०५० गङ्गातीरे गुहसमागमः

अथ जन्मभूमिप्रयुक्तस्नेहेन निर्गमनकाले शिष्टाचारपरिप्राप्ततया च स्वदेशमापृच्छति स्वस्वरूपगोपनाय विशालानिति । यात्वा तदन्तं गत्वा ॥ २।५०।१ ॥

हे पुरिश्रेष्ठे त्वां त्वत्संबन्धिदैवतानि च आपृच्छे प्रार्थयामि ॥ २।५०।२ ॥

प्रार्थनाप्रकारमाह निवृत्तेति ॥ २।५०।३ ॥

जानपदं जनं स्वदर्शनार्थं तत्रागतं तेषामश्रुपूर्णमुखत्वाल्लोकव्यवहारानुसारेण नट इव स्वयमप्यश्रुपूर्णमुखः ॥ २।५०।४ ॥

अनुक्रोश आदरो ऽनुतापो वा दया कारुण्यम् । यथायोग्यं मयि वो युष्माकम् युष्माभिरिति यावत् कृतः कृता च दुःखस्य चिरमनुभव इति शेषः । पापीयो ऽशोभनम् अतो युष्माभिर्गम्यताम् वयमप्यर्थसिद्धये पित्रनुज्ञातार्थसिद्धये ऽवतारप्रयोजनार्थसिद्धय इति हृत्स्थम् गच्छाम इति शेषः । व्याख्यानान्तरं त्वप्रयोजकत्वान्नोक्तम् ॥ २।५०।५ ॥

त एवं रामेण बोधिताः ॥ २।५०।६ ॥

अनृप्तानां दर्शनतृप्तिरहितानाम् क्षणदामुखे सायंकाले ऽर्को यथा तथा चक्षुर्विषयं देशं गतः ॥ २।५०।७ ॥

तदेवाह वाल्मीकिः तत इति । दानशीला जना येषु तान् चैत्यैर्देवताधिष्ठानवृक्षैर्यूपैश्च समावृतान् ॥ २।५०।८ ॥

गोकुलैराकुलतया सेवितान् ॥ २।५०।९ ॥

नरेन्द्राणां रक्षणीयान् ग्रामश इति शेषः । नरेन्द्ररक्षणयोग्यैकैग्रामान् इतरनरेन्द्रराज्यतुल्यैकैकग्रामानिति यावत् ॥ २।५०।१० ॥

मध्येन मध्यगत्या नरेन्द्राणामितरेषां भोज्यं राज्यं देशं ययौ । स्वदेशत्वाभावेन तज्जनानुयानशङ्काभावाच्छनैर्देशसौभाग्यं पश्नन्नगमदित्यर्थः ॥ २।५०।११ ॥

तत्रायोध्याराज्याद्दक्षिणराज्ये ॥ २।५०।१२ ॥

काले क्रीडाकाले सेविता अम्भःपूर्णहृदा यस्यां ताम् ॥ २।५०।१३ ॥

नागपत्नीभिर्गन्धर्वपत्नीभिश्च सेविताम् । सततं शिवामित्यनेन महानिशायामपि

तस्यां स्नानाद्यधिकारः सूचितः । तदुक्तं भारते “भुक्त्वा वा यदि वा ऽभुक्त्वा रात्रौ वा यदि वा दिवा । न कालनियमः कश्चिद्गङ्गां प्राप्य सरिद्वराम् ॥ " इति ॥

२।५०।१४ ॥

देवानामाक्रीडैः क्रीडापर्वतैर्हिमवत उभयतीरवर्तिभिर्युक्तां । देवार्थं देवानां स्नानापानादिप्रयोजनाय तत्प्रार्थनया ऽ ऽकाशगताम् देवपद्मिनीं देवभोग्यहेमपद्मवतीम् ॥ २।५०।१५ ॥

शिलामयस्थले यो जलाघातशब्दस्तद्रूपाट्टहासेनोग्राम् । पाठान्तरे जलेनाधूताः प्रक्षालिता गुहाग्रा गुहामुखानि यया ताम् फेनरूपो यो निर्मलो हासो मन्दहासस्तद्वतीम् एवमादिना स्त्रीरुपेण वर्णनं प्रवाहरूपाया गङ्गाया इति बोध्यम् । वेणीकृतजलां द्वित्रिजलसंयोगात् ॥ २।५०।१६ ॥

