परमपतिव्रतापि कौसल्या दुःखातिशयात्पूर्वं जानत्यपि त्रेताश्रयव्यवहारवल्लोकाश्रयेण राजानमुपालभते वनमिति । आर्ता खिन्ना । “स्वार्ता” इति पाठे सुतरामार्ता “रुदतीव” इति पाठे इव एवार्थे, यद्वा उक्तार्थध्वननायेवशब्दः ॥ २।६१।१ ॥
अनुक्रोशादिविशिष्टो राघव इति ते महद्यशः प्रथितमिति योजना ॥ २।६१।२ ॥
अथापि हे नरवरश्रेष्ठ सीतया सह तौ पुत्रौ कथं त्यक्तवानिति शेषः । अथ ताञ्शोचति– दुःखितावित्यादि । दुःखं प्राप्तावित्यर्थः ॥ २।६१।३ ॥
तरुण्यतिक्रान्तकौमारा श्यामा प्राप्तयोवना ॥ २।६१।४ ॥
सूपदंशान्वितं शोभनव्यञ्जनसहितं नैवारं नीवारसंबन्धिनम् ॥ २।६१।५,६ ॥
महेन्द्रध्वजसङ्काशस्तद्वत्सर्वलोकस्योत्सवदः ॥ २।६१।७ ॥
पद्मवर्णं पद्मदलवर्णं पद्मनिःश्वासं पद्मपत्रगन्धिनिःश्वासम् ॥ २।६१।८ ॥
यद्यतस्तमपश्यन्त्या इदं सहस्रधा न फलति न विशीर्यते ऽतस्तद्वज्रसारं वज्रवत्कठिनं नूनमित्युत्प्रेक्षा ॥ २।६१।९ ॥
त्वया व्यपोह्य वृद्धैरविचार्य यत्करुणं शोचनीयं कर्मानुचितवरदानरूपं कृतं तेन हेतुना मम बान्धवाः कैकेय्या निरस्ताः सुखार्हा अपि कृपणाः सन्तो वने धावन्ति, यद्वा व्यपोह्य अनादृत्य राज्यात्प्रभश्य वा त्वया निरस्ता वने परिधावन्तीति यत्तदकरुणं क्रूरं कर्म त्वया कृतमित्यर्थः ॥ २।६१।१० ॥
ननु चतुर्दशवर्षानन्तरं तव पुत्रस्यैव राज्यं भविष्यति तत्राह– यदीति । तावत्पर्यन्तं वने जिवनमेव न संभाव्यते तथापि यदि जीवन्पुनरेष्यति तथापि भरतो राज्यं जह्यादिति नोपलक्ष्यते न संभाव्यत इत्यर्थः ॥ २।६१।११ ॥
अथापि कदाचिद्भरतो जह्यात्तथापि रामस्तन्नाङ्गीकरिष्यतीति सदृष्टान्तमाह– भोजयन्तीत्यादिना । केचिच्छ्राद्धकर्तारो वयोगुणैरधिकान्विप्राञ्श्राद्धे निमन्त्र्य वयोगुणहीनानपि स्वान्बान्धवाञ्श्राद्धे भोजयन्ति ततः कृतकार्याः सन्तो निमन्त्रितान्द्विजर्षभान्पश्चादिष्टपङ्क्तौ भोजयितुं समीक्षन्ते विचारयन्ति ॥ २।६१।१२ ॥
तत्र निमन्त्रितेषु ये गुणवन्तः श्राद्धापेक्षितगुणवन्तस्ते सुरोपमाः पश्चात्पङ्क्तौ सुधासदृशं स्वाद्वन्नमपि नानुमन्यन्ते ॥ २।६१।१३ ॥
ननु कुतो नानुमन्यन्ते ब्राह्मणशेषभोजने शूद्रशेषभोजनवद्दोषाभावादत आह– ब्रह्मणेष्वपीति । ब्राह्मणेषु वृत्तेषु भुक्तवत्सु तद्भुक्तशेषमपि यतो द्विजोत्तमाः प्राज्ञाश्चातस्तद्भोजनमभ्युपेतुमङ्गीकर्तुं नालम् अवमाननात् ऋषभाः स्वशृङ्गच्छेदमिव शृङ्गस्थानीयो हि सतां मानः ॥ २।६१।१४ ॥
दार्ष्टान्तिके योजयति– एवमिति । कनीयोभुक्तत्वात्स्वयं ज्येष्ठो वयसा गुणैश्च वरिष्ठः संस्तेन त्यक्तमपि राज्यं किमर्थं नावमंस्यते सर्वथा तिरस्करिष्यत्येवेत्यर्थः । मद्दर्शनानुरोधेनागतो मज्जीवनपर्यन्तमेव स्थास्यति तूष्णीं न पुना राज्यं करिष्यतीत्यर्थः ॥ २।६१।१५ ॥
