एवं रामव्यापारमुक्त्वा विसृष्टसुमन्त्रव्यापारमाह कथयित्वेति । रामे दक्षिणतीरस्थे सुमन्त्रेण सह दुःखार्तो गुहश्चिरं रामगुणान्कथयित्वा रामभद्रे
दृष्टिपथादतिक्रान्ते तेन सह स्वगृहं जगाम ॥ २।५७।१ ॥
भरद्वाजाभिगमनं रामादीनां भरद्वाजमुद्दिश्य गमनम् । सभाजनं भरद्वाजेनेति शेषः । “सहासनम्” इति पाठान्तरम् । तत्रस्थैः शृङ्गवेरपुरस्थैर्गुहप्रेषितचारैः करणभूतैस्तन्मुखेनाभिलक्षितं ज्ञातं कृत्वा गुहानुज्ञातः सुमन्त्रो ययावित्यन्वयः । गङ्गोत्तरणतृतीयदिवसे
भरद्वाजाश्रमात्प्रतिनिवृत्तदूतमुखात्तावत्पर्यन्तं तद्वृत्तं ज्ञात्वा
तद्दिन एव शृङ्गवेरपुरात्सुमन्त्रस्य प्रतिनिवृत्तिरिति बोध्यमत एव “रामस्य निर्गमदिनाद्दिने षष्ठे ऽर्धरात्रके । हा हा लक्ष्मण हा सीते हा रामेति मृतो नृपः ॥ " इति पाद्मं सङ्गच्छते । दिनद्वयेन शृङ्गवेरपुरे रामागमनम् तद्द्वितीयदिने गङ्गोत्तरणम्, तदा दिनत्रयं सुमन्त्रस्य तत्र स्थितिः तत्र तृतीयदिवसे मध्याह्ने प्रयागत आगतचारेभ्यो रामवृत्तान्तं लब्ध्वा ततः प्रस्थाय मध्येऽवस्थानम्, ततः षष्ठेऽपराह्णेऽयोध्याप्रवेशः सुमन्त्रस्य, तदर्धरात्रे राज्ञो मरणमिति ॥
२।५७।२ ॥
अनुज्ञातः गुहनेति शेषः ॥ २।५७।३ ॥
यत्तः सावधानः शीघ्रमतिवेगेन ॥ २।५७।४ ॥
द्वितीये ऽहनि शृङ्गवेरपुरतः प्रतिनिवृत्तिदिवसात् ॥ २।५७।५ ॥
शून्यामिव शून्यनगरीमिव ॥ २।५७।६ ॥
चिन्ताप्रकारमाह कच्चिदिति । नशब्दो वितर्के ॥ २।५७।७,८ ॥
अभ्यद्रवन्सूतसंमुखमाजग्मुः ॥ २।५७।९ ॥
गङ्गायां शृङ्गवेरपुरे रामेणानुज्ञातस्तमापृच्छ्य निवृत्तो ऽस्मि ततः परं वृत्तान्तं न
जानामीति शशंस ॥ २।५७।१० ॥
तीर्णा गङ्गामुत्तीर्य गताः ॥ २।५७।११ ॥
वृन्दं वृन्दं सङ्घशस्तिष्ठतां तेषां जनानां य इह रथे रामं न पश्यामस्ते हताः खल्विति वचः शुश्राव ॥ २।५७।१२ ॥
दानादिव्यवहारेषु धार्मिकं रामं वयमन्तरा दानादिव्यहारमध्ये जातु पुनर्न द्रक्ष्याम इति च शुश्राव ॥ २।५७।१३ ॥
पित्रेव रामेण परिपालितं नगरमस्य जनस्य किं समर्थमुचितं किं प्रियं तत्करं वस्तु किमिहामुत्र सुखावहं वस्त्विति चिन्ताव्याप्तं बभूवेति शेषः ॥ २।५७।१४ ॥
अन्वनन्तरम् । वातायनगतानां स्त्रीणां राममुद्दिश्याभितप्तानां परिदेवनामन्तरापणमापणमध्ये गच्छञ्शुश्राव ॥ २।५७।१५,१६ ॥
कक्ष्या द्वाराणि ॥ २।५७।१७ ॥
हाहाकारः कृतो याभिस्ताः हर्म्य धनिकगृहम् विमानं सप्तभूमिकं गृहम् प्रासादो राजगृहम् त्रिभूमिकं गृहमित्यन्ये तदुपलक्षितामयोध्यां समागतमवेक्ष्येत्यन्वयः, यद्वा तैः करणैरवेक्ष्य तत्रारोहणपूर्वकमवेक्ष्येत्यन्वयः ॥ २।५७।१८ ॥
अन्योन्यमव्यक्तं यथा भवति तथा वीक्षन्ते इतिकर्तव्यतामौढ्यादिति शेषः ॥ २।५७।१९ ॥
प्रासादेभ्यः सुमन्त्रस्य राजवेश्मप्रवेशं दृष्ट्वा प्रासादेभ्यो ऽवतीर्णानामित्यर्थः । मन्दं राजसंनिध्यान्मन्दत्वम् ॥ २।५७।२० ॥
किं नाम प्रतिवक्ष्यति अतिघोरत्वान्न किमपि वक्तुं शक्यमिति भावः ॥
२।५७।२१ ॥
अथ प्रत्येकं राममातृ़णां दुःखप्रलापः यथा चेति । यथा जीवं जीवनं दुःखजनकं मन्ये, एवं ध्रुवं निश्चयेन सुकरं सुकरनाशं नेति मन्ये । यत्र यतः पुत्रे राम आच्छिद्य न्यायप्राप्तमभिषेकमाच्छिद्य त्यक्त्वा निर्याते सत्यपि कौसल्या जीवति । मन्ये इत्येकैकव्यक्त्यपेक्षयैकवचनम् ॥ २।५७।२२ ॥
सत्यरूपं परमार्थरूपं तत्स्त्रीणां वाक्यं निशामयञ्शोकेन प्रदीप्त इव सन्राजगृहं विवेश । अत्र श्लोकद्वये तीर्थकतकादिव्याख्या नात्यन्तं समञ्जसेत्युपेक्षिता ॥ २।५७।२३ ॥
स इति । परिद्यूनं म्लानम् ॥ २।५७।२४ ॥
प्रत्यवेदयत् विस्तरेण प्रतिपादनमग्रे भविष्यति ॥ २।५७।२५,२६ ॥
आविद्धं दुःखाभिहतम् ॥ २।५७।२७२९ ॥
अद्येति । इमं दुःखसाधनं पुत्रप्रवासनरूपमनयं कृत्वाद्य किं व्यपत्रपसि लज्जसे यन्न प्रतिभाषसे तस्माच्छोकं विधूयोत्तिष्ठ ते सुकृतं सत्यपरिपालनरूपं पुण्यमस्तु ।
किंच एवं शोके त्वया क्रियमाणे तव सहायता सहायसमूहः परिजनः सर्वो ऽपि न स्यात् त्वच्छोकेन सर्वो ऽपि नश्येदित्यर्थः ॥ २।५७।३० ॥
कैकेयीभयान्न पृच्छामीति चेत्तत्राह देवेति । विश्रब्धं निःशङ्कम् ॥ २।५७।३१ ॥
विप्लुतभाषिणी गद्गदभाषिणी ॥ २।५७।३२३४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥ २।५७ ॥