प्रभातायामिति ॥ २।५२।१ ॥
सुकृष्णो विहगः काकः कोकिलपालकत्वाच्च कोकिलपदेनोक्तः, काकेति नामग्रहणस्य प्रातिर्निन्द्यत्वादेवमुक्तिः ॥ २।५२।२,३ ॥
विज्ञाय तरणसाधनं शीघ्रमानेयमित्येवं रामवचनतात्पर्यं ज्ञात्वा गुहं सूतं चामन्त्र्यामन्त्रणेनैव तत्तात्पर्यं बोधयित्वा यथापूर्वं भ्रातुरग्रतो ऽतिष्ठत् ॥ २।५२।४ ॥
स तु गुहस्तु रामस्य वचनं तराम जाह्नवीमित्येवं निशम्य तात्पर्यतो ज्ञात्वा प्रतिगृह्य नमस्कारपूर्वं प्रतिगृह्य सचिवानाहूय तन्मध्ये कंचित्प्रत्यब्रवीत् ॥ २।५२।५ ॥
अस्यवाहनसंयुक्ताम् अस्य जलं निरस्य नावं तीरं प्रापयतीत्यस्यवाहनमरित्रं मयूरव्यंसकादित्वात्समासः कर्णग्राहः कर्णधारः सुखेन प्रतारः प्रतरणं यया तां दृढां दृढसन्धिबन्धां तीर्थे ऽवतारमार्ग उपाहर समीपं प्रापय ॥ २।५२।६ ॥
उपोह्य समीपं प्रापय्य ॥ २।५२।७९ ॥
आरोप्यताम् खनित्रपिटकवैदेहीवस्त्राभरणादिकमिति शेषः ॥ २।५२।१० ॥
संनह्य कवचं कलापांस्तूणीरान् येनावतरणमार्गेण नावमारुह्य तामनिर्वाच्यगुणां गङ्गां लोकास्तरन्ति तमवतारं तेर्तुं जग्मतुः ॥ २।५२।११ ॥
एवं तु एवंभूतं तु रथादिनिरपेक्षं गच्छन्तं तु ॥ २।५२।१२ ॥
उत्तमश्चासौ दक्षिणश्च तेन स्पर्शादिव्यापारे उत्तमेन स्पर्शमात्रेण सकलदुःखहारकत्वाद्दक्षिणेनेदृशेन करेण दक्षिणकारेण ॥ २।५२।१३ ॥
गमनप्रत्याशानिवृत्तये पुनः सावधारणां निवृत्तिमाह निवर्तस्वेति । एतावत्पर्यन्तं राजाज्ञया यानेन गमनं कृतम् हि अतः परं ममानेन न प्रयोजनं यतो रथं विहाय पद्भ्यामेव महावनं गमिष्यामः, अतस्त्वं सर्वथा निवर्तस्व ॥ २।५२।१४ ॥
अभ्यनुज्ञातम् प्रतिनिवृत्त्यै इति शेषः ॥ २।५२।१५ ॥
तदादौ लोकदृष्ट्या शोकापनुदं वचनमाह नातीति । सभ्रातृभार्यस्य तव प्राकृतवत्क्षुद्रवद्वने वासो येन दैवेन कृतस्तदिदं दैवमिह लोके केनाप्यतिक्रान्तं लङ्घितं
न अतो हृदये मा शुच इत्यर्थः । यद्वा ते वनवासो जात इति यदिदमिह लोके ऽयोध्यास्थलोकमद्ये केनापि पुरुषेण न हृद्यत्यन्तं क्रान्तं स्वीकृतं सर्वासंमतमेव, अतो ऽस्मदादीन्दोषेण मा गृह्णीया इति तात्पर्यम् ॥ २।५२।१६ ॥
किं च यदि त्वामीदृशं व्यसनमागतं तदा ब्रह्मचर्यादि निष्फलमिति मन्ये ॥ २।५२।१७ ॥
इदानीं रामं भगवन्तं मत्वाह सहेति । गतिमुत्कर्षमेकस्यैव त्रिलोकीजेतुर्जयेन पितृवाक्यपरिपालनेन च त्रींल्लोकाञ्जयन्निव एवं च तवायं वनवासो ऽपि महाफल एव ॥ २।५२।१८ ॥
वयं तु सर्वथा पीडिता इत्याह वयमिति । उपवञ्चिताः केचिद्रात्रावविदितगमनेन अहं बलान्निवर्तनेन एवं सर्वे त्यक्ताः ॥ २।५२।१९ ॥
