एवं सुमन्त्रेण राजप्रतिज्ञाया मिथ्यात्वोक्तावपि राजा तस्या वास्तवत्वं जानन्रामस्य वन एव सुखवासोपायमादिशति तत इति ।
कैकेय्यनङ्गीकारानन्तरम् । प्रतिज्ञया कैकेयीमुद्दिश्य कृतया वास्तवया । इदं वक्ष्यमाणम् ॥ २।३६।१ ॥
चतुर्विधबला रथादिचतुर्विधबलवती चमूः सेना अनुयात्रार्थं सेवार्थं प्रतिविधीयतां नियुज्यतां प्रस्थाप्यताम् ॥ २।३६।२,३ ॥
यैर्मल्लैः वीर्यतो वीर्यपरीक्षया रमत इत्यर्थः ॥ २।३६।४ ॥
नागरा जनाः । अरण्ये कोविदा अरण्यमर्मज्ञाः ॥ २।३६।५ ॥
राज्यं राज्यस्थितिम् ॥ २।३६।६,७ ॥
आप्तदक्षिणा उक्तदक्षिणाः ॥ २।३६।८ ॥
पालयिष्यतीति सोपालम्भोक्तिः संसाध्यतां प्रस्थाप्यताम् ॥ २।३६।९ ॥
स्वरश्च व्यरुध्यत रुद्धो जातः । भयकार्यमेतत् ॥ २।३६।१०,११ ॥
मण्डः सुरासारांशः । निरास्वाद्यं निर्गतास्वाद्यतमं शून्यमवस्तुकम् ॥ २।३६।१२,१३ ॥
हे अहिते मा मां धुरि दासवद्वरहेतुकरामविवासनभरताभिषेकरूपभारे नियुज्य तं च भारं वहन्तं मां किं तुदसि व्यथयसि । हे अनार्ये यदिदानीमारब्धं कृत्यं सार्वभौमभोगसहितस्य प्रस्थापनप्रतिबन्धरूपं तत्तादृशं गमनं पूर्वमेव वनवासप्रार्थनकाल एव नोपारुधः सर्वं त्यक्त्वा केवलो यात्विति किं न प्रार्थितवत्यसि तत एतन्निरोधे तव सामर्थ्यं नास्तीति भावः
क्रुद्धदीनोक्तित्वात्सर्वदोषपरिहारः ॥ २।३६।१४ ॥
द्विगुणं क्रुद्धा प्रकारान्तरेण मत्प्रयोजनं नाशयतीत्याशयेन ॥ २।३६।१५ ॥
पूर्वमनुक्तमपि केवलत्वं वनगमनत्वादेव सिद्धमिति दृष्टान्तबलेनाह तवैवेति । उपारुधत् राज्यभोगेभ्य इति शेषः ॥ २।३६।१६ ॥
एवमुक्तो ऽसमञ्जतुल्यतया गमन उक्तः स्वप्रतिश्रुतातिरिक्तप्रलापाद्राज्ञो धिगित्युक्तिः जनः कैकेयीसेवकजनः सर्वस्वामिन्या असंबद्धप्रलापात् नावबुध्यत क्रोधवशादिति भावः ॥ २।३६।१७ ॥
तद्वद्गमनस्य नात्र प्रसङ्ग इति महामात्र आह तत्रेति । महामात्रः प्रधानः ॥ २।३६।१८ ॥
सरव्यामप्सु प्रक्षिपन्रमते तेन कारणेन दुर्मतिः सः न तादृशो ऽयमिति भावः ॥ २।३६।१९२२ ॥
तं प्रकृतीनामहितं पुत्रं तत्याजेत्यन्वयः ॥ २।३६।२३ ॥
शीघ्रं यानमारोप्य स्वेच्छया गमने विलम्बकरणसंभवात् सपरिच्छदं वनयोग्यफालपिटकादिपरिच्छदसहितं तान्विवासनाधिकारिणो ऽन्वशादुक्तवान् ॥ २।३६।२४ ॥
यथापापकर्मकृद्यथोक्तपापकर्मकृत्स फालसहितं पिटकं गृहीत्वा कन्दाद्यर्थं सर्वा दिशः सर्वदिक्षु गिरिदुर्गाण्यनुचरन्भ्रममाणः कन्दाद्यलोकयत् । “सर्वा दिशस्त्वनुचरन्नतिष्ठत्पापकर्मकृत्” इति पाठे गिरिदुर्गाणि वासार्थमेव विलोकयन्सर्वा दिशश्च कन्दाद्यर्थमनुचरन्नतिष्ठत् यावज्जीवं निजापराधाद्वन इति शेषः ॥ २।३६।२५ ॥
प्रकृते तदप्रसङ्ग इत्याह– रामः किमिति ॥ २।३६।२६ ॥
अगुणं दोषं व्यसनरूपं निरयः पापं कल्मषं मालिन्यम् ॥ २।३६।२७२९ ॥
त्वया विहतया रामस्य श्रिया तेन किंचित्फलमिति शेषः । भरतस्य त्वदनुरूपमतित्वाभावात् तदलं वृथाश्रमेण हि यतो लोकतः प्राप्तः परिवादश्च ते रक्ष्यः
परिहार्यो भवति । एवं च लोकापवादमात्रमस्य फलं, नान्यत्किंचिदिति भावः ॥ २।३६।३०,३१ ॥
एतद्वचः सिद्धार्थवचः हि यतः कृपणं मार्गमास्थाय येयं त्वया कुचेष्टारूपा चेष्टा कृता सा ताधुपथादपेता ॥ २।३६।३२ ॥
सर्वे चायोध्यावासिनो जनाः राज्ञा भरतेन च । चस्त्वर्थे ॥ २।३६।३३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे षट्त्रिंशः सर्गः ॥ २।३६ ॥