०५९ दशरथविलापः

एवं रामवृत्तान्तमुक्त्वा प्रत्यागतिसमयानुभूतस्वदेशपुरवृत्तान्तमाह– मम त्विति । ममाश्वा मन्नियम्यास्वा न प्रावर्तन्त यथापूर्वं रथवहनोन्मुखा नाभूवन्नित्यर्थः । जात्याश्वस्वभाववर्णनेन स्वभावोक्तिरत्रालङ्कारः ॥ २।५९।१ ॥

तद्दुःखं तद्वियोगदुःखम् ॥ २।५९।२ ॥

बहून्रामस्य गङ्गोत्तरणदिनादिदिनत्रयम् यद्यपि भरद्वाजाश्रमाच्चारप्रतिनिवृत्तिमत्तृतीयदिवस एव सुमन्त्रप्रस्थानम्, तथापि तद्दिने ऽल्पावशिष्टदिनपर्यन्तं स्थित्या बहूनित्युक्तम् । किमर्थं तत्र स्थितिस्तत्राह शब्दापयोदिति । तत्समीपचरद्रुहमनुष्यमुखेनाकारयेदित्यर्थः ॥ २।५९।३ ॥

कैकेयीनिमित्तं रामविवासनं सर्वक्षोभकरमभूदित्याह– विषये ते इति । तव देशे पुष्पमपि न विकसितम् अङ्कुरः शाखासु पल्लवोद्भेदः, कोरकाः पुष्पमुकुलानि, तैः सहिता वृक्षाः अत्र सर्वत्र हेत्वंशे चोत्प्रेक्षा बोध्या ॥ २।५९।४ ॥

उपतप्तोदकाः शुष्कोदकाः पलाशः पर्णम् ॥ २।५९।५ ॥

सत्त्वानि प्राणिनो न सर्पन्ति न प्रसरन्तीत्यादावाहारार्थमपीति शेषः । यतस्तत्प्राणिजातं रामशोकाभिभूतं तद्वनं मार्गस्थमत्यन्तं पक्षिशब्दवन्निष्कूजमिव पक्षिशब्दरहितम् ॥ २।५९।६ ॥

लीनं सङ्कुचितं पुष्करपत्रं नलिनीदलं यासु ताः सन्तप्तपद्माः शुष्कपद्मा पद्मिन्यः सरांसि विहङ्गमा अत्र जलपक्षिणः ॥ २।५९।७ ॥

स्थलजानि माल्यानि पुष्पाणि यथापुरं यथापूर्वम् ॥ २।५९।८ ॥

उद्यानानि पुष्पवाटिकाः आरामान्कृत्रिमवनानि अनेन मनुष्याणां सर्वशो ऽत्यन्तदुःखवत्त्वं कैसुतिकन्यायेनैव प्रतिपादितं बोध्यम् ॥ २।५९।९ ॥

तदेवाह प्रविशन्तमिति ॥ २।५९।१० ॥

देवेति संबुद्धिः राजरथं राज्ञस्तव रथम् अश्रुमुखः अभूदिति शेषः ॥ २।५९।११,१२ ॥

अव्यक्तमिति छेदः रामप्रवासजनितपीडयार्ताः परस्परं सम्यङ् नेक्षन्त इत्यर्थः ॥ २।५९।१३ ॥

अन्योन्यं शत्रूणां तथा मित्राणामुदासीनजनस्य चार्ततयार्तत्वगुणसाम्येन विशेषं नोपलक्षये इत्यन्वयः । यद्यपि रामस्य स्वतो ऽमित्रासंभवः, कैकेयीकुब्जयोस्तत्त्वस्य दैववशात्संभवे ऽपि तयोरार्तत्वभावः,(?) तथाप्यनयोः शत्रुत्वमनयोर्मित्रत्वमयमुदासीन इति भेदो न ज्ञायत इति तात्पर्यम् ॥ २।५९।१४ ॥

आर्तस्वरपरिम्लानविनिःश्वसितनिःस्वना दीर्घशब्दवन्निःश्वासयुक्तेति यावत् ॥ २।५९।१५ ॥

