०४१ प्रजाशोकवर्णनम्

इदानीं तत्प्रयाणनिमित्तः सर्वप्रजाशोक उच्यते तस्मिन्निति । मातृवेष्टितपित्रुद्देशेन कृताञ्जलौ निष्कामति नगरान्निर्गच्छति सति ॥ २।४१।१ ॥

तदेवाह अनाथस्येति । तपस्विनः शोच्यस्य गतिः सकलसुखावाप्तिहेतुः शरणं सर्वापद्भ्यो रक्षिता ॥ २।४१।२ ॥

अभिशस्तो मिथ्याभिशंसनं प्रापितः क्रोधनीयानि प्रजाक्रोधकराणि ॥ २।४१।३,४ ॥

वनं गन्तुमिति शेषः । अस्य जनस्येत्युक्त्वा किं विशिष्य कथनेन सर्वस्य जगतः परिव्रातेति भगवत्स्वरूपज्ञायाः कस्याश्चिद्वचः ॥ २।४१।५ ॥

संक्षयमाधारत्वेन गृहभूतं वनवासे तन्निमित्तम् । प्रवत्स्यति प्रवासयति ॥ २।४१।६८ ॥

नाहूयन्ताग्निहोत्रिभिः रामदुःखादिति शेषः । अन्तरधीयत रामव्यसनात्तद्वंश्यतया दिवसशेषे सत्यप्यन्तर्हितो ऽभूत् अकाले दुर्दिनमभूदिति भावः । व्यसृजंस्त्यक्तवन्तः नागा गजाः न पाययन्नापाययन् अडभाव आर्षः । दुर्दिनाद्युत्पाता राज्ञो रावणस्य च नाशसूचका इति बोध्यम् ॥ २।४१।९ ॥

त्रिशङ्कुर्दक्षिणदिक्स्थः लोहिताङ्गो भौमः गुरुबुधौ अन्ये सर्वे ग्रहाः शनिशुक्रादयः सोममभ्येत्य रात्रौ वक्रगत्या चन्द्रं प्राप्य दारुणाः क्रूरार्चिषः सन्तो व्यवस्थिताः ॥ २।४१।१० ॥

गतार्चीषि त्यक्तस्वाभाविककान्तीनि ग्रहा शन्यादयः विशाखा विमार्गस्थाः सधूमाश्च नभसि

दृश्यन्ते ॥ २।४१।११ ॥

कालिका मेघपङ्क्तिरनिलवेगेनाकाश उत्थित उदधिरिव दृश्यते नगरं प्रचचालेत्यनेन भूकम्पः ॥ २।४१।१२,१३ ॥

अकस्माद्दैन्यहेतुकारणाभावे ऽपि दैन्यं रामवियोगदैन्यादधिकं दैन्यम् ॥ २।४१।१४ ॥

शोकेन रामवियोगजेन पर्यायसन्तप्तः पुनः पुनः सन्तप्तः प्रतिज्ञापालनरूपधर्मवत्यपि कोप उत्पातः ॥ २।४१।१५ ॥

पूर्वं तु केषांचित्तत्वज्ञानां हर्ष आसीत्, संप्रति तु सर्वो ऽप्यहृष्टः ॥ २।४१।१६,१७ ॥

सुता अनर्थिनो ऽनपेक्षिणः मातापित्रोरिति शेषः स्त्रीणां भर्तारो ऽनर्थिनः भ्रातरः

भ्रातृ़णामनर्थिनः इति शेषः । राममेवान्वचिन्तयन् तद्ध्यानेन सर्वो जनः सर्वत्र विरक्तो ऽभूदित्याशयः ॥ २।४१।१८,१९ ॥

पुरंदरेण रहिता सपर्वता समेरुर्यथा मही चलति तस्य त्रिलोकीपतित्वात् तथा

रामेण रहितायोध्या चचाल । रक्षकाभावात् ननाद च दुःखाच्चक्रन्देत्यर्थः ॥ २।४१।२० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥ २।४१ ॥