०५४ भरद्वाजाश्रमगमनम्

ते इति ॥ २।५४।१ ॥

गङ्गामभि यमुना प्रवर्तते तद्देशं प्रयागम् गङ्गाया अतिपुण्यत्वध्वननायैवमुक्तिः ॥ २।५४।२ ॥

भूमिभागा भूमिप्रदेशाः ते पश्यन्तो जग्मुरिति संबन्धः ॥ २।५४।३ ॥

यथा यथासुखं जनानुमानशङ्काभावात्क्षेमेणोपविश्योत्थाय च शनैः शनैः स्वेच्छानुरोधेन संपश्यन्समपश्यन् निर्वृत्तमात्रे ऽर्धमण्डलकाले ॥ २।५४।४ ॥

भगवतो ऽग्रेः केतुं लिङ्गं धूमं पश्य यदेवमतो ऽत्र मुनिः संनिहित इति मन्ये ॥ २।५४।५ ॥

संभेदं सङ्गमम् । वारिणोर्गङ्गायमुनाजलयोः । वारिघर्षो विजातीयवारिसंबन्धः । “घट्ट” इति पाठे ऽप्येवमेव ॥ २।५४।६ ॥

येषां दारूणि भिन्नानि ते द्रुमा दृश्यन्त इत्यन्वयः ॥ २।५४।७ ॥

“धन्विनां विततौ” इति पाठे तेषां मध्ये विततौ मुख्याविति यावत् । सन्धावन्तर्वेदिदेशे निलयमावास तत्समीपदेशम् ॥ २।५४।८ ॥

आश्रमं तत्समीपवनप्रदेशम् त्रासयन्धनुर्धरत्वादिस्वरूपमात्रेण केवलं त्रासयन् । भरद्वाजं तदाश्रमम् ॥ २।५४।९ ॥

आश्रमं भरद्वाजस्य दूरादेवावतस्थतुः कार्यवशनिर्गतशिष्यद्वारा विज्ञापनपूर्वकानुमतिलाभार्थमिति भावः ॥ २।५४।१० ॥

स तथा लब्धानुमतिः प्रविश्य उटजमिति शेषः । संशितव्रतं तीक्ष्णव्रतम् तपसा लब्धचक्षुषं त्रैकालिकसर्वजगद्वृत्तान्ताभिज्ञम् ॥ २।५४।११ ॥

दृष्ट्वा ऽवसरं ज्ञात्वा सौमित्रिणा सार्धम् अभ्यवन्ददिति शेषः । सीतया च नमस्कारं कारितवान् । तदाह अभ्यवादयत् ॥ २।५४।१२ ॥

तत्र मूलफलाशना इत्यन्तेन स्ववृत्तान्तसहितमात्मानं भरद्वाजाय न्यवेदयत ॥ २।५४।१३१५ ॥

धर्ममेव वानप्रस्थधर्ममेव मूलफलग्रहणं मांसस्याप्युपलक्षणम् ॥ २।५४।१६ ॥

गां मधुपर्काङ्गं महीक्षम् ॥ २।५४।१७ ॥

अन्नमत्रादनीयमात्रम् अत एव मूलफलाश्रयान् इति वक्ष्यति । रसाः पानीयविशेषाः वासं वासस्थानम् ॥ २।५४।१८ ॥

आगतमागतं तेजोविशेषान्मर्यादारक्षणाय मध्ये मध्ये स्थित्वा निकटं प्राप्तं मृगपक्षिभिर्मुनिभिश्च सह स्वागतेनाभ्यर्च्य मुनिभिः सह मुनी रामं समन्तत आसीनो ऽभवदिति योजना मृगपक्षिणामर्चा च प्रदक्षिणगमनादिरूपा वर्णिता ॥ २।५४।१९,२० ॥

चिरस्य चिरकालस्य इहाश्रम आगतं त्वां पश्यामि अनेन सर्वमपि कदाचिदागमनं ध्वनितम् । पूर्वरामावतारकालिकमागनं मनसि निधाय वैषोक्तिः । चक्षुषा एव रूपं पश्यामि यः केवलं ध्यानगोचर एव सो ऽप्येवंभूत इत्याश्चर्यं व्यङ्ग्यम् अकारणं निर्निमित्तम् ॥ २।५४।२१२३ ॥