आत्मसममतिबुद्धिमन्मन्त्रियोग्यम् । “दुरगतम्” इति पाठे दूरदेशावस्थानवन्तं निश्चित्य तत्समीपे दुःखार्तश्चिरं रुरोद ॥ २।५२।२० ॥
स्पृष्टोदकमाचामन्तं शुचिं पवित्रम् ॥ २।५२।२१ ॥
सुहृदं व्यसनापनोदकम् । यत एवमतः यथेत्यादि ॥ २।५२।२२ ॥
कामभारावसन्नः कामवेगेन पीडितः, यद्वा ऽवसन्नो मदभिषेकादिमनोरथसमूहः तस्मादेतदुक्तं वक्ष्यमाणं च ॥ २।५२।२३ ॥
कैकेय्याः प्रियो यः कामो विषयो भरताभिषेकादिस्तदर्थं यथा येन प्रकारेण यद्वस्त्वाज्ञापयेत्तदविकाङ्क्षया ऽस्मदादीनामविशङ्कया कार्यं सादरमनुष्ठेयम् ॥ २।५२।२४ ॥
एतच्छब्दार्थमाह यदेषामिति । प्रशासतीत्यभ्यस्तत्वादत् सर्वकृत्येष्वपि कामक्रोधप्रवृत्तेष्वपि ॥ २।५२।२५ ॥
यत्कार्यं प्रति यथा येन प्रकारेणालीकमप्रियम् ताम्यति ग्लायति ॥ २।५२।२६ ॥
अभिवाद्य मत्प्रतिनिधितया मदीयनमस्कारं कृत्वा ॥ २।५२।२७ ॥
इदंपदार्थमाह न चेति । वने वत्स्यामहेति वेति सन्धिरार्षः वत्स्यमाहे इति वा । नानुशोचामीति संबन्धः ॥ २।५२।२८ ॥
पुनरागतानस्मान्पुनत्स्वं द्रक्ष्यसीति संबन्धः, पुनः पुनरभीक्ष्णं द्रक्ष्यसि वा ॥ २।५२।२९ ॥
सहिताः मम मात्रेति शेषः । पुनः पुनरभीक्ष्णं पूर्वोक्तं वाक्यमुक्त्वा कौसल्यामित्युपलक्षणम् सर्वाः प्रति कैकेयीं चारोग्यम् अहमरोगो ऽदुःख इति ब्रूहि कैकेयीमिति न व्यङ्ग्योक्तिः किंतु दैवकृतत्वेनास्या अनपराधित्वमित्याशयेन ॥ २।५२।३० ॥
अथारोग्यकथनानन्तरं सर्वान्प्रत्यार्यस्य ज्येष्ठस्य मम सीताया लक्ष्मणस्य च
वचनात्पादाभिवन्दनं ब्रूहि ॥ २।५२।३१ ॥
एवं पितरं मातरं प्रति सन्दिश्य पुनः पितरं प्रतरं सन्दिशति ब्रूया इति । महाराजं दशरथं नृपमते राजसंमते पदे राज्ये ॥ २।५२।३२ ॥
अथ सुमन्त्रं प्रत्याह भरतं चेति । अभिषिच्याभिषेचय्य ॥ २।५२।३३ ॥
राजनि दशरथे ॥ २।५२।३४ ॥
अविशेषतः शत्रुघ्नसंबन्धात्कैकेय्यविशेषतः कैकेय्यविशेषेत्यर्थः । एवं मम मातापि कैकेय्यविशेषाद्द्रष्टव्येत्यर्थः ॥ २।५२।३५ ॥
अवेक्षताङ्गीकुर्वता उभयोर्लोकयोरिहपरलोकयोः । नित्यदा सर्वदा छान्दसो दाप्रत्ययः । सुखं वर्धयितुं शक्यम् तेन तथा वर्तस्व येन लोकद्वये ऽपि सुखं भवतीति व्यङ्ग्यं पर्यायोक्तमत्रालङ्कारः ॥ २।५२।३६,३७ ॥
उपचारः स्वामिभृत्योचितः सत्कारः तेन न ब्रूया ब्रूयाम् छान्दसमेतत् । अपि तु स्नेहाद्विक्लवं वाक्यं ब्रवीमि तद्वाक्यं भक्तिमानिति ज्ञात्वा क्षन्तुमर्हसीति संबन्धः ॥ २।५२।३८ ॥
पुत्रशोकः पुत्रवियोगजः शोकः ॥ २।५२।३९ ॥
