०४८ शोकमग्ना-अयोध्या

तेषामित्यादि पद्यद्वयमेकं वाक्यम् । मुमूर्षयोपलक्षितानाममनस्विनां दुर्मनसां खिन्नानामिति यावत् । सत्त्वान्यसव उद्गतानीवोत्क्रान्तानीय मृतप्राया जाता इति भावः ॥ २।४८।१,२ ॥

बाष्पेण पिहिताननाः अश्रुव्याप्तमुखा इत्यर्थः ॥ २।४८।३ ॥

हर्षः शारीरो मुखविकासादिरूपः मोद आन्तरो हर्षः परस्मैपदमार्षम् । प्रसारयन् प्रासारयन्नित्यर्थः प्रसारितान्यपि नाशोभन्त ॥ २।४८।४ ॥

नष्टमिति । चिरनष्टधनस्य विपुलस्यागमं लाभं दृष्ट्वापि नाभ्यनन्दन् वाशब्द एवार्थे नाभ्यनन्दन्नेवेत्यर्थः ॥ २।४८।५ ॥

व्यगर्हयन्त राघवमप्रतिनिवर्त्य किमर्थं यूयमागता इत्येवं वाग्रूपैस्तोत्रैरङ्कुशैः ॥ २।४८।६ ॥

तेषां रामं विना आगतानां रामं राजानं विना सर्वस्यास्थिरत्वात् । किं च भगवन्तं राममादरेणापश्यन्तो ये गृहपुत्रदारसुखादिष्वासक्त्या प्रतिनिवृत्तास्तेषां

पुनःपुनः संसारप्राप्तिरेव न तु कदापि मोक्ष इत्याशर्यः तस्य मायिकरूपदर्शने ऽपि चित्तशुद्धिद्वारा मोक्षोपयोगिज्ञानाधिकारो भवति ॥ २।४८।७ ॥

सत्पुरुषो भाग्यवान्पुरुषः सीता च भाग्यवती यो वने रामं परिचरन्ननुगच्छति ॥ २।४८।८ ॥

सीतालक्ष्मणावेवेति किं वाच्यम्, अचेतना आपगादयो ऽपि सभाग्याः न तु यूयमित्याहुः आपगा इति । विगाह्य स्नात्वा ॥ २।४८।९ ॥

रम्यकाननाश्चारुवृक्षसङ्घाः अनूपो जलप्रायदेशः ॥ २।४८।१० ॥

ते शैलादयो ऽनर्चितुं न शक्ष्यन्ति अर्चितुमेव शक्ष्यन्तीत्यर्थः ॥ २।४८।११ ॥

तदेव दर्शयति विचित्रेत्यादि । विचित्रैः कुसुमैरापीडः शिरोभूषणमेषाम् वह्वीर्मञ्जरीः पुष्पस्तबकान्धर्तुं शीलमेषां छान्दसो ह्रस्वः । नगा वृक्षाः दर्शयिष्यन्ति आत्मानमिति शेषः । एवं च पुष्पाञ्जलिरूपार्चायां ते शक्ता इति भावः ॥ २।४८।१२ ॥

गिरयो दर्शयिष्यन्ति स्वगतवृक्षद्वारेति शेषः ॥ २।४८।१३,१४ ॥

पादपा रमयिष्यन्ति स्वमूलाकीर्यमाणपल्लवकुसुमरचितशय्यास्विति शेषः । यत्र रामः वसतीति शेषः ॥ २।४८।१५ ॥

भयाभावादौ हेतुः स हि शूर इत्यादि । नो ऽस्माकमदूरात्पुरा भवति “यावत्पुरा” भविष्यति लट् आसन्नो भविष्यतीत्यर्थः । अतो राघवमनुगच्छाम प्रार्थनायां लोट् ॥ २।४८।१६ ॥

पादच्छाया छायापदेनानुग्रहहेतुभूता सेवा लक्ष्यते । भर्तू रामचन्द्रस्य पादसेवैव नः परमसुखं सुखसाधनम् गतिः शरणम् परायणं शाश्वतप्रतिष्ठा ॥ २।४८।१७ ॥

