अथ भरद्वाजेन मार्गोपदेशः उषित्वेति ॥ २।५५।१ ॥
औरसान्पुत्रान्पितेव तान्प्रस्थितान्प्रेक्ष्य तेषां स्वस्त्ययनं चकार । चैवौ पादपूरणार्थौ ॥ २।५५।२ ॥
प्रचक्रमे मार्गोपदेशार्थमिति शेषः ॥ २।५५।३ ॥
पश्चान्मुखाश्रितां गङ्गाजलवेगाभिघातेन किंचिद्दूरं पश्चान्मुखं गतामिति तीर्थः । सन्धि सङ्गमतीर्थम् । सङ्गमात्पश्चिमप्रदेश एवाश्रितस्वप्रयुक्तव्यवहारां सङ्गमपूर्वभागे तु गङ्गाया एव व्यवहार इति भाव इति कतकः, अन्ये तु पश्चान्मुखया गङ्गया श्रितां कालिन्दीमनुगच्छेतामित्यर्थः । अत एवाग्रे कालिन्दीमासाद्येत्युक्तिरित्याहुः ॥ २।५५।४ ॥
अथ शुद्धां कालिन्दीं प्रतिस्रोतो यथा भवति तथा समागतां विपरीतप्रवाहामासाद्य तस्यास्तीर्थमवतरणप्रदेशं प्रचरितं गमनागमनाभ्यामतिक्षुण्णं दृष्ट्वा प्लवं तरणसाधनम् अंशुमतीं सूर्यतनयाम् ॥ २।५५।५ ॥
श्यामं श्यामनामकम् ॥ २।५५।६ ॥
आशिषां क्रियां करणं प्रयुञ्जीतास्माकं पुनरागमनं भवत्विति सीता वृक्षं नत्यादिना प्रार्थयेत् ।
वसेद्वातिक्रमेत वेत्येकवचनं सीताभिप्रायकम् । श्रमे वसेत् अन्यथाग्रे गच्छेदित्यर्थः ॥ २।५५।७ ॥
ततः कालिन्दीदक्षिणतीरवर्तिन्यग्रोधात् यामुनैर्यमुनातीरजैः ॥ २।५५।८ ॥
मार्दवयुक्तः वालुकोपेतत्वात्कण्टकपाषाणादिरहितत्वाच्च । दावैर्विवर्जितो वनाग्निरहितः ॥ २।५५।९ ॥
तथेत्युक्त्वा त्वदुपदिष्टमार्गेणैव गमिष्याम इत्युक्त्वा ॥ २।५५।१०१३ ॥
काष्ठसंघाटः काष्ठसंघातस्तद्रूपं महाप्लवमुडुपम् उशीरैर्नलदैः वेतसैरित्यर्थ इति कतकोक्तमयुक्तम् ॥ २।५५।१४,१५ ॥
अचिन्त्यामचिन्त्यप्रभावाम् । स रामः ॥ २।५५।१६ ॥
कठिनं खनित्रम् काजं पेटकम् द्वन्द्व एकवद्वाक्यम् । कठिनकं खनित्रम् आजमजचर्मपिनद्धं पेटकमित्यर्थमन्ये ॥ २।५५।१७ ॥
सङ्घाटं प्लवम् ॥ २।५५।१८ ॥
पतिर्व्रतं चतुर्दशवर्षावधिकं पारयेत्समापयेत् ॥ २।५५।१९ ॥
स्वस्ति प्रत्यागते यक्ष्य इति संबन्धः ॥ २।५५।२०,२१ ॥
उक्तमेवोपसंहरति तत इति । तीरजैर्वृक्षैरुपलक्षिताम् ॥ २।५५।२२ ॥
यमुनातीरसंबन्धिवनात् ॥ २।५५।२३।२४ ॥
पर्यगच्छत्परितो ऽगच्छत् प्रदक्षिणं चकारेति यावत् ॥ २।५५।२५ ॥
विधेयामनुकूलां सीतामायाचन्तीं प्रार्थयन्तीमवलोक्याब्रवीदित्यन्वयः ॥ २।५५।२६२८ ॥
साबला सीता पप्रच्छको ऽयं वृक्ष इत्यादि ॥ २।५५।२९ ॥
रमणीयान्रम्यान् कुसुमोत्करान्पादपान्कुसुमस्तोमविशिष्टवृक्षावयवान् सीतावचनेन संरब्धस्त्वरावानानयामासेत्यन्वयः । आनयामासेत्यानित्य इत्यर्थ आर्षम् ॥ २।५५।३० ॥
विचित्रेत्यादि नदीवेशेषणम् । नदीं यमुनाम् ॥ २।५५।३१ ॥
चेरतुर्भुक्तवन्तौ ॥ २।५५।३२ ॥
वप्रं तीरम् ॥ २।५५।३३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥ २।५५ ॥