०५८ रामसन्देशनिवेदनम्

प्रत्याश्वस्त इति । प्रत्याश्वस्तः कृतोपचारः मोहान्मोहं परित्यज्य प्रत्यागतस्मृतिः प्रत्यागतसंज्ञः । “प्रत्यागतः पुनः” इति पाठे ऽप्ययमेवार्थः । रामवृत्तान्तकारणादाजुहाव रामवृत्तान्तं प्रष्टुम् ॥ २।५८।१,२ ॥

नवग्रहं नवो नूतनो ग्रहो ग्रहणं यस्य तं द्विपमिव विनिःश्वसन्तमस्वस्थं स्वीयमध्येन स्थितं कुञ्जरमिव ध्यायन्तम् ॥ २।५८।३ ॥

रजसा मार्गरजसा परमार्तवत्परमार्तार्हं वच उवाच ॥ २।५८।४ ॥

वत्स्यति वनवासकालस्य बहुदीर्घत्वाद्भविष्यत्प्रयोगः ॥ २।५८।५ ॥

दुःखस्यानुचितो ऽपि दुःखं प्राप्तः शयनमुत्तमम् ॥ २।५८।६,७ ॥

व्यालैरजगरैः मृगैर्व्याघ्रादिभिः ॥ २।५८।८ ॥

रथादवरुह्य कथं पादैर्गतौ ॥ २।५८।९ ॥

अश्विनाविव मन्दरम् मन्दरस्य कार्ष्ण्यमात्राद्वनसादृश्यम् ॥ २।५८।१०,११ ॥

आसितादयो भावे निष्ठान्ताः एतेनासनादिव्यापारश्रवणेन ययातिरिव साधुषु स्वर्गात्पतन्ययातिर्मा साधुषु पातयेतीन्द्रं प्रार्थयित्वा यथा साधुषु पतितस्तद्वार्तया सुखजीवनो जातः, एवं स्वर्गतुल्यात्पुत्रसंयोगाद्भ्रष्टस्य भवल्लक्षणसाधुसमागमात्पुत्रवार्ताश्रवणेन जीविष्यामीति भावः ॥ २।५८।१२ ॥

सज्जमानया स्खलन्त्या बाष्पपरिबद्धया कण्ठगतबाष्पनिरुद्धया ॥ २।५८।१३ ॥

हे महाराज राघवो धर्ममेवानुपालयंस्त्वत्पालनाद्धेतोरब्रवीद्वक्ष्यमाणं वचः । तदाह हे सूत मत्प्रतिनिधित्वेन राज्ञे ऽञ्जलिं कृत्वा तथैव शिरसा नत्वा विदितात्मनो लोके धर्मिष्ठत्वेन प्रसिद्धस्य शिरसा वन्दनयोग्यस्य राज्ञः पादौ मद्वचनाद्रामो ऽभिवादयत इत्युक्त्वा मत्प्रनिधित्वेन वन्द्यौ ॥

२।५८।१४,१५ ॥

ततः सर्वमन्तःपुरं त्वया मद्वचनाद्रामो वः सर्वा अविशेषेणारोग्यं पृच्छतीति वाच्यं यथार्हं यथायोग्यं तासां मदभिवादनं च वाच्यम् ॥ २।५८।१६ ॥

ततो मम माता कौसल्या मद्वचनात्कुशलं प्रणामं धर्मे ऽप्रमादं च वक्तव्या किं चैनामिदं वक्ष्यमाणं विशिष्य ब्रूयाः । किं तदित्याह धर्मेत्यादि ॥ २।५८।१७,१८ ॥

अभिमानः प्रधानमहिषीत्वप्रयुक्ता ऽहङ्कारः मानस्तत्प्रयुक्त इतरतिरस्कारकश्चित्तविकारः मातृष्वित्यस्य मदीयास्विति शेषः । अनुगतो राजा यस्यास्तां कैकेयीं हे अम्ब आर्यां श्लाध्यां कारय

। “धारय” इति पाठे ऽप्ययमेवार्थः । तया सह गा विरौत्सीरित्यर्थः ॥ २।५८।१९ ॥

भरते च राजवद्वृत्तिः कार्या तत्र हेतुः– अज्येष्ठा अपि राजानो हि निश्चयेन पूज्या इति यावत् राजधर्ममनुस्मर । “अर्थज्येष्ठा हि” इति पाठे ऽर्थेन राज्यरूपार्थेन ज्येष्ठा हि यतो ऽतः पूज्या इति शेषः इति राजधर्ममनुस्मरेति । कतकस्तु राजानमनुराज्ञः पश्चात् आर्यां कैकेयीमभिवादयेत्यर्थः । “कैकेयीमभिवादय” इति पाठः । कुमारे चेत्यादि प्राग्वत् । कैकेय्या वरबलेनाधिकत्वाद्भरतस्य च राजदत्तार्थवत्त्वेन ज्येष्ठत्वात्तयोरभिवादनमम्बाया युक्तम् । तद्वैमुख्यनिवृत्तये च राजधर्ममनुस्मरेत्याह ॥ २।५८।२० ॥