वयं स्त्रियः, यूयं पुरुषाः ॥ २।४८।१८ ॥

अप्राप्तप्राप्तिर्योगः प्राप्तरक्षणं क्षेमम् ॥ २।४८।१९ ॥

अप्रतीतेनासुखेन सोत्कण्ठितजनेनोत्कण्ठितजनसहितेन अत एवामनोज्ञेन हृतचेतसा चित्तनाशकेन वासेन को नु संप्रीयेतेत्यर्थः ॥ २।४८।२० ॥

यदि चेदिति समुदायो यद्यर्थः अधर्म्यमधर्मयुक्तम्, अत एवानाथवन्नाथवद्भिन्नम् जीवितेनार्थो जीविताभिन्नो ऽर्थो ऽपि न पुत्रादिरूपस्तु सुतरां नेत्यर्थः ॥ २।४८।२१ ॥

पुत्रो रामः परिहरेत्त्यागात्परिहरेत् पुत्रभर्तृत्यागिन्या इतरत्यागः कियानिति भावः ॥ २।४८।२२ ॥

जीवन्त्याः कैकेय्या राज्ये तया भृतकाः पोषिता हि अपि जीवन्त्यो न वसेमहि न वसेम इममर्थं प्रति पुत्रैरपि शपामहे ॥ २।४८।२३ ॥

अधर्म्यामधर्मयुताम् ॥ २।४८।२४ ॥

आनालम्भमयज्ञम् । तत्र हेतुः– अनायकमिति कृते तन्निमित्तम् ॥ २।४८।२५ ॥

विलोपो नाशः ॥ २।४८।२६ ॥

ते यूयं पुरुषाः सस्त्रीका इति शेषः । आलोड्य पेषयित्वा अश्रुतिं वापि यत्र देशे कैकेय्या नामश्रवणमपि न भवति तादृशं दूरदेशं वा गच्छतेत्यर्थः ॥ २।४८।२७ ॥

मिथ्याप्रव्राजितो मिथ्यावरकल्पनया प्रव्राजितो ऽभूत् ततः कैकेयीवशगे भरते राजनि वसति सौनिके सूना पशुवधस्थानं तत्र भवे हिंसके तत्समीपे पशवो यथा निश्चितमरणास्तथा संनिबद्धाः स्मः संनिविष्टा भवामः ॥ २।४८।२८ ॥

इदानीं तद्गुणवर्णनेनात्मानमाप्याययन्ति पूर्णेत्यादि ॥ २।४८।२९ ॥

पूर्वाभिभाषी सौहार्दप्रदर्शनाय परमयापगमाय च सर्वत्र पूर्वभाषणशीलः ॥ २।४८।३०,३१ ॥

मृत्योरिव भयागमे मृत्युहेतुकभयागम इवेत्यर्थः ॥ २।४८।३२ ॥

विलपन्तीनाम् दुःखं दृष्ट्वेति शेषः । रविरस्तं जगाम तदीयदुःखदर्शनासहिष्णुतया रविरपि

शीघ्रगतिरभूदित्याशयः ॥ २।४८।३३ ॥

नष्टो होमाद्यर्थो ऽपि ज्वलनसन्तापो ज्वलन सङ्गमो यस्माम् प्रशान्ता अध्याया अध्यययनानि सत्कथाश्च यस्यां सा ॥ २।४८।३४ ॥

निराश्रया रामरूपाश्रयराहित्यात् ॥ २।४८।३५ ॥

सुतैः तृतीयार्षी सुतेभ्यो ऽपि तासां सो ऽधिको ऽभवत् ॥ २।४८।३६ ॥

वादनं वादित्रम् प्रशान्तानि गीतोत्सववादित्राणि यस्यां सा पिहित आपणानां पण्यवस्तूनामुदयः प्रसारणं यस्यां सा संक्षपितोदकः क्षीणोदकः । “संक्षुभितोदकः” इति पाठे क्षैण्यात्संक्षुभितोदक इत्यर्थः ॥ २।४८।३७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ २।४८ ॥