स्तिमिता निश्चला सा चासौ गम्भीरा च तां गम्भीरनिर्घोषां मृदङ्गादिवत्, भैरवनिःस्वनाम् अशन्यादिवत् ॥ २।५०।१७ ॥

आभोगपुलिनां विशालसैकताम् ॥ २।५०।१८२० ॥

कुड्मलरूपैः कुमुदखण्डैः समूहैरित्यर्थः । पुष्परजसा ध्वस्तां संयुक्तां समदामिव मदसहितां प्रमदामिव स्थिताम् ॥ २।५०।२१ ॥

व्यपेतो दूरीकृतो मलसंघातः पापसंघातो यया ताम् । “व्यपेतजलसंघाताम्” इति पाठे तीरे क्रूरप्रवाहरहितामित्यर्थः । मणिर्मुक्तामणिः अनेनातिस्वच्छशुभ्रजलत्वं दिग्गजाद्यालोडने ऽपि निर्मलत्वमित्यतिशयोक्तिरलङ्कारः । वरवारणैरुत्तमगजैः ॥ २।५०।२२ ॥

देवराजानस्ते उपवाह्या येषां तैश्च वरगजैः । “औपवाह्यैः” इति पाठे तेषां क्रीडार्थयानभूतैरित्यर्थः ॥ २।५०।२३ ॥

भूषणान्येवाह फलेत्यादि । द्विजैः पक्षिभिः । विष्णुपादस्पर्शेन ब्रह्मलोकाद्ब्रह्माण्डबाह्यजलदेशाच्च च्युतामपापां कर्मनासादिवत्केनापि प्रकारेण पापजनकत्वाभाववतीमिति कतकः तन्न, पापजनकत्वसंभावनाया एवाभावात् वस्तुतो ऽपापां पाववज्जन्तुरहिताम् । तत्र हेतुः पापनाशिनीं दर्शनमात्रेण तादृशीम् ॥ २।५०।२४ ॥

“शिंशुमारो जलकपिः” इति वैजयन्तीकोशकर्ता । नक्रैर्मकरैः, सागरतेजसा भगीरथतपसा ॥ २।५०।२५ ॥

शृङ्गवेरपुरं प्रस्थितामिति शेषः ॥ २।५०।२६ ॥

ऊर्मिभिः कलिलाः संपृक्ता आवर्ता यस्यां सा ताम् इह गङ्गातीरे ॥ २।५०।२७ ॥

नद्यविदूरत्वं बहुपुष्पप्रवालत्वे हेतुः इङ्गुदी तापसतरुः ॥ २।५०।२८ ॥

देवादीनां संमान्यं सलिलं यस्यास्ताम् अनेन गङ्गाजलं प्रवाहादन्यत्रानीतमपि सकलपापक्षयसमर्थमिति ध्वनितम् ॥ २।५०।२९ ॥

तत्र गङ्गातीरे स्थितमिङ्गुदीवृक्षं हयैर्ययतुः ॥ २।५०।३० ॥

तमभियाय तत्समीपं गत्वेति यावत् अवतरदवातरत् ॥ २।५०।३१ ॥

उपतस्थे समीपे सेवार्थं प्राप्तः ॥ २।५०।३२ ॥

आत्मसमः प्राणसमः निषादजात्यस्तज्जातौ भवः बलवान्प्राणतः सेनातश्च स्थपतिर्निषादाधिपतिः । “निषादजात्यः स्थपतिः” इत्यनेन निषादस्थपतिं याजयेदित्यत्र कर्मधारय इति सूचितम् । यद्यपीदृशसख्यं हीनप्रेष्यं हीनसख्यमित्यादिनोपपातकेषु गणितम्, तथापि तद्विप्रविषयं राज्ञामाटविकबलेन प्रयोजनवत्त्वात् । षढ्विधबलसङ्ग्रहस्य राजधर्मत्वाच्च तत्सख्यमेवेति दिक् । अत्रेदं बोध्यम् निषादगुहविषये “रामस्यात्मसमः सखा” इत्येवं वदता वाल्मीकिना रामसमत्वरामसमानख्यातित्वोक्त्या भगवद्भक्तत्वेन निषादत्वे ऽपि पूर्वकृतश्रवणादिमत्त्वेन तस्य तत्त्वज्ञत्वं सूचितम् ॥ २।५०।३३ ॥

