सीतामुद्वीक्ष्य सौमित्रिमब्रवीदित्यनेन सीतोद्देश्यकताप्यस्य वचसो ध्वनिता ॥ २।४६।१ ॥
हे सौमित्रे वनवासस्य वनवाससंबन्धिनिशानां मध्ये ऽद्य प्रवृत्तेयं निशा वनं वनवासं प्रति पूर्वा प्रहिता प्राप्ता वनवासकालस्यैतन्निशामारभ्य गणनीयत्वात् अतस्त्वमुत्कण्ठितुमद्यप्रभृति पुरौत्सुक्येनायोद्यादिस्मरणं कर्तुं नार्हसि ॥ २।४६।२ ॥
यथायोगं स्वस्वनिलयमायद्भिरागच्छद्भिर्मृगद्विजैर्निलीनानि सशब्दमन्तर्लीनतया व्याप्तानि अत एव शून्यान्यरण्यानि रुदन्तीवास्मान्दृष्ट्वा खिन्नानीव वर्तन्ते तानि पश्य ॥ २।४६।३ ॥
सस्त्रीपुंशा स्त्रीपुंसैः सहिता अद्याद्यप्रभृति ॥ २।४६।४ ॥
कुतस्तत्राह अनुरक्ता इति । बहुभिर्गुणैरुपलक्षितान्राजादीन्मनुजा अयोध्यावासिजनाः अनुरक्तास्तद्विषयकातिस्नेहवन्तः सन्तीति शेषः ॥ २।४६।५ ॥
नावस्मदर्थे अस्मन्निमित्तमभीक्ष्णं मुहुर्मुहू रुदन्तौ पितरावन्धौ न भवेताम्, अपि भवेतामेव अतः शोचामि तौ ॥ २।४६।६ ॥
अथवा तदनुशोको ऽस्माकं वृथेत्याह भरत इति ॥ २।४६।७ ॥
अनृशंसत्वमक्रूरत्वम् ॥ २।४६।८ ॥
अद्य लक्ष्मणानुगमनेन सन्तुष्ट आह त्वयेति । मामनुव्रजता त्वया तु यत्कार्यं कर्तव्यं तत्कृतमेव हि यतस्त्वदनुव्रजनाभावे वैदेहीरक्षणार्थं सहायता सहायसमूहो ऽन्वेष्टव्यः स्यात् । त्वमेको ऽपि सहायसमूहस्थानीय इति भावः । अतस्त्वस्यै अद्यारभ्यैव सुखाहारादिकं संपादयेति शेषः ॥ २।४६।९ ॥
अहं त्वत्र तमसातीर इमां निशामद्भिरेव कृतप्राणरक्षणो वत्स्यामि प्रथमदिनत्वाद्वनवाससङ्कल्पाङ्गत्वेनेति शेषः । तदेवाह एतद्धीति । वन्ये सत्यपीत्यन्वयः ॥ २।४६।१०,११ ॥
संयम्य यथायोग्यं बन्धनं कृत्वा प्रभूतयवसान्प्रभूतघासान् प्रत्यनन्तरः प्रत्यासन्नः ॥ २।४६।१२ ॥
शयनं शयनस्थलं शर्करापांसूत्क्षेपणादिना चक्रे इत्यन्वयः ॥ २।४६।१३ ॥
वृक्षदलैर्वृक्षपर्णैः सौमित्रिणा सार्धं सूतेन कृतां शय्यां वीक्ष्य सभार्यः संविवेश ॥ २।४६।१४ ॥
गुणान्कथयामास जागरणार्थमिति भावः ॥ २।४६।१५ ॥
तां रात्रिमित्यत्यन्तसंयोगे द्वितीया । उदितो रविः अरुणोदयकालो जात इत्यर्थः ॥ २।४६।१६ ॥
गोकुलैराकुलं व्याप्तं तीरं यस्यास्तस्यास्तमसायास्तीरे विदूरतो द्विजसंवेशदेशादतिदूरदेशे ऽतिसंधाय गमनसौकर्यार्थमवसत् । प्रकृतिसाहित्यं
