०४५ तमसातीरगमनम्

इदानीं दूरमनुगच्छत्पौरजननिवर्तनमाह अन्विति । वनवासाय प्रयान्तमित्यन्वयः ॥ २।४५।१ ॥

सुहृद्धर्मेण “यमिच्छेत्पुनरायातं नैव दूरमनुव्रजेत्” इत्युक्तिरूपेण ते ऽनुरक्ताः पौराः ॥ २।४५।२ ॥

तदनिवृत्तौ हेतुमाह अयोध्येति ॥ २।४५।३ ॥

याच्यमानः प्रतिनिवृत्तिमिति शेषः । ताभिः प्रकृतिभिरनुरक्ततमप्रजाभिः सत्यं सत्यवन्तम् ॥ २।४५।४ ॥

स्वाः प्रजा इव स्वपुत्रानिव ॥ २।४५।५ ॥

अयोध्यानिवासिनाम् युष्माकमिति शेषः ॥ २।४५।६ ॥

प्रियाण्यैहलौकिकसुखजनकानि हितानि परलोकसुखजनकानि ॥ २।४५।७ ॥

वयसा बालोपि ज्ञानवृद्धः वीर्यगुणान्वितो ऽपि मृदुः ॥ २।४५।८ ॥

समीक्षितो राज्ञा निश्चितः मया शिष्टैः मत्तो ऽधिकैरिति यावत्, ईदृशै राजगुणैर्युक्तः हि यतः अपि चाप्यस्मादपि हेतोः भरते प्रीतिर्विधीयतां यतो वो युष्माकं भर्तृशासनं राजाज्ञा कार्यावश्यकार्या भवति ॥ २।४५।९ ॥

तथा कार्यो ऽनुकूलाचरणेन सदा समावासनीयः ॥ २।४५।१० ॥

धर्मं राजवाक्यपरिपालनरूपम् अकामयंश्चित्ते स्वीकृतवन्तः अत्यन्तधर्मशालित्वात् ॥ २।४५।११ ॥

बाष्पेण पिहितं पिहितनेत्रं रज्जुरूपैः स्वगुणैर्बद्धं पुरनिवासिनं सोमित्रिसहितो रामश्चकर्षेव उत्प्रेक्षालङ्कारः गुणैरित्यंशे शोकः ॥ २।४५।१२ ॥

ओजसा तपोबलेन एवं त्रिविधं यथा तथा वृद्धास्तेषां मध्ये वयःप्रकम्पशिरसो

वयस आधिक्यात्कम्पयुक्तशिरसो ऽतिवृद्धत्वादनुधावनाशक्त्या दूरादिदमूचुः । क्वचित्तु “प्रभुग्नशिरसः”

इति पाठः ॥ २।४५।१३ ॥

किमूचुस्तदाह वहन्त इति । रथेन प्रापयन्त इत्यर्थः जात्या उत्तमजातीयाः भर्तरि रामविषये हिता भवत वनं मा नयतेति यावत् । ब्राह्मणयाच्ञामतिक्रम्य युष्मद्गमनं भर्तुरहितमिति भावः ॥ २।४५।१४ ॥

विशेषेण यूयं कर्णवन्त इत्यनुकर्षतस्तस्माद्बधिरवन्न गन्तव्यम्, अपि तु याचनामस्मदीयां प्रतिवेदिता ज्ञातवन्तो निवर्तध्वम् ॥ २।४५।१५ ॥

उपवाह्यः पुरसमीपं प्रापणीयः वो युष्माकम्, न तु पुरादपनीय वनं वाह्यः प्रापणीयः ॥ २।४५।१६ ॥

आर्तप्रलापानार्तवाक्यानि प्रलपतः कथयतः ॥ २।४५।१७ ॥

द्विजानां सङ्गमार्थं संनिकृष्टपदन्यासो भूत्वा वनपरायण एव शनैर्जगाम । नतु निवृत्तो नापि स्थितः रथेन गमने ब्राह्मणक्लेशेन दोषः प्रतिनिवृत्य ब्राह्मणाश्वासने व्रतभङ्गो भवतीति धिया पद्भ्यां मन्दगमनो ऽभूत् यावद्वृद्धसंनिधानमिति भावः ॥ २।४५।१८ ॥

रथेन परिमोक्तुं न शशाक अत्यन्तं रथवेगालम्बनेन निवर्तयितुं न शशाकेत्यर्थः । तत्र घृणाचक्षुष्ट्वं हेतुः घृणा दया तत्सूचकचक्षुष्मानित्यर्थः ॥ २।४५।१९ ॥

गच्छन्तमेव स्वप्रार्थनानन्तरमपि न स्थितं नापि निवृत्तमित्यर्थः ॥ २।४५।२० ॥

ब्राह्मण्यं ब्राह्मणसमूहः ब्रह्मण्यं ब्रह्महितम् द्विजस्कन्धाधिरूढाः पात्रारणिद्वारेणेति शेषः ॥ २।४५।२१ ॥