भरतो मद्वचनेन कुशलं वाच्यः सर्वासु मातृषु न्यायमनतिक्रम्य वृत्तिं वर्तस्वेति वाच्यः ॥ २।५८।२१ ॥

वक्तव्यश्चेति । भरत इति शेषः । राज्यस्थं प्रधानराज्यस्थम् ॥ २।५८।२२ ॥

व्यपरोरुधः राज्याद्भ्रंशयेत्यर्थः । तस्यैवाज्ञाप्रवर्तनान्मदनुग्रहाय तस्यैवाज्ञां प्रवर्तयन्कुमारराज्ये जीवस्व तोषं कुरु ॥ २।५८।२३ ॥

अब्रवीदित्यादि वाक्यं भरतं प्रत्येव । अब्रवीदित्यादि श्लोकद्वयं प्रक्षिप्रमिति कतकः ॥ २।५८।२४,२५ ॥

अथ लक्ष्मणवाक्यमाह लक्ष्मण इति । केनेत्यादिसार्धसप्तश्लोकास्तद्वचः ॥ २।५८।२६ ॥

येन विवासनेन वयं पीडितास्तद्विवासनं राज्ञा तु कार्यं वाकार्यमिवाकार्यं कृतम् कैकेय्या लघु शासनमाश्रुत्य प्रतिज्ञाय कृतम्, यद्वा तद्विवासनं कृतं कार्यं कर्तुं योग्यं वा भवतु, अकार्यमकर्तुं योग्यं वा भवतु, अस्माकं तु पीडा सर्वथैवेत्यर्थः ॥ २।५८।२७ ॥

उक्तमेवार्थं प्रकारान्तरेणाह यदीति । यदि यद्रामः प्रव्राजितस्तल्लोभरूपेण कारणेन कैकेय्या कारितम्, यद्वा कैकेय्यै प्रतिश्रुतवरदाननिमित्तकं वा भवतु सर्वथा दुष्कृतं कृतमनुचितं कृतम् एतद्व्यतिरिक्तं वरयेति सुवचत्वात् वरदानकाले विशिष्य नियोगाभावाच्च पतित्वेन भार्याशिक्षणे समग्राधिकाराच्च ॥ २।५८।२८ ॥

ननु दैवप्रेरणयेदं जातमिति न दोषो राज्ञ इत्याशङ्क्य निरपराधपुत्रत्यागे दोषस्त्ववश्यं राज्ञ इत्याह इदमिति । ईश्वरस्य कृत ईश्वरप्रेरणायां सत्यां यथाकाममीश्वरेच्छामनतिक्रम्येदं तावत्कृतं भवतु नाम, तथापि तु रामस्य परित्यागे हेतुभूतं दोषं न पश्यामि अतः केवलं बुद्धिलाघवादसमीक्ष्योचितानुचितमनवेक्ष्य विरुद्धं धर्मशास्त्रविरुद्धमारब्धं रामविवासनं सक्रोशमिह परत्र च दुःखं जनयिष्यत्येव निर्हेतुकपुत्रदारत्यागस्योपपातकेषु गणनादिति भावः ॥ २।५८।२९,३० ॥

“गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ " इति वचनार्थं हृदि निधायाह अहमिति । भर्ता स्वामी पिता चेति “ज्येष्ठो भ्राता पितुः समः” इत्युक्तेः । वस्तुतस्तु केवलमायिकत्वाल्लक्ष्मणादिशरीराणां तेषामेवमुक्तौ न दोष इति बोध्यम् ॥

२।५८।३१ ॥

सर्वलोकप्रियं रामं त्यक्त्वा स्थिते त्वयि प्राक्सर्वलोकहिते रते संप्रति सर्वलोकाहिते ऽरते वानेन क्रूरेण कर्मणा सर्वलोकः कथमनुरज्येत । “सर्वलोकहिते रतम्” इति पाठे रामविशेषणं सर्वलोकप्रियत्वे हेतुतयेति बोध्यम् ॥ २।५८।३२ ॥

कथं राजा भविष्यति पितेति शेषः । इत्येवं राजानं ब्रूहीति लक्ष्मणो ऽवोचदित्यर्थः ॥ २।५८।३३ ॥

विस्मृता विस्मृतसर्वप्रयोजने ऽवस्थिता आश्चर्यं मन्यमानेव विष्ठिता स्थिता ॥ २।५८।३४३६ ॥

लक्ष्मणबाहुपालितो लक्ष्मणेन सेव्यमानः अब्रवीत् उक्तमिति शेषः । निरीक्षते राज्ञस्तव रथं मां

च ॥ २।५८।३७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे ऽष्टपञ्चाशः सर्गः ॥ २।५८ ॥