उपागतो रामसमीपं प्राप्तः विषयं स्वदेशम् ॥ २।५०।३४ ॥

समागच्छत्क्षेमालिङ्गनादिना सङ्गतो ऽभूत् ॥ २।५०।३५ ॥

आर्तो रामीयवल्कलादिधारणदर्शनेन तप्तः । इदमस्मत्पुरम् ॥ २।५०।३६ ॥

ईदृशवचने कारणमाह ईदृशं हीति । अनेन भगवत्स्वरूपज्ञत्वमात्मनो ध्वनितम् । अन्नाद्यमन्नमोदनस्तदाद्यं भोज्यादीत्यर्थः ॥ २।५०।३७,३८ ॥

नो राज्यं भक्ष्यादिकं च प्रशाधि स्वीकुरु ॥ २।५०।३९ ॥

वाजिनां खादनं घासादि महाप्रभुरपि सन्स्वगृहादिह दूरं यत्पद्भ्यामागतो ऽसि, यच्च “तवेयमखिला मही” इत्यनेन स्नेहं दर्शयसि, तेन त्वया वयमर्चिता एव, हृष्टाश्च वयमित्युवाचेत्यर्थः । “सर्वदा वयमर्चिताः” इत्यनेन मद्ध्यानमेव मे महती पूजा, तच्च सर्वदा तवास्ते इत्यप्यर्थो गर्भितः अत एव वयं त्वयि सदा हृष्टाः ॥ २।५०।४० ॥

अत एव पुनरालिङ्गति, अत्यन्तप्रेमास्पदत्वं बोधयितुं भूजाभ्यामिति ॥ २।५०।४१ ॥

वनेषु चेति । तस्याटविकत्वाद्वनकुशलप्रभः । क्वचित् “धनेषु” इति पाठः ॥ २।५०।४२ ॥

अनुजानाम्यङ्गीकृत्य ददामि प्रतिग्रहे भोगफलके ॥ २।५०।४३ ॥

धर्मे प्रणिहितं पित्राज्ञापालनलक्षणे धर्मे सावधानाम् अत्र तद्दत्तस्याग्रहे प्रतिग्रहे ऽप्रतिग्रहीतृत्वरूपक्षत्रधर्मोपन्यासेनान्नभोजनायोग्यत्वे व्रतस्थत्वरूपहेतूपन्यासेन च तदन्नस्य भोजनयोग्यत्वं सूचयता तस्य तत्त्वज्ञत्वं सूचितम् । अन्यथा निषादत्वेनाभोज्यान्नतया तमेव हेतुमुपन्यसेत्, स वा कथं पक्वान्नमाहरेत् । एतेन तत्त्वज्ञः सर्वो ऽपि भोज्यान्न एवेति ध्वनितम् ॥ २।५०।४४,४५ ॥

एते अश्वाः ॥ २।५०।४६ ॥

प्रतिपानं जात्याश्वानां राजौपवाह्यानां घासदानानन्तरं यत्पाय्यते क्षीरादि तत्प्रतिपानम्, यच्च घृतशर्करादियुतयवचूर्णादि खाद्यते तत्खादनम्, त्वरितं दीयतामित्यन्वशादित्यन्वयः ॥ २।५०।४७ ॥

जलमेवाददे तीर्थप्राप्तिनिमित्तकोपवासस्यावश्यकत्वात् ॥ २।५०।४८ ॥

अभ्येत्य ततो ऽन्यत्र समीपदेश आगत्य तस्थावित्यनेन तस्य निद्राभावः सूचितः ॥ २।५०।४९ ॥

अन्वजाग्रदित्यार्षम् अजागरीदित्यर्थः ॥ २।५०।५० ॥

सुचिरेण शर्वरीति निद्रागमनाच्चिरत्वप्रतिभासस्तस्याम् ॥ २।५०।५१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे पञ्चाशः सर्गः ॥ २।५० ॥