मे रथं मत्प्रवर्त्यं रथं दूराद्दृष्ट्वा । तदा दर्शनकाले सराभमपि अपिः संभावने स रामं संभावयमानो जनः पुरी च निकटगतं रथं विना रामं दृष्ट्वा विदीर्येतापि । अपिः संभावनायाम् ॥ २।५२।४० ॥
सूतावशेषं हतवीरं रथं दृष्ट्वा स्वसैन्यमिव ॥ २।५२।४१ ॥
दूरे ऽपि निवसन्तं त्वां मानसेन व्यापारेणाग्रतः पुरः स्थितमिव त्वां चिन्तयन्त्यो
रथेनागतप्रायो राम इति चिन्तयन्त्यः प्रजा जना अद्य एकस्य मम गमनदिने नूनं निश्चयेन निराहाराः कृता निराहारसङ्कल्पवत्यः कृता मरिष्यन्तीति यावत् ॥ २।५२।४२ ॥
तस्यैव युक्त्या साधनं करोति दृष्टमित्यादिना । सङ्कुलमार्तनादादि ॥ २।५२।४३ ॥
सरथं मामेव निशाम्येत्यन्वयः ॥ २।५२।४४ ॥
पुना रामं विना स्वगमने ऽनुपपत्तिमाह अहमिति । अपि च अहं देवीं किं वक्ष्यामि देवीं कौसल्याम् । तव सुतो मया मातुलकुलं प्रापित इति ब्रूहि, तत्राह ईदृशं वचनं प्रियमप्यसत्यं नैवाहं ब्रूयाम् । वनं प्रापित इत्येव तर्हि ब्रूहि, तत्राह इदं सत्यमप्यप्रियमेव अतः कथं ब्रूयाम् “सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्” इति स्मृतेः । तस्मात्तवमातरं प्रति वक्तुं योग्यस्योत्तरस्याभावादहं न गमिष्यामीति भावः । एतदेव ध्वनयन्वक्ष्यति तन्न शक्ष्याम्यहं गन्तुम्" इति । यत्तु कतकेनासत्यमपि मातुलकुलगमनं वक्ष्यामि न तु सत्यमपि वनगमनमप्रियत्वादित्युक्तम्, तत्तु तन्न शक्ष्यामि
इत्यादिनोक्तवचसां नगरगमनाभावप्रतिपादकत्वस्यैव लाभाच्चिन्त्यम् ॥ २।५२।४५,४६ ॥
रथो ऽपि नेतुमशक्य इत्यनुपपत्त्यन्तरमाह ममेति । एते ऽश्वा मम नियोगस्था मत्प्रेरणमात्राधीना मत्प्रेरणया त्वद्बन्धुजनवहनशीला एव, न त्वन्यवहनशीलाः, नापि त्वद्बन्धुरहितरथवहनशीलाः अतस्त्वया हीनं रथमेते कथं प्रवाह्यन्ति, न कथमपि वहन्ति अतो रथनयनं दुःशक्यमिति भावः ॥ २।५२।४७ ॥
उपसंहरति तन्नेति ॥ २।५२।४८ ॥
त्यक्तमात्रे त्यागक्षण एव ॥ २।५२।४९ ॥
भविष्यन्ति संभावितानि रथेन साधनेनाहमेव रथी भूत्वा प्रतिबाधिष्ये ॥ २।५२।५० ॥
ननु सूतेन त्वया कथं रथिकृत्यं कर्तुं शक्यं तत्राह त्वत्कृतेनेति । न केवलमहं सूतः किंतु प्रधानभूतो मन्त्री सूतत्वं तु त्वत्कृतानुग्रहरुपफलेन तदर्थफलस्यापि हेतुत्वाङ्गीकारान्मयाङ्गीकृतमिति शेषः तत्फलं च त्वदीयरथचर्यया त्वदनुग्रहकृतं सुखं मया प्राप्तम्, इदानीं त्वत्कृतेन त्वदङ्गीकृतवनानुगमनानुग्रहेण वनवासकृतं सुख राज्यचिन्तादुःखाभावान्महात्सुखमाशंसे प्रार्थयामि, एतेन त्वदवातरं ज्ञात्वैव त्वद्रथचर्यासौभाग्याय सूतत्वं मयाङ्गीकृतमिति ध्वनितम् ॥ २।५२।५१ ॥
