०३९ वनप्रस्थानम्

रामस्येति । विगतचेतनो ऽभूदिति शेषः ॥ २।३९।१ ॥

न प्रत्यवैक्षत द्रष्टुं नाशक्नोत् ॥ २।३९।२,३ ॥

विवत्सा इति धेनव इति शेषः ॥ २।३९।४ ॥

कैकेय्या क्लिश्यमानस्यापि मम यतो मृत्युर्न विद्यते तत्प्राप्तिर्न दृश्यते ऽतः काले ऽनागते देहाज्जीवितं नैव च्यवते इति जाने इति शेषः ॥ २।३९।५ ॥

आच्छाद्यते ऽनेनेत्याच्छादः तापसानामाच्छादो यस्य तादृशमात्मजं पश्यामि यस्तस्य मे मृत्युर्न विद्यत इत्यन्वयः ॥ २।३९।६ ॥

जनः कैकेयीव्यतिरिक्तः सर्वो ऽपि इमां निकृतिं वरलक्ष्णशाठ्यं संश्रित्येत्यस्य स्थिताया इति शेषः ॥ २।३९।७,८ ॥

नेत्राभ्यामुपलक्षितः ॥ २।३९।९ ॥

औपवाह्यं वाहनमात्रोपयुक्तं युद्धानर्हमित्यर्थः युक्त्वा योजयित्वा । “योज्या” इति पाठे ऽप्येवमेव परं दक्षिणस्यामिति शेषः ॥ २।३९।१० ॥

साधुर्वीरो रामः पित्रा मात्रा च वनं निर्वास्यते यत् अतो गुणवतां पुंसां गुणानां फलमेवं निर्वाप्तनरूपमुच्यते शास्त्रेणेति मन्ये इति दुःखातिशयादुक्तिः । उत्प्रेक्षालङ्कारः ॥ २।३९।११ ॥

रथं योजयित्वा तत्र रामसंनिधौ ययौ ॥ २।३९।१२ ॥

आचचक्षे रथ उपस्थित इत्युक्तवान् ॥ २।३९।१३ ॥

वित्तसञ्चये व्यापृतं धनाध्यक्षमित्यर्थः । निश्चितं वच उवाचेत्यन्वयः सर्वतः शुचिरिहामुत्रानृणः ॥ २।३९।१४ ॥

एतानि वर्षाणि चतुर्दशवर्षाणि एतेनैतावानेव वनवासो नाधिक इति पुनर्दार्ढ्याय ध्वनितम् ॥ २।३९।१५ ॥

प्रायच्छद्धनाध्यक्षः । “सममेव” इति पाठे वचनसमकालमेवेत्यर्थः ॥ २।३९।१६ ॥

सुजाता ऽयोनिजा सुजातानि सामुद्रिकोक्तलक्षणवन्ति गात्राणीत्यन्वयः ॥ २।३९।१७ ॥

उद्यत उदयं प्राप्नुवतः काले प्रातःकाले अनेन लेशतो ऽपि विषादराहित्यं तस्याः सूचितम् ॥ २।३९।१८ ॥

कृपणमनाचरन्तीं क्षुद्राचारहीनां तां भर्तृशुश्रूषापरां सीताम् ॥ २।३९।१९ ॥

सततं प्रियैः सत्कृता अपि विनिपातगतं कृच्छ्रगतं भर्तारं याः शुश्रूषितुं नानुमन्यन्ते ताः सर्वलोके परलोक इहलोक चासत्यो ऽसतीत्वेन गणिताः ॥ २।३९।२० ॥

नारीणां प्रकृतत्वादसतीनां यत्पुरा ऽनापदवस्थायां सुखं भर्तृदत्तमनुभूय तस्याल्पामपि रोगदारिद्र्यादिलक्षणमापदं प्राप्य दृष्ट्वा तं दुष्यन्ति दूषयन्ति नानादूषणयुक्तत्वेन वदन्ति नैतावदेव प्रजहत्यपि ॥ २।३९।२१ ॥

असत्यशीला असत्यवचनशीला विकृता विकृतोपेताक्ष्यादिव्यापाराः दुर्गा दुष्टाभिसरणादिगतिशीलाः अहृदयाः स्वभर्तरि विरसाः असत्यः कुलटाः पापे परपुरुषप्रसङ्गदौ सङ्कल्पो मनोव्यापारो यासां क्षणमात्रविरागिणः क्षणमात्रविरागिण्य इत्यर्थः अल्पनिमित्ततः क्षणमात्रेण त्यक्तानुरागाः अविश्वसनीयस्नेहा इति यावत् । विरागिण इत्यत्र ङीबभाव आर्षः ता असत्य इति विधेयम् ॥ २।३९।२२ ॥

