०३८ रामेण दशरथप्रार्थना

तस्यामिति । तद्वरानन्तर्गतायामीदृशमनिष्टव्यवहारमनिवारयंस्तूष्णीं तिष्ठतीति जनाक्रोशः ॥ २।३८।१ ॥

तेन प्रणादेन जनाक्रोशेन तां भार्यां कैकेयीम् ॥ २।३८।२,३ ॥

वनस्य वनगमनयोग्यचीरस्य कस्यापि किंचित्करोति काकुः अपि तु नेत्यर्थः । किंचिद्राज्यप्रतिबन्धादि विसंज्ञा अपरिचिता ऽशक्यार्थानुष्ठानप्रसङ्गतः प्राप्तमोहा श्रमणीव भिक्षुकीव ॥ २।३८।४ ॥

अपास्यात्त्यजतु इयं प्रतिज्ञा चीरवासीनी सीता वनं यात्विति त्वदीया प्रतिज्ञा न मम दत्तपूर्वा न मया पूर्वमनुभूता वरदानसमये अतो यथासुखं गच्छत्वित्यन्वयः ॥ २।३८।५ ॥

अजीवनार्हेण मुमूर्षुणा अनेन मतिभ्रंशः सूच्यते नृशंसातिक्रूरा प्रतिज्ञा रामवनवासविषया नियमेन शपथपूर्वं सा तावत्कृता यदेतद्धि यतो ऽधिकं सीताचीरग्रहणं त्वया प्रतिपन्नमारब्धं तद्बाल्यादज्ञानादेव नात्र ते सामर्थ्यं तस्माद्वेणुमात्मपुष्पमिव त्वत्कृतातिप्रवृत्तिस्त्वां मा दहेन्मा नाशयतु, यद्वा एषा तव

प्रवृत्तिस्तव वैधव्यप्राप्तये मां दहेन्नाशयेत् ॥ २।३८।६ ॥

अशोभनमपराधः वैदेह्या ते को ऽपकारश्चीरग्रहणपूर्वकवनवासप्रयोजनको दर्शितः

संपादितः ॥ २।३८।७,८ ॥

ते तव एवं रामविवासनं चीरादिवैशिष्ट्येन रामवनगमनं पर्याप्तं सकलनरकानुभवायालं ते त्वया कृतैरेभिरपि कृपणैरनिर्वाच्यदुःखप्रदेः सीताप्रव्राजनादिरूपैः पातकैः किं किमनुभविष्यसि वा न जानामीति शेषः ॥ २।३८।९ ॥

अभिषेकाय मया कृतनिश्चयं प्रश्चात्तत्प्रतिबन्धे त्वया कृते मत्प्रेरणयेहागतं रामं प्रति

यत्त्वमब्रवीर्जटाचीरधरो वनं गच्छेति तत्त्वयोक्तं शृण्वता मया तावदेव प्रतिज्ञातं तथास्त्वित्यनुमतं न तु सीताप्रव्राजनादि ॥ २।३८।१० ॥

एतत्स्वोक्तं तदतिक्रम्याधिकार्थे प्रवृत्तत्वान्निरयं गन्तुमर्हसि । को ऽत्र मे ऽतिक्रमो ऽत आह– मैथिलीमिति । ईक्षसे वाञ्छसि “स एक्षत बहु स्यां प्रजायेय” इत्यादाविच्छार्थस्येक्षतेर्दर्शनात् ॥ २।३८।११ ॥

एवं ब्रुवन्तं सीता यथासुखं गच्छत्विति ब्रुवन्तं संप्रस्थित एवं वादात्तया सहगमने कृतानुमतिकत्वात्तया गन्तुं प्रवृत्तः ॥ २।३८।१२ ॥

न च गर्हते त्वदाज्ञया मयि वनं गच्छत्यपीति शेषः । सत्यरक्षणं धर्म इति ज्ञात्वेति भावः ॥ २।३८।१३ ॥

प्रपन्नां प्राप्तां भूयः संमन्तुं प्रधानपत्नीत्वात्क्रियमाणसंमानामपि भूयो ऽधिकं संमन्तुमर्हसि संमन्तुं तस्याः समानं कर्तुं मत्प्रार्थनयेति शेषः ॥ २।३८।१४ ॥

जातगर्धिनीं त्वत्समीपे जातो मद्दर्शनविषयो गर्धो ऽभिलाषो यस्यास्तां न्यस्य त्यक्त्वा ॥ २।३८।१५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे ऽष्टात्रिंशः सर्गः ॥ २।३८ ॥