अथावसुप्तं स्वप्रबोधानन्तरमपीषत्सुप्तम् एतेन चतुर्दशवर्षपर्यन्तं लक्ष्मणः स्वापहीनो ऽनाहारश्चेति लोक प्रवादो ऽपास्तः ॥ २।५६।१ ॥
वन्यानां शुकपिकादीनां स्वनं शृणु प्रस्थानस्य कालो जातो ऽतः संप्रतिष्ठामहे गच्छामः । “संप्रतीक्षामहे कालम्” इति पाठे प्रस्थानकालं जानीम इत्यर्थः ॥ २।५६।२ ॥
समये प्रबोधसमये । तन्द्रामालस्यम् ॥ २।५६।३ ॥
नद्याः कालिन्द्या जलं स्पृष्ट्वा स्नानाद्यन्तं नित्यकृत्यं कृत्वा ॥ २।५६।४,५ ॥
आदीप्तानिव ज्वलितानिव मालिनः स्वैः पुष्पैर्मालावत इव स्थितान् शिशिरात्यये वसन्ते ॥ २।५६।६ ॥
शक्ष्याम जीवितुम् जीवनसाधनफलादिसंपत्तेः ॥ २।५६।७ ॥
आढकचतुष्टयं द्रोणस्तत्प्रमाणमधुपूर्णानि मधूनि मधुपटलानि मधुकारीभिर्मधुमक्षिकाभिः नगे वृक्षे ॥ २।५६।८ ॥
नत्यूहो दात्यूहः । पुष्पसंस्तरसङ्कटे पुष्पैः कृतेन संस्तरेणाच्छादनेन सङ्कटे निबिडे वनोद्देशे ॥ २।५६।९१२ ॥
संपन्नसरसोदकं स्वादूदकसहितम् ॥ २।५६।१३ ॥
सुतरामाजीवो जीवनोपायो यस्मिन् ॥ २।५६।१४ ॥
अयं वासो भवेद्वासयोग्यो भवेत् ॥ २।५६।१५ ॥
वाल्मीकिमभिवादयन्नभ्यवादयन् चित्रकूटे स्थित एव वाल्मीकी रामराज्यप्राप्तिसमये तमसातीरं गत इति न विरोध इति प्राञ्चः, प्राचेतसादयं वाल्मीकिरन्य एवेति तत्त्वम् ॥ २।५६।१६ ॥
तं रामं प्रति स्वागतं स्वागतप्रश्नं निवेद्य विज्ञाप्य ॥ २।५६।१७ ॥
आत्मानं संनिवेद्यामुकपुत्रो ऽमुकहेतोरागतो ऽस्मीत्युक्त्वा ॥ २।५६।१८२० ॥
निष्ठितामन्तर्बहिः काष्ठभित्त्या सुप्रतिष्ठापितां बद्धकटां बद्धकवाटां छान्दसो वर्णलोपः, यद्वा बद्धच्छदिषम् बद्धः कटो वर्षावारको यस्यामित्यर्थात् एकाग्रं लक्ष्मणम् ॥ २।५६।२१ ॥
शालां पर्णशालाधिष्ठातृदेवताम् वास्तुशमनं वास्तुशान्तिः चिरजीविभिश्चिरजीवित्वेच्छावद्भिः ॥ २।५६।२२ ॥
पशुवधदोषशङ्कां वारयति कर्तव्य इति । यज्ञार्थपशुहिंसा न दोष इति भावः । शास्त्रदृष्टः शास्त्रबोधितो धर्मशास्त्रबोधितकर्तव्यत्वरूपः ॥ २।५६।२३,२४ ॥
ऐणेयं मृगमांसम् एतच्छालामेनां शालां तदधिष्ठातृशिखिपर्जन्यादिपञ्चाशद्देवताः । अयं सौम्यो मुहूर्तः दिवसश्चायं ध्रुवसञ्ज्ञकः ॥ २।५६।२५,२६ ॥
निष्ठप्तं नितरां तप्तम् । छिन्नशोणितमुपरतरुधिरस्यन्दम् ॥ २।५६।२७ ॥
सर्वः सर्वकर्मार्हः समस्ताङ्गः शिरःपादादिसर्वाङ्गोपेतः श्रृतः पक्वः ॥ २।५६।२८ ॥
गुणवान्कर्मापेक्षितप्रायत्यादिगुणवान् सत्रावसानिकान्यागसमाप्तिप्रयोजनान्मन्त्रान्गृहीत्वा सङ्ग्रहेण वास्तुशान्त्याद्यकरोत् ॥ २।५६।२९,३० ॥
एवं गृहाधिष्ठितदेवतापूजामुक्त्वा पुनः स्नानपूर्वकं
वैश्वदेवादिप्रकारमाह वैश्वदेवेत्यादि । वास्तुसंशमनीयानि वास्तुदोषशमनार्थं मङ्गलानि मङ्गलपाठादीनि ॥ २।५६।३१ ॥
पापसंशमनं पापशमनसाधनं बलिं वैश्वदेवबलिमित्युपसंहारेण वादः ॥ २।५६।३२ ॥
वेदिस्थलानां बलिहरणवेदिस्थलानामष्टदिग्वर्तिनां विधानानि चैत्यं गणपत्यायतनम् आयतनानि विष्ण्वादेः अनुरूपाणि सूक्ष्ममार्गेणेति यावत् ॥ २।५६।३३ ॥
वृक्षपर्णैः कृतं छदनं छादनं यस्यां ताम् ॥ २।५६।३४ ॥
मृगपक्षिजुष्टां तां नदीमासाद्य हृष्ठः ॥ २।५६।३५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥ २।५६ ॥