वाजपेयसमुत्थानि वाजपेययाजिनो राजवच्छत्रादिसंबन्धस्य श्रुतावुक्तेः मेघानिव जलात्यये शारदमेघवत्पाण्डुराणिच्छत्राणीत्यर्थः ॥ २।४५।२२ ॥

अनवाप्तातपत्रस्याप्राप्तस्वेतच्छत्रस्य वाजपेयकैर्वाजपेययागप्राप्तैः ॥ २।४५।२३ ॥

वेदमन्त्रानुसारिणि तदभ्यासानुसरणशीला त्वत्कृते त्वन्निमित्तं वनवासानुसारिणी वेदाभ्यासादि परित्यज्य वनवासोन्मुखीकृतेत्यर्थः ॥ २।४५।२४ ॥

अस्माकं त्वया सह वनानुगमने न काप्यनुपपत्तिरित्याहुः हृदयेष्विति । ये नो ऽस्माकं परं धनं वेदाः ते ऽस्माकं हृदय एवावतिष्ठन्ते चारित्रं पातिव्रत्यम् ॥ २।४५।२५ ॥

पुनरिति । यद्यपि त्वद्गतौ त्वदनुगमने ऽस्माकं मतिः सुकृता निश्चिता अतः पुनर्वनगमननिश्चयो ऽस्माकं न कार्यो ऽस्ति कृतत्वादेव तथापि किंचिद्ब्रूम इति शेषः । त्वयि धर्मव्यपेक्षे ब्राह्मणवचनरूपधर्मनिरपेक्षे सति किंभूतं धर्मपथे स्थितं स्यात्, न किमपि सर्वे धर्ममार्गं व्यतिक्रमेषुः ॥ २।४५।२६ ॥

तस्मादस्माभिर्हंसशुक्लशिरोरुहैः पलितकेशैः शिरोभिः साष्टाङ्गप्रणामेन महीपतनपांसुलैर्महीपतनेन पांसुलै रजोव्याप्तैर्देहैश्च याचितस्त्वं निभृताचार निश्चलधर्मानुष्ठान निवर्तस्व । अत्र ब्राह्मणैर्नमस्कारः क्षत्रियस्य कथमिति न शङ्क्यं तत्त्वज्ञतया भगवदवतारत्वदृष्ट्या नमस्कारेणादोषात्, यद्वा राज्ञो विष्ण्वंशत्वेन न तौ न दोष इत्याहुः ॥ २।४५।२७ ॥

एवमपि गच्छन्तमेव दृष्ट्वाहुः बहूनामिति । ये द्विजा इहागतास्तेषां बहूनां यज्ञा इह काले वितताः सन्ति तेषां समाप्तिस्त्वन्निवर्तनायत्ता अनिवृत्तौ सर्वयज्ञविघ्नकर्तृत्वं त्वय्योपत्स्यतीति भावः ॥ २।४५।२८ ॥

न केवलमस्मत्प्रार्थनैव अपि तु सर्वभूतप्रार्थनापीत्याहुः भक्तीति । जङ्गमाजङ्गमानि सर्वाण्यपि भूतानि भक्तिमन्ति स्नेहवन्ति तेषु त्वन्निवृत्तिं याचमानेषु भक्तेषु त्वमपि भक्तिं स्नेहं प्रदर्शय

निवृत्त्येति शेषः ॥ २।४५।२९ ॥

तेषां याच्ञाप्रकारमाह मूलैः स्थावरत्वादुदत्यन्तं हतवेगा अतस्त्वामनुगन्तुमशक्ता उन्नता उच्छ्रिताः पादपा वायुवेगेन वायुवेगजशाखाचलनशब्दैर्विक्रोशन्तीव त्वन्निवर्तनायेति शेषः ॥ २।४५।३० ॥

चेष्टा गात्रचलनादिरूपा आहारार्थसञ्चारश्च तेभ्यो निर्गतास्तद्रहिताः वृक्षरूपैकस्थान एव निश्चिता निश्चयेन स्थिताः, न त्वाहारायापि भुवमवतीर्णाः एवं मरणपर्यन्तव्यापारेण त्वां याचन्ते निवृत्तिमिति शेषः ॥ २।४५।३१ ॥

निवर्तने निवर्तननिमित्तं विक्रोशतां तेषामनुग्रहाय मार्गे तिर्यक्प्रवाहत्वाद्राघवं वारयन्तीव तमसा ददृशे दृष्टा ॥ २।४५।३२ ॥

संपरिवर्त्यं श्रमापनुत्तये कृतविलुण्ठनान्विधाय तोयपरिप्लुताङ्गान्स्नापितांस्तमसाया अविदूरे ऽचारयद्भक्षिततृणानकारयत् ॥ २।४५।३३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥ २।४५ ॥