रामो धीरोदात्तत्वेन कैकेयीपरितोषायाह महामात्रेति । महामात्रः सिद्धार्थः विनीतवद्विनीतः सन् ॥ २।३७।१ ॥
अनुयात्रेणानुयात्रावता सैन्येन त्यक्तसङ्गस्य सर्वतः “असङ्गो ह्ययमात्मा” इति शुतेः ॥ २।३७।२ ॥
असंगतं चेदं ससैन्यस्य वनगमनमित्याह यो हीति । कक्ष्या गजमध्यबन्धनरज्जुः ॥ २।३७।३ ॥
ध्वजिन्या कक्ष्यातुल्यया अनुजानामि मातृप्रीतये भरताय ददामि चीराणि वनोपयुक्तवासांस्यानयन्तु कैकेयीदास्यः ॥ २।३७।४ ॥
चतुर्दशवर्षाणि वने वसतो मम फलाद्यानयनसाधने उभे खनित्रपिटके भो कैकेयीदास्यः समानयत गच्छत शीघ्रं तदानयनायेति शेषः ॥ २।३७।५ ॥
एतत्पर्यन्तं मन्थराप्रेरितं सिद्धं कृत्वा ब्राह्मणशापप्राप्तलोकासूयाविषयत्वसंपादकं कर्म
कैकेय्यारभते अथेति । स च शापो ऽध्यात्मरामायणे स्पष्टः ॥ २।३७।६ ॥
स रामः चीरे अन्तरीयोत्तरीयरूपे अवक्षिप्य परित्यज्य अवस्त धृतवान् “वस आच्छादाने” ॥ २।३७।७,८ ॥
अथात्मनः परिधानार्थं तया दत्तं चीरं सीता संप्रेक्ष्य वागुरां संप्रेक्ष्य पृषती मृहीव संत्रस्ता सेवाभूत् ॥ २।३७।९ ॥
व्यपत्रपमाणेव लज्जमानेव कैकेय्याः सकाशात्ते कुशचीरे प्रगृह्य भर्तुरीदृश्यवस्थेति सुतरां दुर्मना इव ॥ २।३७।१० ॥
अत एवाश्रुपूर्णनेत्रा ॥ २।३७।११ ॥
अकुशलापरिचयाच्चीरबन्धने ऽनिपुणा मुमोह बन्धनस्थलनिश्चयं न प्रापेव ॥ २।३७।१२ ॥
कृत्वा कण्टे अनेनेदृश्यां राजकुमार्यामस्या ईदृशो व्यवहार इति कैकेय्यां तत्रत्यजनस्यात्यन्तमसूया सूचिता ॥ २।३७।१३ ॥
कौशेयस्योपरीति तस्याः कौशेयत्यागप्रसक्त्यभावात् ॥ २।३७।१४ ॥
सीतायाश्चीरं बध्नन्तमुत्तमं रामं संप्रेक्ष्येत्यन्वयः ॥ २।३७।१५ ॥
परमायत्ताः परमखिन्नाः “यत्तः खेदोपस्करयोः” एवं त्वद्वदियं नियुक्ता न ॥ २।३७।१६ ॥
विजनं वनं गतस्य यावदागमनं तावदस्या दर्शनं नो ऽस्तु तेन च नो जीवनं सफलं भवतु ॥ २।३७।१७,१८ ॥
तिष्ठतु अत्रैवेति शेषः हि यद्यपि धर्मनित्यस्त्वमिदानीं स्वयं स्थातुं नेच्छसि तथापीयं तिष्ठतु ॥ २।३७।१९ ॥
तुल्यशीलयानङ्गीकृतनगरस्थित्या सीतया प्रेरितः संश्चीरं बबन्धेत्यन्वयः ॥ २।३७।२० ॥
चीरे गृहीते समीक्ष्येति शेषः । “सबाष्पः” इति पाठे पाठान्तरं तु सम्यगेव ॥ २।३७।२१ ॥
अतिप्रवृत्ते मर्यादातिक्रमेण प्रवृत्ते यावद्वरस्तावत्प्रमाणे नावतिष्ठसि कुतः अस्या वनगमनस्य त्वयावृतत्वादिति भावः । “सप्रमाणेव” इति
पाठस्तद्व्याख्यानं च न प्रकृतोपयोगीति चिन्त्यम् ॥ २।३७।२२ ॥
