०४० जनाक्रोशः

उपसङ्गृह्य पादपतनपूर्वकं प्रणम्य दीना मातापित्रोः शोकदर्शनाद्दीना इव ॥ २।४०।१ ॥

समनुज्ञाप्य कृतानुमतिकं कृत्वा शोकसंमूढो मातृदुःखदर्शनात्स इव ॥ २।४०।२ ॥

अन्वक्षमनुपदं रामेण कौसल्यावन्दनानन्तरं भ्रातुः जननीमिति शेषः । कौसल्यामभ्यवादयत् पुनः कौसल्यावन्दनानन्तरं मातुः सुमित्राया अपिनान्यासां च ॥ २।४०।३,४ ॥

अत्रत्यसुहृज्जने स्वनुरक्तो ऽपि त्वं मया वनवासाय सृष्टो ऽनुमतः वनं गच्छति भ्रातरि रामे प्रमादमनवधानं मा कार्षीः भ्रातरीत्यनेन सोदरवदेवायं द्रष्टव्य इति सूचितम् ॥ २।४०।५ ॥

कनीयसो ज्येष्ठानुवर्तनं परमो धर्म इत्याह व्यसनी वेति । राज्याभावेन ॥ २।४०।६ ॥

इदं ज्येष्ठानुवर्तनरूपं धर्मान्तरमपि क्षत्रोचितमाह दानमित्यादि । मृधेषु युद्धेषु तनुत्यागस्तनावनास्थापूर्वकं युद्धकरणम् ॥ २।४०।७ ॥

असावेवं स्वपुत्रं लक्ष्मणमुक्त्वा संसिद्धं वनं गन्तुं निश्चितमनस्कं प्रियराघवं प्रियरूपं राघवं गच्छ गच्छेति पुनः पुनरुवाच शकुनसंपत्तय इति

भावः तं लक्ष्मणं पुनरुवाचेत्यनुकर्षः ॥ २।४०।८ ॥

तद्वचनमाह राममिति । एवं च पितृमातृनगरस्मरणेन मनश्चाञ्चल्यं मा कुर्विति ध्वनितम् । रामस्य पितृवत्सेव्यत्वं सीतायां मातृवद्भावकरणमटव्या अयोध्यावत्पाल्यत्वं तेन तत्रत्यजन्तूनामनुद्वेगकरणं च ध्वनितम् ॥ २।४०।९।१० ॥

यत्र यद्देशप्रापणे मां वक्ष्यसे नियोजयसि तं देशं क्षिप्रं प्रापयिष्यामि नेह रजन्यां वस्तव्यमिति शेषः ॥ २।४०।११ ॥

कुतस्तत्राह चतुर्दशेति । यानि चतुर्दश वर्षाणि वने वस्तव्यानि तान्यद्यैवोपक्रमितव्यान्यारम्भणीयानि यतो देव्या कैकेय्याद्यैव वनं गच्छेति प्रेरितो ऽसि ॥ २।४०।१२ ॥

हृष्टेन चेतसेत्यनेन “अङ्गिरा मन उत्साहम्” इत्युक्तो मुख्यः शकुनो ध्वनितः ॥ २।४०।१३ ॥

अलङ्कारकरणोपायमुक्तं स्मरयति– वनवासं हीति । यानि ददौ तानि रथोपस्थे विन्यस्येत्यन्वयः अग्रिमश्लोके तथैवेतिपदस्वरसात् ॥ २।४०।१४ ॥

भातृभ्यां भ्रात्रोरित्यर्थः सचर्म चर्मपिनद्धं पेटकं कठिनं खनित्रं प्रविन्यस्य स्थापयित्वा ॥

२।४०।१५ ॥

अथो अनन्तरमारुरुहतुः ॥ २।४०।१६ ॥

संमतान्संमतसर्वलक्षणान् ॥ २।४०।१७ ॥

चिररात्रायेत्यव्ययं चिरकालावस्थित्यर्थमित्यर्थः । नगरे विद्यमानस्य सर्वमनुष्यस्य बलस्याश्वगजादेर्मूर्च्छा जनस्य तिर्यग्जन्तुरूपस्य च मूर्च्छा बभूवेत्यर्थः ॥ २।४०।१८ ॥

तदेव प्रपञ्चयति तदिति । समाकुलमिति कर्तव्यतामूढं च तत्संभ्रान्तं रामानुगमनाय त्वरायुक्तं मत्ता रामवियोगेन सङ्कुपिता द्विपा यस्मिन्, हयानां दुःखेन सिञ्जितानां शब्दवतां पर्याकुलप्राणिभूषणानां विर्घोषो यस्मिन् ॥ २।४०।१९ ॥

परमपीडिता रामवियोगदुःखेनेति शेषः ॥ २।४०।२० ॥

तं सुमन्त्रम् ॥ २।४०।२१,२२ ॥

देवगर्भप्रतिमे स्कन्दतुल्ये, यद्वा देवगर्भो देवनिधिर्हिरण्यगर्भस्तत्प्रतिमे याति गच्छति सति ॥ २।४०।२३ ॥

मेरुमित्यादि । नित्यं तत्प्रदक्षिणसञ्चारात् ॥ २।४०।२४ ॥

यस्त्वं भ्रातरं परिचरिष्यसि स त्वं सिद्धार्थः कृतार्थः ॥ २।४०।२५ ॥

तदेवाह महतीत्यादि । अभ्युदय ऐहिकः ॥ २।४०।२६२८ ॥

करेणूनां तत्पालकवृद्धिकरिणीनाम् ॥ २।४०।२९ ॥

सन्नः खिन्नः ग्रहेण राहुणा ॥ २।४०।३० ॥

अचिन्त्यात्माहं ममताभिमानराहित्येन तद्वद्भिरज्ञेयस्वरूपः । एतेन सर्वथा ममताराहित्यं सूचितम् । तदेव स्वस्य ध्वनयन्नाह त्वरितं वाह्यतामिति ॥ २।४०।३१ ॥

