०५३ राम-लक्ष्मणसंवादः

स तमिति ॥ २।५३।१ ॥

आ जनपदादेति च्छेदः आ इति यातेत्यनेन संबध्यते । अस्मज्जनपदाद्बहिर्देशे ऽद्येयं या रात्रिरायाता प्राप्ता, येयं वनवासरात्रिषु प्रथमा सुमन्त्रेण रहिता च, तामिमां प्राप्य नोत्कण्ठितुं नगरादि स्मर्तुम् ॥ २।५३।२ ॥

न विद्यते तन्द्री ययोस्ताभ्याम् इडभावो ह्रस्वत्वं चार्षम् । क्वचित्तु “अतन्द्राभ्याम्” इत्येव पाठः आवयोर्वर्तेत ऽस्मदायत्तावित्यर्थः । अप्राप्तप्राप्तिर्योगः लब्धपरिपालनं क्षेमः ॥ २।५३।३ ॥

कथंचिदेवेमाम्, उटजादिनिर्माणाभावात् स्वयमर्जितैः तृणपर्णादिभिरिति शेषः । अपवर्तामहे यथाकथंचिच्छयनं कुर्मः ॥ २।५३।४ ॥

कथा वार्ताः ॥ २।५३।५ ॥

कृतकामा संपन्नमनोरथा ॥ २।५३।६ ॥

राज्यकारणान्महाराज्यपदाभिषेककारणात्प्राणानपि न च्यावयेत् अपि तु च्यावयेदित्यर्थः ॥ २।५३।७९ ॥

कामस्य गरीयस्त्वं साधयति को हीत्यादिना । अत्यज्ञो ऽपि कः पुमान्मामिव छन्दानुवर्तिनमाज्ञाकारिणं पुत्रं प्रमदायाः कृते प्रमदातोषनिमित्तं त्यजेत्, किं पुनः सर्वज्ञो राजा तस्मात्सर्वतः प्रबलः काम इति भावः ॥ २।५३।१० ॥

एवं वादो हि भगवतो लक्ष्मणमतिपरीक्षार्थमयोध्यां त्वं प्रविशेति लक्ष्मणं प्रति वक्तुं तदाशयं ज्ञातुं च न वास्तव इति बोध्यम् ॥ २।५३।११ ॥

एकं मुख्यं सुखम् अनुभवितेति शेषः ईदृशो भविष्यति । “सुखमेकः” इति वा पाठः एक एव राजा भविष्यतीत्यर्थः इति तीर्थः ॥ २।५३।१२ ॥

यो भरतः काममनुवर्तते स यथा राजा दशरथो विपदमापन्न एवं विपदमापद्यते प्राप्नोतीत्यर्थः । अन्ये तु राजा दशरथो यथा राजत्वमापन्नस्तथा भरतो राजत्वमापद्यते इत्यर्थमाहुः ॥ २।५३।१३,१४ ॥

मत्कृते मम दुःखसंपादननिमित्तम् ॥ २।५३।१५ ॥

माता तवेति शेषः । काले प्रातःकाले उत्थायेत्यर्थः ॥ २।५३।१६ ॥

नाथो रक्षकः ॥ २।५३।१७ ॥

क्षुद्रकर्मा कैकेयी द्वेषादन्यायमाचरेत् हि निश्चितम् । तदेवाह हे धर्मज्ञ ते मम च मातरं सुमित्रां कौसल्यां चोद्दिश्य गरं विषं हि तु दद्यात् ॥ २।५३।१८ ॥

जात्यन्तरे जन्मान्तरे एतत्पुत्रवियोगदुःखम् ॥ २।५३।१९ ॥

फलकाले सुखानुभवकाले ॥ २।५३।२० ॥

कुत इत्यतः सौमित्रे इति ॥ २।५३।२१ ॥

हे लक्ष्मण अम्बया पालिता कृतवचनशिक्षा च सारिका मत्तो ऽम्बायां प्रीतिविशिष्टा अधिकप्रीतियुक्ता इति मन्ये यद्यस्मात्तस्याः सारिकायाः सकाशादेवं शत्रुनिग्रहविषयम् “शुक्र पादमरेर्दश” इति वाक्यं श्रूयते कौसल्ययेति शेषः । अस्मत्तस्तु तदपि नेति भावः । अत्रेदं वाक्यम् अरेर्बिडालस्य पादे हे शुक्र दशेत्यर्थकतया लोकप्रसिद्धमरेर्मत्पालयितुः कौसल्यायाः शत्रोः पादं दशेत्यर्थकतया रामेण योजितमिति वक्रोक्तिरलङ्कारः ॥ २।५३।२२ ॥