प्रत्यनन्तरः प्रत्यासन्नः अनुकूल इति यावत् । प्रत्यनन्तरो भवेति त्वया प्रीत्याभिहितं वाक्यं श्रोतुमिच्छामि ॥ २।५२।५२,५३ ॥
देवलोकं वेत्यनेन त्वद्भक्तानां भक्त्यान्तरायभूतदेवलोकप्राप्तिरपि हेयैवेति
सूचितम् ॥ २।५२।५४,५५ ॥
वनवासे क्षयं प्राप्ते वनवासकाले समाप्ते पुरीं वहेयं प्रापयेयमिति यत्, एष मे मनोरथः ॥ २।५२।५६ ॥
अन्यथा त्वया रहितस्य स्थितिपक्षे ॥ २।५२।५७ ॥
भर्तृपत्रगते राजपुत्राश्रिते पथि यथा भृत्येन स्थातव्यं तथा त्वद्विषये तिष्ठन्तं सर्वभृत्यमध्ये भक्तिमन्तं भृत्यं स्थित्या भृत्ययोग्यया स्थित्या सर्वदा स्थितं नियुक्तं कार्यविषये कदाप्यपराधरहितमिति यावत् ॥ २।५२।५८६० ॥
रामो वनं गत इति प्रत्ययं निश्चयं कैकेयी गच्छेदित्यन्वयः ॥ २।५२।६१ ॥
अतिशङ्का ऽन्यथाशङ्का तां न कुर्यात् ॥ २।५२।६२ ॥
इत्येष मे प्रथमः कल्पो मुख्यं प्रयोजनं त्वद्गमनस्येत्यन्वयः । भरतेनारक्षितं समन्ताद्रक्षितमीदृशं पुत्रराज्यं सुखं प्राप्नुयादिति च मम त्वद्गमनस्य प्रयोजनं भरतानयनस्य त्वदधीनत्वात् ॥ २।५२।६३६५ ॥
सजने वने वासो न योग्य इत्युक्तिरत्रैव वने स्थेयमिति कदाचिद्गुहः प्रार्थयेत्तत्प्रतिबन्धाय आश्रमे जनपदरहिते वासो योग्यः, अतस्तद्गत आश्रमवासोचितो
विधिर्जटाधारणादिरूप इदानीं कर्तव्य इत्यन्वयः ॥ २।५२।६६ ॥
सो ऽहं नियमं वन्याहारभूशयनादिरूपं गृहीत्वा सीताया लक्ष्मणस्य चानुमत्या तपस्विजनभूषणं जटाः कृत्वा गमिष्यामि, अतो न्यग्रोधक्षीरमानय । भूयो ऽतिशयेन पितुर्हितकामस्तत्प्रतिज्ञारक्षणेन । यत्तु सीताया हितकाम इति तन्न, जटाधारणेन सीताहिताप्रसिद्धेः । अनुमतिस्त्वपेक्षितैव अन्यथा संन्यासबुद्ध्या परमदुःखापत्तेः ॥ २।५२।६७,६८ ॥
लक्ष्मणस्याकरोत् तेनापि रामवदवस्थानस्य सङ्कल्पितत्वात् ॥ २।५२।६९,७ ॥
वैखानसं मार्गं वानप्रस्थाश्रमधर्ममास्थितः प्राप्तुं कृतबुद्धिः सन्व्रतं वानप्रस्थव्रतमादिष्टवानङ्गीकृतवान् अत्र गङ्गारूपतीर्थप्राप्तौ, अग्रे प्रयागरूपतीर्थप्राप्तौ, तदग्रे पितृमरणश्रवणे ऽपि यन्मुण्डनाकरणं रामलक्ष्मणयोस्तेनानेन परकृतिरूपार्थवादेन क्षत्रियाणां तीर्थादिषु मुण्डननिषेधं प्रतीम इत्यलम् । सहायं गङ्गातरणादिकृतसहायम् ॥ २।५२।७१ ॥
किमब्रवीत्तदाह अप्रमत्त इति । दुःखेनारक्षा रक्षणं यस्य तद्दुरारक्षम् अतिशयेन दुरारक्षं दुरारक्षतमम् । “दुरारक्ष्यतमम्” इति पाठे ऽतिशयेन दुःखेन रक्षितुं योग्यतममित्यर्थः ॥ २।५२।७२७४ ॥