तं सुमन्त्रम् आहेति शेषः । उभयं नाशकत् एवं च नातिमन्दं नातिवेगमवाहयदित्यर्थः ॥ २।४०।३२ ॥

अभ्यवहितं रथनेम्युद्धतम् ॥ २।४०।३३ ॥

रुदिताश्रुपरिद्यूनमनुत्साहवत् ॥ २।४०।३४ ॥

आयासः खेदः चलितैस्तिर्यग्भूतैः पङ्कजैः वर्षसंभूतोदकैरिति बोध्यम् । अपादानस्यैव करणत्वविवक्षा ॥ २।४०।३५ ॥

एकचित्तगतं दुःखेनैकचित्ततां प्राप्तम् ॥ २।४०।३६ ॥

सीदन्तं मूर्छन्तम् ॥ २।४०।३७ ॥

अन्तःपुरसमृद्धमन्तःपुरसहितं क्रोशन्तमुच्चैः शब्देन रुदन्तं राजानं दृष्ट्वा केचिन्नरा हा रामेति केचिद्धा राममातेति पर्यदेवयञ्शुशुचुः । उपलक्षणमेतत् । केचिद्धा

राजन्नित्यपि राममातेत्यार्षम् ॥ २।४०।३८ ॥

अनु पश्चाद्भाग ईक्षमाणो रामो मातरं राजानं च स्वमनुगतौ ददर्श ॥ २।४०।३९ ॥

पाशेन निबद्धः किशोरो ऽश्वबालो मातरं यथा न पश्यति, एवं धर्मपाशेन संयुक्तः संबद्ध इव नित्यमुक्तस्वभावत्वादेवमुक्तिः प्रकाशं नाभ्युदैक्षत सङ्कुचितदर्शनव्यापारो ऽभूदित्यर्थः ॥ २।४०।४० ॥

यानार्हत्वादिगुणविशिष्टौ पितरौ दृष्ट्वेत्यन्वयः ॥ २।४०।४१ ॥

दुःखजं दुःखं जायते ऽस्मात्तादृशम् “अन्यत्रापि दृश्यते” इति डः । “दुःखदम्” इति पाठान्तरम् । लोकदृष्ट्येदम् सहितुम् “तीषसह” इति वेट् । दुःखितौ पितरौ द्रष्टुं न शक्त इति यावत् तोत्रमङ्लुशस्तत्पीडितो द्विपो यथा स्वपृष्ठवर्तिवस्तुदर्शनाशक्तस्तद्वत् अस्य च कैकेयीवाक्यमेवाङ्कुशः ॥ २।४०।४२ ॥

वत्सकारणात्प्रत्यगारं वत्सावस्थितिमद्गृहमुद्दिश्यागच्छन्ती सवत्सा बद्धवत्सा धेनुर्यथा धावति, एवं राममाताधावत । एषु सवत्सेत्याद्यधिककथनं कवेरपि शोकाविष्टत्वान्न दोषाय ॥ २।४०।४३,४४ ॥

रामलक्ष्मणसीतार्थं तद्वियोगजशोकवशान्नेत्रजं वारि स्रवन्तीं मुञ्चन्तीं नृत्यन्तीमिवेतस्ततः परिभ्रमन्तीमसकृत्प्रैक्षत राम इति शेषः ॥ २।४०।४५ ॥

चक्रयोर्युयुत्सुसेनयोरन्तरा स्थित उदासीनः पुरुष इव सुमन्त्रस्यात्मा दोलायितो बभूव ॥ २।४०।४६ ॥

ननु राजवचनातिक्रमे दोषः स्यादत आह नेति । उपालब्धो ऽपि मया बहुशस्तिष्ठ तिष्ठेत्युक्तो ऽपि मद्वचनं वक्ष्यसि दुःखस्य मद्दुःखस्य हेतुभूतं पापिष्ठमतिदुःखजनकत्वात् पापिष्ठं चिरविलम्बनमिति हेतोः शीघ्रं गच्छेति रामस्तमब्रवीत् ॥ २।४०।४७ ॥

तं जनमनुव्रजत्पौरजनमनुज्ञाप्य रामेण कृतां पुनः परावृत्त्य गमनानुज्ञां प्रापय्य व्रजतो ऽपि स्वतो गच्छतो ऽपि पुनः शीघ्रं शीघ्रगत्यर्थम् ॥ २।४०।४८ ॥

राज्ञो जनो राजसंबन्धी जनः, अवरोधजन उपजीविजनश्च रामं मनसा प्रदक्षिणं कृत्वा न्यवर्तत देहमात्रेणेति शेषः । रथस्य शीघ्रगत्वादिति भावः आशुवेगेन मनसा तु न न्यवर्तत, मानुषमितरमनुष्यसमूह आशुवेगेन मनसापि न न्यवर्तत अपिना देहेन च न न्यवर्तत । “मनसाप्यश्रुवेगैश्च” इति पाठान्तरम् । अत्र पाठे मनसो ऽनिवृत्तेरश्रुवेगो ज्ञापकः ॥ २।४०।४९ ॥

उत्कटदिदृक्षावतो राज्ञस्तु सचिववचनान्निवृत्तिरित्याह यमिच्छेदिति ॥

२।४०।५० ॥

व्यवस्थितो ऽवस्थितः ॥ २।४०।५१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय

आदिकाव्ये ऽयोध्याकाण्डे चत्वारिंशः सर्गः ॥ २।४० ॥