०४२ दशरथविलापः

निर्यतस्तस्य रामस्य संबन्धि रजसो रूप रथ्याधूलेः स्वरूपं यावत्तेनादृश्यत तावदात्मनश्चक्षुषी न सञ्जहार इदं रामरथोद्धतं रज इति प्रित्या तत्पश्यन्नेवासीदिति भावः ॥ २।४२।१ ॥

यावत्प्रियं पुत्रं राजा पश्यति रथधूलिदर्शनद्वारेति शेषः । तावत्पुत्रदर्शने तन्निमित्तं धरण्यां स्थितो ऽस्य देहो व्यवर्धतेव उत्थाय स्थित एवाभूदित्यर्थः ॥ २।४२।२ ॥

रजसो ऽप्यदर्शने तच्छरीरं पतितमभूदित्याह नेति । रामस्य रजः रामरथोद्धतं रज इत्यर्थः ॥ २।४२।३ ॥

तस्येति । पतितमुत्थाप्य तस्य दक्षिणं बाहुं धृत्वा कौसल्यान्वगात्स्वपुरं प्रति गम्यमानमन्वगात्सहैव ससार कैकेयी त्वस्य वामं पार्श्वमेव केवलमन्वगात् तथात्वं च राज्ञो ऽस्यां परमवैरस्यात् ॥ २।४२।४ ॥

तदेवाह तामिति ॥ २।४२।५ ॥

न च बान्धवी बन्धूनां स्नेहपात्रदास्यादिरूपापि नेत्यर्थः अण्णन्तत्वान्ङीप् ॥ २।४२।६,७ ॥

न केवलमैहिकव्यवहारस्य त्यागः किंतु पारलौकिकस्यापीत्याह अगृह्णामिति । यच्च ते पाणिं पर्यगृह्णाम्, यच्च त्वामग्निं पर्यणयं प्रदक्षिणमनयम्, अग्निहोत्रसंबन्धं वा कार्यम् तत्सर्वमस्मिंल्लोके पाणिग्रहणसाध्यक्रीडादि परलोके ऽग्निहोत्रादिसाध्यस्वर्गादि चानुजानामि त्यजामि ॥ २।४२।८ ॥

ननु मम त्यागे ऽपि मत्पुत्रादेः कथं त्यागः “ये च त्वामनुजीवन्ति” इत्यादिनोक्तस्तत्राह भरत इति । यदि त्वया प्रापितं राज्यं प्राप्य भरतः प्रतीतः स्यात्तुष्टः स्यात्, तर्हि मे मरणानन्तरं स भरतः पित्रर्थं पितृत्वप्रयुक्तश्राद्धार्थं यद्दद्यात्तत्तद्दत्तं मां मा गमत् मा प्राप्नोत्वित्यर्थः । अन्यथा तु तं न त्यजामीत्यर्थः । कतकस्तु “अनुजानामि” इत्यादिसार्धश्लोक एकं वाक्यं तत्पूर्वार्धे त्यजामीत्यस्यानुकर्षः । तत्तृतीयार्धे “यन्मे स दद्यात्पित्रर्थं मामतद्दत्तमागमत्” इति पाठः । स दद्यादिति चावर्तते भरतस्त्वया प्रापितं राज्यं प्राप्य प्रतीतो

विवेकवान्सन्यत्प्राप्तं राज्यं तत्स पित्रर्थं पितुर्मम प्रीतिसंपादनाय यदि दद्यात्त्यजेत्, मां चातद्दत्तं न कृतं तस्मै दत्तं दानं राज्यस्य येन तादृशं मां प्रीत्या पूर्ववदागमत्प्राप्नुयाच्चेत्, तदा यत्स मे

दद्यादस्मिंल्लोके विहारशय्याभोजनादि परत्र च परलोके पिण्डदानादि तत्सर्वमनुजानाम्यङ्गीकरोमि अन्यथा तं त्यजाम्येवेत्यर्थ इत्याह ॥ २।४२।९ ॥

रेणुसमुध्वस्तं भुवि लुण्ठनाद्रजोव्याप्तं न्यवर्तत राज्ञा सहेति शेषः ॥ २।४२।१० ॥

यथा पाणिनाग्निं स्पृष्ट्वा स्वकर्तृकदोषेण तत्पीडयानुतप्तो भवति तथा स्वकृतमेतद्दुःखमित्यनुतापः ॥ २।४२।११ ॥

निवृत्त्य पुनःपुनरित्यर्थः । रथवर्त्मसु सीदतो रथमार्गदर्शने क्लिश्यतः ग्रस्तस्य राहुणा ॥ २।४२।१२ ॥