परेणाहृतं कोष्ट्वादिखादितशेषम् । परलीढं परास्वादितं न मन्यते न मंस्यते ॥ २।६१।१६ ॥
एतानि हविरादीन्येकत्राध्वरे विनियोगाद्यातयामानि पुनरध्वरे ऽध्वरान्तरे विनियुक्तानि न कुर्वन्ति । “जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्” इत्यमरः । यद्यपि मन्त्राः कृष्णाजिनं दर्भा इति स्मृत्या कुशानां यातयामत्वदोषो नेत्युक्तं तथापि तज्जीर्णत्वरूपयातयामत्वदोषाभावपरं न तु विनियुक्तविनियोगपरम् “ब्रह्मयज्ञेषु ये दर्भा विनियुक्ता न ते ऽन्यतः” इत्यनेन विनियुक्तविनियोगनिषेधस्य न्यायेन सर्वत्र लाभादित्याहुः ॥ २।६१।१७ ॥
तथैवान्येनात्तमुपभुक्तपूर्वमिदं राज्यं रामो ऽभिमन्तुमङ्गीकर्तुं नालम् । नष्टसोमं भुक्तसोममध्वरं तत्स्थं सोमरूपं हविः ॥ २।६१।१८ ॥
वालधेः पुच्छस्य ॥ २।६१।१९ ॥
शार्दूलवद्बलवत्त्वमेव दर्शयति– नैतस्येति । सहिताः सुरासुरैः सहिताः लोकाः प्रतियोधाः किमर्थं तर्हि मामाक्रम्य राज्यं न कृतवांस्तत्राह– अधर्मं त्विति । अधर्मं तु मत्वा न तथा कृतवानिति भावः । नन्वेवं तस्य धर्मनिष्ठता कथमत आह– इहेति । यो धर्मात्मा इह मनुष्यलोके लोकं धर्मेण योजयेत् एवं धर्मप्रवर्तकस्य तस्य धर्मनिष्ठता अनुक्तिसिद्धैवेति भावः । यद्वातुरप्यर्थे अधर्ममधर्मप्रवृत्तमपि लोकं दण्डादिना यो धर्मेण योजयेत्स कथं स्वयमधर्मं कुर्यादित्यर्थः ॥ २।६१।२० ॥
रामे ऽशक्तिशङ्कापि नेत्यह– नन्विति । काञ्चनैः काञ्चनभूषितपुङ्खैर्युगान्ते युगान्तकाले ईश्वर इव भूतानि समुद्रांश्च निर्दहेन्नाशयेच्छोषयेच्च ॥ २।६१।२१ ॥
पित्रा त्वया स्वयमेव स्वपुत्रो हतो भ्रष्टराज्यः कृतः । जलजेन मत्स्येन स यथात्मजानेव भक्षयति तद्वदित्यर्थः ॥ २।६१।२२ ॥
एवं चाहमेव हतेत्याह श्लोकत्रयेण द्विजातीत्यादि । सनातनैर्ऋ़षिभिः शास्त्रे वेदे दृष्टस्त्रैवर्णिकैर्द्विजातिभिश्चरितो धर्मो यदि ते सत्यः स्यात्तर्हि पुत्रो न विवासितः स्यादिति शेषः । एवं धर्ममुपेक्ष्य धर्मनिरते पुत्रे त्वया विवासिते सति ॥ २।६१।२३ ॥
शास्त्रेणोच्यमानाः स्त्रियास्तिस्रो गतयः । तत्र तासु प्रथमगतिभूतस्त्वं मम नास्येव सपत्नीवशत्वात् । “नास्ति” इति पाठ आर्षत्वं बोध्यम् । द्वितीयगतिभूतो रामश्च वनमाहितो वनं प्रहितस्त्वया । न च तत्प्राप्तये वनं गन्तुमिच्छामि सपतिकात्वात् । तृतीया ज्ञातयस्त्वसंनिहितास्तस्मात्सर्वथा हता त्वया ॥ २।६१।२४,२५ ॥
सुतश्च भार्या च भरतकैकेय्यौ प्रहृष्टौ ॥ २।६१।२६ ॥
दारुणशब्दसंहितां दारुणशब्दयुक्ताम् स्वदुष्कृतं वक्ष्यमाणम् ॥ २।६१।२७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकषष्टितमः सर्गः ॥ २।६१ ॥