अपुत्रायाः पुत्रकृतप्रयोजनरहितायाः ॥ २।५३।२३ ॥

शेते इदानीमिति शेषः ॥ २।५३।२४ ॥

नन्वेवं हृदये शोकस्तर्हि मया सर्वनिवारणसहायेनोक्तं राज्यमेव कुतो नाङ्गीकृतमिति चेन्न, राज्यकरणे त्वदपेक्षापि मे न, किंत्वधर्मभयादेव मया तन्नाङ्गीकृतमित्याह एक इत्यादि । तरेयम् निरस्तारातिकां कर्तुं शक्त इत्यर्थः । ननु

वीर्यमकारणं परलोकहिते, अपि तु धर्म एवेति शेषः ॥ २।५३।२५ ॥

अधर्मात्कैकेय्यै पितृदत्तवरपालनप्रतिज्ञाक्षतिरूपादधर्माद्भीतः अत एव परलोकस्य च नाशाद्भीत इति शेषः ॥ २।५३।२६ ॥

अन्यच्च एतज्जातीयम् । विजने इत्यनेन स्वविलापेन लोकदुःखाभावो ध्वनितः । अश्रुपूर्णमुखत्वं नटवल्लोकव्यवहारानुसारेणेति बोध्यम् ॥ २।५३।२७,२८ ॥

आ युधिनामिति च्छेदः ॥ २।५३।२९ ॥

औपयिकं युक्तं यतस्त्वत्परितापेन सीताया मम च विषादो भवति ॥ २।५३।३० ॥

अथ गन्तव्यमिति यदुक्तं तदुत्तरं सीतावदहमप्यवर्जनीय इति वक्तुमात्मनः सीतासाधर्म्यमाह न चेति । त्वया हीना सीता त्वया हीनो ऽहं च जलादुद्धृतौ मत्स्याविव न जीवावो न जीवाव इति जीवाव इत्यस्यावृत्त्या नञ्द्वयान्वयः । जीवनाभावस्य सर्वथा सत्यत्वप्रतिपादनाय द्विरुक्तिः ॥ २।५३।३१ ॥

अत्र नोत्कण्ठितुमर्हसीत्यस्योत्तरम् नहीति । नञ्त्रयस्य नेच्छेयं नेच्छेयं नेच्छेयमिति प्रकारेणेच्छेयामिति पदावृत्त्यान्वयः । स्वर्गं चाप्यद्य प्राप्तं द्रष्टुं त्वया विना नेच्छेयम् किमुत गन्तुमिति भावः ॥ २।५३।३२ ॥

ततो लक्ष्मणवचनानन्तरं तत्र तस्मिन्नेव न्यग्रोधमूले समासीनौ सीतारामौ न्यग्रोधमूले स्वावस्थानदेशादतिसमीपे लक्ष्मणेन सुकृतां सम्यग्रचितां शय्यां भेजाते वत्सला च वत्सलश्च वत्सलौ “पुमान्स्त्रिया” इत्येकशेषः ॥ २।५३।३३ ॥

स रामो लक्ष्मणस्य वनवासं प्रत्यादरादुच्यमानमेवंभूतमत एवोत्तमपुष्कलमत्यन्तश्रेष्ठं वचो निशम्य सुचिराय स्वयं वनवासरूपं धर्मं प्रपद्याङ्गीकृत्य समस्ताः समा वनवासं प्रति विदधे लक्ष्मणस्यानुमतिमिति शेषः ॥ २।५३।३४ ॥

भयं तत्कार्यमितस्तत ईक्षणरूपं संभ्रमं च नोपेयतुः ॥ २।५३।३५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥ २।५३ ॥