०६० सुमन्त्रकृतकौसल्यासान्त्वनम्

तत इति । भूतोपसृष्टेव भूताविष्टेव गतसत्त्वेव गतासुरिव धरण्याम् पतितेति शेषः ॥ २।६०।१,२ ॥

अथ यदि ॥ २।६०।३,४ ॥

संभ्रममावेगम् ॥ २।६०।५ ॥

रामस्य पादौ परिचरन्परलोकमाराधयति संपादयति ॥ २।६०।६ ॥

अभीतेति च्छेदः विस्रम्भः प्रणयः ॥ २।६०।७ ॥

कृतं वनवासकृतं दैन्यमित्यर्थः ॥ २।६०।८,९ ॥

बालेवेति दुःखापरिज्ञानेनोपमा तस्या देहाद्यभिमानाभावान्नाधिजं दुःखमिति भावः ।

अबालचन्द्रेत्यादिच्छेदः । रामारामे रामरूपे आराम इत्यर्थः, भिन्नपदे वा ॥

२।६०।१० ॥

रामहीनायोध्या यथा वनं तथा भवेदित्यन्वयः ॥ २।६०।११ ॥

नदीनां गतिं रामनगरवृक्षांश्च दृष्ट्वा रामं वा लक्ष्मणं वा पृच्छति पृष्ट्वा च जानाति अयोध्यातः क्रोशमात्रे विद्यमानं विहारं संश्रिता यथा रमते स्म तथैव वने ऽप्यरमतेत्यर्थः ॥ २।६०।१२,१३ ॥

इदमेव सीतायाः संबन्धीदमेव प्रस्तुतवृत्तान्तजातमेव स्मरामि । कैकेयीसंश्रितं कैकेयीमुद्दिश्य प्रवृत्तम् । सहसा हठेन । सीतया तस्याः परमदुःखकारिणीत्वान्मां प्रति यत्तद्विषयं जल्पं वाक्यमुपजल्पितमुक्तं तदिदानीं मां न प्रतिभात्येवेत्येवंरूपेण प्रमादात्पर्युपस्थितं मुखान्निर्गतं कैकेयीविषयं सीतावाक्यं ध्वंसयित्वा व्यवहारान्तरेणानुक्तप्रायमिव कृत्वा देव्याः कोसल्याया ह्लादनं मधुरं वचनं सूतो ऽब्रवीदित्याह कविः ॥ २।६०।१४१६ ॥

वदान्याया दात्र्या वल्गुवाचश्च “वदान्यो वल्गुवागपि” । न विकम्पते म्लानतां न याति ॥ २।६०।१७ ॥

अलक्तरसवर्जितावपि तद्रसरक्तकान्ती स्वभावरक्ततया पद्मकोशसमप्रभौ न तु मार्गगतिप्रत्तकाठिन्यभाजा ॥ २।६०।१८ ॥

नूपुरेणोत्कृष्टा तिरस्कृता हंसादिलीला यया सेव खेलं विलासयुतम् अर्शआद्यजन्तम् । तद्रागेण भर्तृप्रीतियोजकभूषणानुरागेणान्यस्तान्यत्यक्तानि भूषणानि यया ॥ २।६०।१९ ॥

नाहारयति न करोति न संप्राप्नोतीति वा ॥ २।६०।२० ॥

अतस्ते रामादयो न शोच्याः ते तवात्माप्यत एव न शोच्यः । न राजापि तेषां सुखश्रवणेन तस्यापि जीवनसंभवात् । इतो ऽपि न शोच्यांश इत्याह इदं हीत्यादि । प्राप्तमपि राज्यं महाबलो ऽपि परित्यज्य पितृवचनमपालयदित्येवमादि रामचरितं स्वार्थमुद्दिश्य भर्तारमपि परित्यज्यातिघोरं कृतवती कैकेयीत्यादि इदं रामचरितं शाश्वतं प्रतिष्ठास्यतीत्यनेन तन्नामवदेवास्य सुस्थिरत्वं वदता तस्येश्वरत्वं ध्वनितम् । न ह्यन्यचरित्रं शाश्वतं प्रतिष्ठां लभते ॥ २।६०।२१ ॥

महर्षिभिर्याते ॥ २।६०।२२ ॥

तथा ऽपीति । सूतेन निवार्यमाणा सूतोक्तं गृहीतवत्यपि न विरराम दुःखप्राबल्यादिति शेषः ॥ २।६०।२३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे षष्टितमः सर्गः ॥ २।६० ॥