स्थितामिमां नावं परिगृह्य हस्ते गृहीत्वा सीतामारोपय अन्वक्षं पश्चात्त्वमारोह ॥ २।५२।७५ ॥
अप्रतिकूलयन्ननुकूलयन् ॥ २।५२।७६,७७ ॥
ब्रह्मवत्क्षत्रियवद्ब्राह्मणक्षत्रियार्हं ब्रह्मक्षत्रदेवताकमित्यर्थो वा आत्मनो हितमुद्दिश्य जजाप । “सुत्रामाणमृचा नावमारोहेत्” इति स्मृतेः क्षत्रियाधिकारे पाठाद्ब्रह्मक्षत्रदेवताकत्वं चास्य ब्राह्मणे उक्तमिति कतकः । “दैवीं नावम्” इत्यादिर्ब्रह्मक्षत्रसाधारणो मन्त्र इत्यन्ये ॥ २।५२।७८ ॥
प्रणमत् अडभाव आर्षः ॥ २।५२।७९,८० ॥
कर्णधारेण नाविकेन समाहिता सज्जीकृता स्फ्यमरित्रं तेन वेगादभिहता प्रणुन्ना ॥ २।५२।८१ ॥
गङ्गाया महादेवतात्वात्स्त्रीदेवतात्वाच्च सीता प्रार्थितवतीत्याह– मध्यमिति ॥ २।५२।८२ ॥
पालयतु पारयतु समापयत्विति यावत् रलयोः समानश्रुतित्वात् ॥ २।५२।८३ ॥
पुनः प्रत्यागमिष्यति स्वदेशं यदीति शेषः ॥ २।५२।८४ ॥
सर्वकामसमृद्धिनी सर्वकामसमृद्धं सर्वकामपूरणमस्या अस्ति दातव्यत्वेनेत्यर्थः ॥ २।५२।८५ ॥
समक्षसे व्याप्नोषि “अक्षू व्याप्तौ संघाते च” तत्त्वं चास्या बालकाण्डे निरूपितम् ॥ २।५२।८६ ॥
प्रशंसामि स्तौमि शिवेन क्षेमेण ॥ २।५२।८७,८८ ॥
मांसभूतौदनेन यक्ष्ये महाबलिदानेनेति शेषः ॥ २।५२।८९ ॥
तीर्थानि प्रयागादीनि आयतनानि काश्यादीनि ॥ २।५२।९०,९१ ॥
दक्षिणा भर्तुरनुकूला ॥ २।५२।९२,९३ ॥
संरक्षणार्थम् सीताया इति शेषः । भव सावधान इति शेषः ॥ २।५२।९४ ॥
यदेवमतः अग्रत इति । एवं च कार्यवशाल्लघोरप्यग्रतो गमनमदोषायेति ध्वनितं मार्ग एव लघोरग्रतो गमनमदोषायेत्यन्ये । एवं स्त्र्यविश्वसनीयेति च ध्वनितम् ॥ २।५२।९५ ॥
नो ऽस्माकम् सीतयापि पातिव्रत्यमहिन्नेतररक्षणम् ॥ २।५२।९६ ॥
कुत एवमतियत्नो ऽत आह नहीति । असुकरा दुष्करा काचन कापि क्रियातिक्रान्ता न, किं त्वितः प्रभृति दुष्करक्रियारम्भ इति भावः, यद्वा काचन क्रिया ऽप्यायलक्षणा ऽतिक्रान्तास्मानतिक्रम्य प्राप्ता चेत्ततो रक्षा सुकरा नहि “प्रहृतं प्रहृतमेव” इति न्यायादित्यर्थः । अद्येत्यादि सार्धश्लोक एकं
वाक्यम् ॥ २।५२।९७ ॥
दुखज्ञाने हेतुः प्रणष्टेति । क्षेत्रं शाल्यादिक्षेत्रम् । विषमं निम्नोन्नतं प्रपातं गर्तादि तद्युक्तम् ॥ २।५२।९८१०० ॥
वत्सान्वत्सदेशान् ॥ २।५२।१०१ ॥
ऋश्यादयो हरिणभेदाः काले सायंकाले मांसस्य च वन्याहारान्तर्गतत्वान्न दोषः
मृगयाधर्मकत्वाच्च न मृगहनने दोषः । बुभुक्षितौ हत्वा तानादाय गतावित्यनेन भोजनमर्थसिद्धमेवेति नोक्तम् ॥ २।५२।१०२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥ २।५२ ॥