सन्नं खिन्नम् ॥ २।४३।१ ॥
अहिजिह्मगा सर्पवत्कुटिलगतिः कुटिलचरित्रा । “जिह्मताम्” इति पाठे जिह्मतां कौटिल्यरूपं विषं मुक्त्वेत्यर्थः निर्मुक्ता त्यक्तकञ्चुका ॥ २।४३।२,३ ॥
भवतु भरतराज्यवरणम्, अथापीहैव नगरे रामो भैक्षं चरन्गृहे वसेदिति यद्यनया वृतं स्यात्तं वरं दातुं ममापि कामकार इष्टाचरणम् अप्यात्मजं राममस्या दासमपि दातुं वरं मम कामकार इष्टमेव तद्वियोगशोकाभावात् एवं चैवं वरयाचनं ममातित्रासनार्थमेवेति व्यङ्ग्यम् ॥ २।४३।४ ॥
कैकेय्या कर्त्र्या रामं स्थानात्स्वस्थानाद्यथेष्ठतः स्वेच्छानुसारेण पातयित्वा प्रभ्रश्य पर्वण्याहिताग्निना रक्षसां भागस्तुषादिरूपो विप्रविद्धः प्रक्षिप्तः इतःपरं तद्दर्शनमसंभावितं रक्षोभिर्नाशादिति व्यङ्ग्यम् ॥ २।४३।५,६ ॥
कैकेय्यनुमते स्थितेनेति शेषः कान्यावस्था रक्षोभक्षणातिरिक्ता, न कापि जीवनं सर्वथा न संभावितमिति भावः ॥ २।४३।७ ॥
रत्नहीना उत्तमवस्तुहीनाः तरुणौ च तरुणी च तरुणाः फलकाले युवावस्थत्वेन राज्यभोगकाले ॥ २।४३।८ ॥
शोकक्षयः शोकस्य क्षयो यस्मिन्स अपीदानीं स्यात् इदानीमेव स्यात्स काल
इत्यर्थः । अपीदानीमिति लोकोक्तौ वा ॥ २।४३।९११ ॥
गोरूपां वधूम् ॥ २।४३।१२,१३ ॥
उदग्रायुधनिस्त्रिंशौ आयुधं धनुरादि निस्त्रिंशः खड्गः ॥ २।४३।१४ ॥
कन्याद्विजातीनामिति द्वन्द्वः तत्र कन्यानां सुमनसः पुष्पाणि द्विजानां फलानि च प्रदिशन्तः प्रगृह्णन्तो हृष्टा भूत्वा सकलपौरजनोत्सवाय कदा पुरूं प्रदक्षिणं करिष्यन्ति ॥ २।४३।१५ ॥
बुद्ध्या परिणतो ज्ञानेन वृद्धः वयसा चामरप्रभस्तरुणतर इव देवानां सदा तरुणत्वात् सुवर्ष इव कालिकः कालिकसुवृष्टिरिव जनाँल्लालयन् । “त्रिवर्ष इव लालयन्” इति पाठे मामिति शेषः । “मां ललन्” इति पाठे प्रतिक्रीडां कुर्वन्नित्यर्थः ॥ २।४३।१६ ॥
कदर्यया क्षुद्राचारया पातुं कामो येषां तेषु पातुकामेषु शातिताः कृत्ताः ॥ २।४३।१७ ॥
वत्सला पुत्रवत्सला सिंहेन गौरिव त्वया विवत्सा कृता उक्तपातकेनेति शेषः । एवं कैकेय्या सिंह्या बालवत्सा गौरिव बलाद्विवत्सा कृता ॥ २।४३।१८ ॥
अतः नहीति । गुणैः सर्वकल्याणगुणैः ॥ २।४३।१९ ॥
कल्प्यते दैवेनेति शेषः । “कल्पते” इति पाठे विद्यत इत्यर्थः ॥ २।४३।२० ॥
दीपयते सन्तापयति ॥ २।४३।२१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे त्रिचत्वारिंशः सर्गः ॥ २।४३ ॥