एवं दुःखितां कौसल्यां सुमित्रा समाश्वासयतीत्याह विलपन्तीमिति । इदं वाक्यमित्यन्वयः ॥ २।४४।१ ॥
कृपणं यथा तथा रुदितेन वा किम् अयुक्तमेवेत्यर्थः । तत्र हेतुः सद्गुणैर्युक्त इति तादृशस्य च न क्वाप्यपाय इति भावः । पुरुषोत्तम इत्यनेन तस्येश्वरत्वं व्यङ्ग्यम् । एवं च सर्वव्यापकत्वेनात्रापि संनिधानाद्विलापादि व्यर्थमिति च व्यङ्ग्यम् ॥ २।४४।२ ॥
तदेवाह य इति । श्लोकद्वयमेकं वाक्यम् साधु सिद्धसङ्कल्पं कुर्वन्गतः वनमिति शेषः । सत्यवादिनं तत्त्वेन प्रसिद्धम् ॥ २।४४।३ ॥
शश्वत्सर्वथा नित्यं प्रेत्य फलस्यामुष्मिकसुखस्योदयो यस्मात्तत्र धर्मे स्थितः अतो न शोच्यः ॥ २।४४।४ ॥
सुसहायसंपत्तेश्च न शोच्य इत्याह वर्तते चेति । उत्तमां वृत्तिं पितृतुल्यशुश्रूषाव्यापारं वर्तते वर्तयते करोतीति यावत् लाभः सुखमेव ॥ २।४४।५ ॥
एवं वैदेह्यप्यनुगच्छति तेन लाभ एव तस्य अनेन सर्वभूतदयावत्त्वेन लक्ष्मणस्य
सर्वभूताधारभूधारकशेषावतारत्वं धर्मानुगत्या च जानक्याः श्रीत्वं ध्वनितं तेन रामस्य भगवत्त्वं ध्वनितम् ॥ २।४४।६ ॥
तदेवाह कीर्तीति । यः कीर्त्यात्मना संभूतां पताकां ध्वजं लोके त्रैलोक्ये ऽपि भ्रामयति प्रवर्तयति प्रभुः सर्वभूतपालको दयया स तवात्मजः साक्षाद्धर्मस्तद्रूपो यतः सत्यव्रतपरः अतः किं न प्राप्तः किं तच्छ्रेयो यन्न प्राप्तः अनेन तदेव व्यङ्ग्यं दृढीकृतम् सर्वश्रेयःस्थानत्वस्य भगवदतिरिक्ते ऽभावात् ॥ २।४४।७ ॥
एतदेव ध्वनयन्ती सकलदेवसेव्यत्वं तस्याह व्यक्तमिति । शौचमपहतपाप्मत्वादिलक्षणं माहात्म्यं सर्वनियन्तृत्वम् “यद्भीषोदेति सूर्यः” इति श्रुतेः ॥ २।४४।८ ॥
युक्तशीतोष्णो ऽत एव सुखः सुखस्पर्श इत्यर्थः ॥ २।४४।९ ॥
चन्द्रमाश्चन्द्रः ह्लादयिष्यति सुखयिष्यति ॥ २।४४।१० ॥
ब्रह्मा ब्राह्मणो विश्वामित्रः ब्रह्मेव सृष्टिकर्ता वा तिमिध्वजः शम्बरस्तत्सुतः सुबाहुरित्यर्थ इति कतककृतः । तीर्थस्तु कदाचिद्रामो वैजयन्तं नगरं निरुध्य तत्रत्यतिमिध्वजाख्यशम्बरपुत्रस्य दानवस्य पुत्रं हतवान् तेन प्रीतो ब्रह्मा रामाय दिव्यास्त्राणि ददावित्येतद्बलात्कल्पयति । कतकोक्तं तु न युक्तं ताटकावधोत्तरं सुबाहुवधात्प्रागेव विश्वामित्रेणास्त्रोपदेशस्य प्रागुक्तत्वात्, सुबाहोर्मारीचभ्रातृत्वस्य पूर्वमुक्तत्वेन शम्बरपुत्रत्वानौचित्याच्च ॥ २।४४।११,१२ ॥
तस्य शासने पृथिवी तत्स्थाः प्राणिनः कथं न शासने स्थास्यन्ति अतस्तस्य कुतो ऽपि न भयमिति भावः ॥ २।४४।१३ ॥
या यादृशी श्रीः शरीरशोभा यादृशं च शौर्यं यादृशी च कल्याणसत्त्वता दृश्यते तया ज्ञायते निवृत्तवनवासः क्षिप्रमेव स्वं राज्यं प्राप्स्यति ॥ २।४४।१४ ॥
इदानीं साक्षादेव सर्वान्तर्यामित्वं रामस्य दर्शयति सूर्यस्यापीति । सर्वस्यापि स्वस्वकार्यजनकत्वमेतदधीनमेवेति भावः क्षमाक्षमेति षष्ठीतत्पुरुषः ॥ २।४४।१५ ॥
अगुणाः दोषजनका इत्यर्थः ॥ २।४४।१६ ॥
राम एताभिस्तिसृभिः सहाभिषेक्ष्यते वसिष्ठादिभिरिति शेषः श्रिया विजयलक्ष्म्या ॥ २।४४।१७ ॥
कालान्तरे ऽपि राज्यार्हतां जनानुरागप्रदर्शनेनाह दुःखजमिति । यतो ऽयोध्यायां विद्यमानः सर्वो
जनो ऽयं निष्क्रामन्तमुदीक्ष्य दुःखजमश्रु विसृजति, अतस्तस्य राज्यमवश्यं भावीति शेषः ॥ २।४४।१८ ॥
अथ तस्य वने विषयसुखं नास्तीति शोचन्तीमाह कुशचीरादिधरमपि यं लक्ष्मीरिव सीतानुगता तस्य किं दुर्लभम् । इवशब्द एवार्थे । सीतारूपेण लक्ष्मीरेवैषेति भावः । एतेन स विष्णुरेवेति ध्वनितम् ॥ २।४४।१९ ॥
धनुर्ग्रहाणां वरः श्रेष्ठः पुरुषोत्तमत्वं विना न लक्ष्मणो ऽग्रेसरः स्यादिति भावः ॥ २।४४।२० ॥
द्रष्टासि लुट् ॥ २।४४।२१२३ ॥
रामे रामविषये शोकः प्रलापादिदुःखं व्यथा मास्तु यतस्तस्मिन्नशिवमशुभं न दृश्यते ॥ २।४४।२४ ॥
हे अनघे यस्मात्त्वयाशेषो ऽयं जनस्त्वत्परिवाररूपत्वात्त्वया समाश्वास्यः अतो देवि त्वं हृदि विक्लवं दुःखं किं करोषि ॥ २।४४।२५,२६ ॥
मेघरेखा मेघपङ्क्तिः ॥ २।४४।२७,२८ ॥
अभिवाद्य चरणौ स्पृष्ट्वा प्रोक्षसे “उक्षसेचने” । वर्तमानसामीप्ये लट् ॥ २।४४।२९ ॥
वाक्योपचारे वाक्यरचनायाम् । रामा रमणीया ॥ २।४४।३०,३१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥ २।४४ ॥