इत आसन्न एतदाश्रमाददूरवर्ति पौरजानपदो जनो मां सुदर्शं सुखेन द्रष्टुं शक्यं प्रेक्ष्य ज्ञात्वा वैदेहीं मां च प्रेक्षको जनो वैदेह्यादिदर्शनार्थी जनस्तदर्थमिममाश्रममागमिष्यतीत्यहं मन्य इत्यन्वयः ॥ २।५४।२४,२५ ॥

यत्र यस्मिन्नाश्रमस्थाने तादृशमेकान्ते वर्तमानं पश्य ज्ञात्वा निर्दिशेत्यर्थः । अत्र भगवन्नित्यादिश्लोकत्रयस्य तीर्थेन वास्तवस्त्वर्थः रावणवधार्थं गूढमवतीर्णं मां मा

प्रकटीकुरु अन्यथा सर्वो ऽपि जनः सुदर्शं विष्णुं मां ज्ञात्वा वैदेहीं च मां लक्ष्मीं प्रेक्ष्य ज्ञात्वा तां मां च प्रेक्षकः सन्निहागमिष्यति अत एवंविधं प्रकटवासं न रोचये, अतो यत्र वैदेही रमते तम् आश्रयतीत्याश्रमं जगत्, तस्य स्थानं सर्वोत्तमं मां त्वमेवैकान्ते पश्य मत्स्वरूपं न प्रकटयेत्यन्तेन

व्याख्यातम् तदयुक्तम्, मुनिना रामस्वरूपप्रकटनस्य सर्ववेद्यं यथा भवति प्राक् क्वाप्यकरणात् अक्षरमर्यादयापि तादृशार्थालाभाच्च । पौरजानपदो जन इति पदस्वारस्याच्चेति सुधियो विभावयन्तु ॥ २।५४।२६ ॥

एतदिति । राघवस्यार्थग्राहकं तदुक्तप्रयोजनप्रतिपादकं तद्वक्ष्यमाणमब्रवीत् ॥ २।५४।२७ ॥

दशक्रोशे इति सप्तम्यन्तम् । इतो मदाश्रमात् ॥ २।५४।२८,२९ ॥

यावता यदा श्रृङ्गाण्यवेक्षते तदेति शेषः । समाधत्ते मनसा कर्तुमाशास्ते ॥ २।५४।३० ॥

तदुपपादयति ऋषय इति । बहुदिनमृतनृकपालवच्छुक्लं शिरस्तेन सह तेन विद्यमानेनोपलक्षितास्तपसा शरदां शतं विहृत्यातिवार्धके ऽपि तपसा क्रीडित्वा दिवं स्वर्गमारूढाः । केचित्तु कपालशिरसेति शरीरोपलक्षणं सशरीराः स्वर्गं गता इत्याहुः । तत्र, धर्मपुत्रादीनामपि कियद्दूरमेव धर्मवैभवदर्शनायैतच्छरीरेण गमनं ततस्तन्निरासपूर्वकमेव स्वर्गगमनश्रवणादिति कतकः ॥ २।५४।३१ ॥

वनवासाय वनवासनियमसिद्धये इह वेति शिष्टाचारमात्रम् ॥ २।५४।३२ ॥

रामं तद्रजन्यां तत्र वसन्तं प्रतिजग्राहातिथियोग्यसत्कारैर्वशीकृतवान् ॥ २।५४।३३ ॥

रजनी प्रपन्ना प्राप्ता ॥ २।५४।३४३६ ॥

इहाश्रमे शर्वरीमुषिताः स्म । अह अथेत्यर्थे । वसतिं गन्तव्यां चित्रकूटरूपां तद्गमनं प्रत्यनुजानातु ॥ २।५४।३७ ॥

भरद्वाजः तथा रामेण प्रार्थित इति शेषः । व्रज इति अनुजगाविति शेषः ॥ २।५४।३८ ॥

औपयिकमुचितम् । नगा वृक्षाः ॥ २।५४।३९४१ ॥

विचरन्ति इदं शत्रन्तम् । सरितो नद्यः प्रस्रवणास्तनुतरजलप्रवाहास्तद्युताः प्रस्थाः सानूनि, दरी पाषाणनिर्भेदः, कन्दरा गिरिगुहाः, निर्झरा घनप्रवाहाः, तान्द्रक्ष्यसीत्यन्वयः । एते कुञ्जरादयः सीतया सार्धं चरतस्तवेत्यन्वयः ॥ २।५४।४२ ॥

कोयष्टिभष्टिट्टिभः ॥ २।५४।४३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे चतुःपञ्चाशः सर्गः २।५४ ॥