शोकेनोपहता अत एव निश्चेष्टाः हतचेतसो मूर्च्छिताः ॥ २।४७।१ ॥
परिद्यूनाः खिन्नाः आलोकमालोकसाधनं रथोद्धतधूल्याद्यपि ॥ २।४७।२,३ ॥
यया निद्रया “निद्रां भगवतीं विष्णोः” इत्यादिना मार्कण्डेयेन तस्या भगवन्मायारूपत्वाभिधानात् तदावरणादेव च विषयाविष्टानां भगवददर्शनं प्रसिद्धं श्रुतिशिरःसु पश्यामह इति तङार्षः । हे इति संबोधनं वा परस्परम् ॥ २।४७।४ ॥
तथा ऽवितथा ऽमोघा क्रिया यस्य स त्यक्त्वा गतः इदमनुचितं तस्येति भावः ॥ २।४७।५,६ ॥
निधनं प्रायोपवेशेन मरणम् महाप्रस्थानं मरणदीक्षापूर्वकमुत्तराभिमुखागमनम्,
तद्रहितानां जीवितं किमर्थं कस्मै फलाय हितम् न कस्मा अपीत्यर्थः अतो मरणमेव श्रेयः ॥ २।४७।७,८ ॥
रामवृत्तान्तं पृच्छन्तं जनं प्रति किं वक्ष्यामः । अस्माभी राघवो वनं नीतः प्रापित इत्युत्तरं देयमिति चेदिदं वक्तुं कथं क्षमं वक्तुमशक्यमयोग्यं चैतत् अन्यच्च न सदुत्तरमिति भावः ॥ २।४७।९११ ॥
अग्रे भवा अग्र्याः पुरोगामिन्यस्ताश्च ता गाश्चेत्यर्थः । यद्वा अग्र्या मुख्याः पुष्टत्वदुग्धवत्त्वादिगुणा गाव इवेत्यर्थः । गा इत्यार्षम् ॥ २।४७।१२ ॥
ततो मार्गानुसारेणातिसंधानप्रवर्तितमार्गानुसारेण किंचित्क्षणं किंचित्कालं गत्वा ततो मार्गनाशाद्वञ्चनया मार्गान्तरे प्रवृत्त्या रथमार्गादर्शनात् महता विषादेन समभिप्लुता व्याप्ताः ॥ २।४७।१३ ॥
किमिदं यद्रथमार्गादर्शनम् इतःपरं किं करिष्यामः अहो दैवेनोपहता वयमिति वदन्तो न्यवर्तन्तेत्यन्वयः ॥ २।४७।१४ ॥
व्यथिताः सज्जना यस्यां ताम् सत्पदेन कैकेय्या व्यावृत्तिः ॥ २।४७।१५ ॥
क्षयो हर्षक्षयस्तेन व्याकुलमानसा यद्वा क्षयं गृहं प्रति व्याकुलं गन्तव्यं न वेत्येवरूपं मानसं येषां तादृशाः आवर्तयन्तामुञ्चन् ॥ २।४७।१६१८ ॥
दुःखेन रामवियोगदुःखेनोपहताः कथं गृहं प्रवेष्टव्यमिति दुःखेन विशन्तो ऽपि नैव प्रजग्मुः स्ववेश्मपरवेश्मविवेकं नाज्ञासिषुः तथा निरीक्षमाणा अपि स्वजनपरजनविवेकं न प्राप्तवन्तः ॥ २।४७।१९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥ २।४७ ॥