अत एव न गन्तव्यमिति । रामस्य प्रकृतं प्रस्तुतमासनं सीतानुष्ठास्यत्यधिष्ठास्यति राज्यं करिष्यति यावद्रामागमनमित्यर्थः ॥ २।३७।२३ ॥
ननु स्त्रियाः कथं राज्याधिष्ठानमत आह आत्मा हीति । दारसंग्रहवर्तिनां गृहस्थानां सर्वेषामात्मा दाराः “अर्धो वा एष आत्मनो यत्पत्नी” इति श्रुतेः । अनेन स्त्रीपुरुषोपाध्योः परस्परावयवमेलनं सूचितम् । अत एव लोके ऽपि सर्वतस्तयोः परस्परप्रियत्वं दृश्यते ॥ २।३७।२४ ॥
अथ यास्यति त्वन्निर्बन्धादिति शेषः । वयं मदाद्या ब्राह्मणाः अत्र यत्र रामो ऽत्र स्थातुमेनमनुगमिष्यामः ॥ २।३७।२५ ॥
अन्तपालाः शुद्धान्तरक्षकाः राष्ट्रन्तस्तितदण्डनायका इत्यन्ये उपजीव्यं जीवनसाधनं धनं तेन सहितं राष्ट्रं सपरिच्छदं दासीदासादिसहितं पुरं च यास्यति ॥ २।३७।२६ ॥
भरतश्च पूर्वजमनुवत्स्यति तत्सदृशावस्थयैव स्थास्यति दशरथजातस्य तत्स्वभावताया एवौचित्यमिति भावः ॥ २।३७।२७ ॥
पादपैः सहेत्यनेनाटवीभूतामिति द्योत्यते ॥ २।३७।२८,२९ ॥
सर्वथैव तव भरतराज्यप्रयासो व्यर्थ इत्याह नहीति । अदत्तां प्रीतिपूर्वमदत्तां किंतु त्वन्निर्बन्धनेन दत्तां त्वयि वा परम्पराप्राप्तधर्मनाशिकायमतः परं पुत्रवद्वस्तुं नार्हति । कुतस्तत्राह
यदीति । महीपतेर्दशरथाज्जातो यदि “पितृ़न्समनुजायन्ते नराः”
इति न्यायादित्याशयः । यदीत्यसंदेहे संदिग्धवचनम् “वेदाश्चेत्प्रमाणम्” इतिवत्, यद्वा कैकेय्या धिक्कारान्तरमिदम् ॥ २।३७।३० ॥
पितृवंशचरित्रं ज्येष्ठे विद्यमाने कनिष्ठस्य राज्यानर्हत्वरूपं तज्ज्ञः ॥ २।३७।३१ ॥
पुत्रगर्धिन्या पुत्रराज्याभिलाषवत्या लोके स न विद्येत तत्सत्ता न संभाविता यो रामं नानुव्रतः ॥ २।३७।३२ ॥
तत्र प्रत्यक्षं मानमाह द्रक्ष्यसीति । पादपांश्चेति किमु वक्तव्यं मनुष्यानिति शेषः ॥ २।३७।३३ ॥
एवं वसिष्ठो भाव्यर्थजातमुक्त्वा प्रकृतमनुष्ठेयमुपदिशति अथेति । प्रविधीयत इति च्छेदः इकारलोप आर्षः दातुं युज्यत इत्यर्थः । इत्युक्त्वा तद्वसनं परिधानं न्यवारयत् जानक्या इति शेषः ॥ २।३७।३४ ॥
दानयोग्यत्वमुपपादयति एकस्येति । प्रतिकर्म प्रसाधनव्यापारः स नित्यं यस्याः सा अत एव विभूषिता वसत्वरण्ये स्वभर्तृशुश्रूषार्थम् ॥ २।३७।३५ ॥
विधानैरुपकरणैः ॥ २।३७।३६ ॥
तस्मिन् गुरौ तथा जल्पत्यपि भर्तुः प्रतिकारकामा वेषादिभिस्तदवस्थासदृशावस्थासंपादनकामा सती चीरपरिग्रहाद्विनिवृत्तभावा नैव बभूव स्म ॥ २।३७।३७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥ २।३७ ॥