तमसातीरवासमात्रे बोध्यम् ॥ २।४६।१७ ॥
निशाम्यावलोक्य निद्राणा इति शेषः ॥ २।४६।१८ ॥
अस्मद्व्यपेक्षानस्मास्वेव विशेषेणापेक्षावतः अत एव गृहेषु निर्व्यपेक्षान्निरपेक्षान् श्रमात्सांप्रतमरुणोदये ऽपि सुप्तान् ॥ २।४६।१९ ॥
एते पौरा अस्मन्निवर्तने यथा नियमं यत्नं कुर्वन्ति तथा जाने अपि प्राणान्न्यसिष्यन्ति त्यक्ष्यन्ति न त्वस्मान्निवर्तननिश्चयं त्यक्ष्यन्तीत्यर्थः ॥ २।४६।२० ॥
अतः यावदिति । लघु शीघ्रम् ॥ २।४६।२१ ॥
शीघ्रगमने हेतुमाह अत इति । एवमन्तरमेते यतो मामनुरक्ता अतो भूयो ऽपि न
स्वपेयुः अतो यावन्नोत्तिष्ठन्ति तावच्छीघ्रं गच्छाम इत्याशयः ॥ २।४६।२२ ॥
तत्र हेत्वन्तरमाह पौरा हीति । आत्मकृतादात्मनिमित्तकात् आत्मनात्मनिमित्तकेन योज्याः संयोज्या ॥ २।४६।२३ ॥
आरुह्यताम् रथ इति शेषः ॥ २।४६।२४ ॥
ततः संयोजितेन तेन रथेनेत्यर्थः । शीघ्रं गच्छ रथयोजनायेति शेषः प्रभो समर्थ ॥ २।४६।२५,२६ ॥
युक्तः सज्जः ॥ २।४६।२७ ॥
परिच्छदो धनुःष्कवचादि आकुलावर्तां निबिडावर्ताम् आवर्तैराकुलामिति वा ॥ २।४६।२८ ॥
भयदर्शिनामप्यभयं मार्गं राजमार्गमित्यर्थः ॥ २।४६।२९ ॥
त्वमेव रथमास्थायोदङ्मुखः प्रयाहि मत्प्रतिनिवृत्तिबुद्ध्युत्पादनेन जनमोहनाय न तु वयम् व्रतभङ्गापत्तेः ॥ २।४६।३० ॥
तदेवाह मुहूर्तमिति । न विद्युर्वनमेव गत इति न जानीयुः ॥ २।४६।३१ ॥
तथा चक्रे उदङ्मुखतया गत्वा मार्गान्तरेण निवृत्तिपूर्वकमागत्य एवं हि रामः प्रतिनिवृत्त इति पौरभ्रमः सिध्यति महामायाधिष्ठातुर्भगवत इयत्या क्रियया पौरमोहनं नाश्चर्यायेति मन्तव्यम् । प्रत्यवेदयदारोहणार्थमज्ञापयत् ॥ २।४६।३२ ॥
संप्रयुक्तं सम्यगानीय दर्शितं समास्थितावारूढौ अभूतामिति शेषः । येन पथा मार्गेण तपोवनं प्राप्यत इति शेषः । ततस्तेन मार्गेण तुरङ्गमान्प्रचोदयामास ॥ २।४६।३३ ॥
उक्तं निगमयति तत इति । प्रयाणापेक्षितं माङ्गल्यं शुभं यन्निमित्तं शकुनं तद्दर्शनात्तदनुभवहेतोरुदङ्मुखं रथं चकार स्थापयामास । तत आरुह्य दक्षिणाभिमुखतया वनं ययौ ॥ २।४६।३४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥ २।४६ ॥