पुत्रहीना पुत्रवियुक्ता कौसल्येव अनेन सर्वेषां रामे पुत्रवत्प्रेम ध्वनितम् ॥ २।५९।१६,१७ ॥

राजा सर्वथा त्वया महदकार्यं कृतमिति सुमन्त्राभिप्रायं तदीयात्युक्तिवचनैर्निर्णीयाङ्गीकारेणोत्तरमाह कैकेय्येति । पापाभिजनभावया पापकुलजया पापदेशजया पापाभिप्रायया च “कुले ऽप्यभिजनो जन्मभूम्याम्” इत्यमरः । विनियुक्तेन रामप्रव्राजने इति शेषः । न समर्थितं न विचारितम् ॥ २।५९।१८ ॥

नञो ऽनेकधा प्रयोगः शोकेन चित्तवैक्लव्याप्त् सहसा झटित्यविचारेणैव ॥ २।५९।१९ ॥

भवितव्यतयावश्यप्रापकदुरदृष्टवशात् वा इति वैशब्दसमानार्थम् । यदृच्छया दैवेच्छया ॥ २।५९।२० ॥

यदि यदि वा अथवेति यावत् । सुकृतं प्रियम् । सन्त्वरयन्ति निष्कमितुमिच्छन्तीति यावत् ॥ २।५९।२१ ॥

मदाज्ञया भवान्गत्वा राघवं निवर्तयतु । ननु भरताय त्वया राज्यस्य दत्तत्वात्त्वदाज्ञया मया कथं गन्तव्यं तत्राह अद्यापि ममैवाज्ञा यावद्भरतागमनमिति भावः । निवृत्तौ हेतुः नेत्यादि ॥ २।५९।२२ ॥

पुनरपि रामनिवर्तनस्याशक्यत्वात्स्वनयनमेवाह अथवापीति ॥ २।५९।२३ ॥

वृत्तदंष्ट्रः कुन्दकुड्मलाकारदंष्ट्रः । यदि जीवामीति तत्समीपगमनपर्यन्तमपि जीवने सन्देह इति भावः ॥ २।५९।२४ ॥

अतो न्वित्यतःशब्दार्थमाह इमामिति । एवमत्यन्तसंनिहितमरणकाले उत्तमलोकदस्वस्मरणाभ्याससंपादनाय भगवतात्मवियोगः पितुः संपादित इति तत्त्वम् ॥ २।५९।२५,२६ ॥

अर्पितचेतनो गतचेतनः सुदुष्पारं शोकसागरमवगाढः प्रविष्टः अब्रवीत् । शोकं सागरत्वेनावर्णयदित्यर्थः ॥ २।५९।२७ ॥

तदाह रामेत्यादि । रामशोकरूपो महानावेगो वैपुल्यं यस्य सीताविरहरूपपारगतस्तत्पारसंबन्धः श्वसितरूप ऊर्मियुक्तो महावर्तो यस्य सः बाष्पवेगरूपनदीजलैराविलः ॥ २।५९।२८ ॥

शोचितृ़णां प्रकीर्णकेशा एव शैवालं यत्र कैकेय्येव वडवामुखं यत्र ॥ २।५९।२९ ॥

अश्रुवेगप्रभवः षष्ठीतत्पुरुषः अश्रुवेगोत्पादक इत्यर्थः । नृशंसायाः कैकेय्याः वर एव वेला मर्यादा यस्य यतो रामप्रव्राजना समुद्रात्कालकूटमिव जातेति कतकः । अन्ये तु रामप्रव्राजनमेवायतं विस्तारो यस्य स रामप्रव्राजनायत इत्यर्थमाहुः ॥ २।५९।३०,३१ ॥

दिदृक्षमाणो यद्राघवं द्रष्टुं न लभे तदशोभनं मम महत्पापम् पापजन्यं तददर्शनमिति यावत् ॥ २।५९।३२ ॥

रामहेतोरिति विलपति पार्थिवे प्रनष्टे मूर्छिते सति तस्य करुणतरं वचनं निशम्य देवी द्विगुणं भयमुपागमत् भर्तृवियोगदुःखस्यापारस्य संभावनया ॥ २।५९।३३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकोनषष्टितमः सर्गः ॥ २।५९ ॥