऽपि शोकः सोढुं न शक्यते किं पुनर्महानिति शेषः ॥ २।६२।१६ ॥
स्वशोकस्य महत्त्वं दर्शयति वनेति । पञ्चरात्र इत्यस्य गत इति शेषः । तत्र प्रथमा तमसातीरे, द्वितीया गुहपुरे, तृतीया गङ्गातीरे, चतुर्थी प्रयागे, पञ्चमी यमुनातीरे, षष्ठी चित्रकूटे तद्दिने सुमन्त्रस्यायोध्याप्राप्तिः अत एवाग्रे षष्ठीति दशरथोक्तिः । अथवाद्यदिने संपूर्णदिनं स्वनिकटे स्थितत्वेन स्वदेशे तमसातीरे एव स्थितत्वेन तद्दिनमगणय्य कौसल्ययाद्य पञ्चरात्रो गण्यत इत्युक्तम् राजा तु तमपि गृहीत्वा षष्ठीति वक्ष्यति । यत्तु कतकेन निर्गमनात्सप्तरात्रः सुमन्त्रागमनदिने इत्युक्तम्, तदज्ञानात् गङ्गोत्तरणदिनात्तृतीये ऽहनि चारप्रतिनिवृत्त्युत्तरं सायाह्ने तद्दिन एव सुमन्त्रप्रस्थानस्य वक्तुं शक्यत्वात् रामस्य निर्गमनाद्दिने षष्ठे इति पूर्वलिखितपाद्मविरोधाच्च ॥ २।६२।१७ ॥
नदीनां वेगेन समुद्रसलिलमिवेत्युत्प्रेक्षामात्रं न तु तस्य तेन वृद्धिरित्याहुः । परे तु महत्समुद्रसलिलं वेगेन चन्द्रोदयवृद्धिवेगे नदीनां हृदि तटद्वयान्तरे यथा वर्धत इत्यर्थः । समुद्रगामिनदीनां चन्द्रोदयकालिकसमुद्रवृद्धया वृद्धेः कियद्दूरमद्याप्युपलम्भादित्याहुः ॥ २।६२।१८ ॥
शुभं वचो ऽतिदुःखिताया अपि पत्यनुनयपरत्वाद्वचसः शुभत्वम् ॥ २।६२।१९,२० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे द्विषष्टितमः सर्गः ॥ २।६२ ॥