कुलं प्रशस्तं, कृतमुपकारः, विद्या गुरूपदिष्टधर्मविद्या, दत्तं भूषणादिदानं, सङ्ग्रहो दृष्टे ऽपि दोषे स्वीकारः । यद्वा सङ्ग्रहो बन्धनादि एतत्सर्वमपि स्त्रीणामसतीनां हृदयं न गृह्णाति पापवृत्तेर्न प्रतिबध्नाति ।

नञ्बाहुल्यमप्रतिबन्धदार्ढ्यप्रतिपादनाय “कामातुराणां न भयं न लज्जा” इति न्यायात् । कुलाद्युचितं कृत्यं पृष्ठे कृत्वा लोकगर्हितकृत्य एव प्रवर्तन्ते कुतः यतो ऽनित्यहृदया अव्यवस्थितचित्ताः ॥ २।३९।२३ ॥

साध्वीनां तु पतिव्रतानां तु शीले सच्चरित्रे सत्ये सत्यवचने श्रुते गुरुजनोपदेशे स्थिते स्वकुलोचितमर्यादावस्थितौ तु । तुरेवार्थे । एष्वेव स्थितानां स्त्रीणां परमं पवित्रमुत्तमं पुण्यसाधनं पतिरेक एव अत एव स्त्रियाः सर्वधर्मसाधनेभ्यो विशिष्यते ॥ २।३९।२४ ॥

यदेवमतः किमत आह स इति । देवसमो देवतुल्यः एष पतिः ॥ २।३९।२५,२६ ॥

यथा भर्तुर्भर्तृविषये वर्तितव्यं तथाभिज्ञास्मि किंच तथा श्रुतं मे स्वमातापितृभ्यामिति शेषः ॥ २।३९।२७ ॥

असज्जनेनासतीजनेन समानयितुं समानां कर्तुमार्या नार्हति नाहमलं न समर्था ॥ २।३९।२८ ॥

विद्यते वादनसमर्था इति गमनसमर्थः इति च शेषः । शतात्मजेति बहुव्रीहिः शतपुत्रा ॥ २।३९।२९ ॥

अमितस्यैहिकामुष्मिकसकलसुखस्य कर्ममि षष्ठी ॥ २।३९।३० ॥

एवंगता भर्ता परमपूज्य इति ज्ञानवती । “श्रेष्ठाश्रुतधर्म” इति पाठे श्रेष्ठाभ्यः श्वश्रूमातृप्रमुख्याभ्यः श्रुतः परावरः सामान्यविशेषरूपो धर्मो यया “श्रेष्ठे” इति पाठः क्वचित् । किमवमन्येयं कस्मादवमंस्यामि ॥ २।३९।३१ ॥

शुद्धसत्त्वा शुद्धचित्ता पुत्रादेर्वनगमनेन दुःखं सीतावाक्यश्रवणेन च हर्षः ॥ २।३९।३२ ॥

अभिप्रेक्ष्य दृष्ट्वा अतिसत्कृतां सर्वजनैरिति शेषः ॥ २।३९।३३ ॥

वनवासस्य वनवासकालस्य ॥ २।३९।३४ ॥

सुप्तायाः सुप्ताया इव चतुर्दशघटीवद्गमिष्यन्ति समग्रं भ्रातृभार्यासहितं समग्रश्रेयस्कं च

पुनरपि सुहृद्भिर्वृतं राजत्वेन ॥ २।३९।३५ ॥

अभिनीतार्थं निर्णीतार्थं त्रयःशतानि त्रीणि शतानि शतार्धं च संख्या यासां ताः त्रैस्त्रयसादेश आर्षः । एवंभूता या मातरः सन्ति ताः अवेक्ष्य विविच्य ददर्शेत्यर्थः तथा मातरश्च तं ददृशुरिति शेषः ॥ २।३९।३६ ॥

तथैव कौसल्यावदेवार्तास्ता मातृ़ः प्रतीदं जगादेत्यन्वयः ॥ २।३९।३७ ॥

संवासः सहवासः परुषम् उक्तमिति शेषः अज्ञानादपि यत्कृतं परुषं कर्म समुपजानीत क्षान्तमित्यनुजानीतेत्यर्थः ॥ २।३९।३८ ॥

समाहितं धीरम् ॥ २।३९।३९ ॥

अथ रामवचःश्रवणानन्तरं संनादः शोकजः शब्दः ॥ २।३९।४० ॥

मेघो वाद्यविशेषः मुरजपणवा एव मेघा इति रुपकं वा विलपितं

रामगुणकैकेयीदुर्गुणप्रतिपादकं वाक्यं परिदेवनं रोदनं व्यसनगतं प्राप्तेष्टवियोगम् ॥ २।३९।४१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥ २।३९ ॥