आत्मानं नगरान्तं नगरसमीपं प्राप्तं बुद्ध्वा पुत्रं चाप्राप्तं बुद्ध्वाब्रवीदिति कतकः, यद्वा पुत्रं नगरान्तं नगरबाह्यं देशं प्राप्तं मत्वेत्यर्थः ॥ २।४२।१३,१४ ॥

महार्हाभिरुत्तमरूपालङ्कारवतीभिः ॥ २।४२।१५ ॥

क्वचिन्नदीतीरादौ अश्मा पाषाणः ॥ २।४२।१६ ॥

बन्दिस्तुत्यादिराहित्येन कृपण इव प्रस्रवणाद्गिरिप्रस्थादिप्रदेशात् ॥ २।४२।१७,१८ ॥

सुखसदोचिता सुखस्य सदा उचिता तादृश्यपि कण्टकेष्वाक्रमणेन पादविक्षेपेण क्लान्ता पीडिता ॥ २।४२।१९ ॥

श्वापदानां व्याघ्रादीनामासमन्तान्नर्दितम् ॥ २।४२।२० ॥

सकामा भवेति वक्रोक्त्यानपकारिणां दुःखदानात्ते कामपूर्तिर्न कदापीति भावः । विधवात्वे हेतुः नहीत्यादि ॥ २।४२।२१ ॥

अपस्नातो मृतस्नानस्नातः अरिष्टं कश्मलमयम् ॥ २।४२।२२ ॥

तदेवाह शून्येति । शून्या निर्मनुष्याश्चत्वरा गृहप्रान्तभागा वेश्मान्ता वेश्ममध्यभागाश्च यस्यां सर्वजनानां रामपृष्टे गतत्वात् । संवृतापणवेदिकां

संवृता आवृताः पण्यस्थापनवेदिका यस्यां सा । “देवताम्” इति पाठे पिहितापयणदेवतागृहामित्यर्थः । क्लान्ता गन्तुमशक्ताः अत एव दुर्बला दुःखार्ता रामवियोगपीडार्तां यस्यां नात्याकीर्णो ऽत्यन्तसंमर्धरहितो महापथो यस्यां ताम् ॥ २।४२।२३,२४ ॥

सुपर्णेन हृतोरगं महाहृदमिवेति रिपूणां निर्भयप्रवेशद्योतकम् ॥ २।४२।२५ ॥

मृदु मन्दोच्चारणात् । अत एव मन्दार्थमबुद्धार्थं दीनं शोच्यम् अस्वरं शुद्धकण्ठध्वनिरहितम् ॥ २।४२।२६ ॥

नयन्तु ये केचिदत्र मनुष्या इति शेषः । अन्यत्र स्त्र्यन्तर्गृहे आश्वासः खेदापगमः ॥ २।४२।२७ ॥

द्वारदर्शिनो वेत्रिणः कौसल्याया गृहमनयन् तत्र गृहे तैर्विनीतवत्पर्यङ्के न्यवेश्यत राजेति शेषः ॥ २।४२।२८ ॥

कौसल्याया निवेशनं प्रविष्टस्य स्वापस्थानभूतं शयनं मञ्चमारुह्यापि लुलितं कलुषं बभूव ॥ २।४२।२९,३० ॥

नौ आवां मातापितरावित्यर्थः ॥ २।४२।३१ ॥

ये बत तं कालं तावत्कालं रामपरावृत्तिकालर्यन्तं जीविष्यन्ति पुनरागतं रामं परिष्वजन्तो रामं द्रक्ष्यन्ति ते सुखिता नरोत्तमाश्च तेन स्वस्याधमत्वादि व्यङ्ग्यम् ॥ २।४२।३२ ॥

अथ कौसल्यागृहप्रवेशानन्तरमात्मनः कालरात्र्यामिव संहाररात्र्यामिव रात्र्यां प्रपन्नायां मध्यं

प्राप्तयाम् ॥ २।४२।३३ ॥

मा स्पृश स्वसत्ताज्ञापनार्थमिति भावः । कौसल्यादर्शने हेतुमाह राममिति । काव्यलिङ्गमत्रालङ्कारः दृष्टेर्दर्शनशक्ते रामविषये समनस्काया विलीनत्वात्पदार्थान्तरं न स्फुरतीति व्यङ्ग्यं परं गूणीभूतम् ॥ २।४२।३४ ॥

विनिःश्वसन्तं राजानमुपोपविश्य शयनसमीप उपविश्य ॥ २।४२।३५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥ २।४२ ॥