एवं सपरिकरस्य राज्ञः परमशोके प्राप्ते सुमन्त्रः कैकेयीं प्रत्याह तत इति । शिरोनिर्धूननादि कोपविकाराभिनयः । कटकटाय्य कटकटशब्दवतः कृत्वा ॥ २।३५।१ ॥
कोपसंरक्ते कृत्वेति शेषः वर्णं मुखकान्तिम् । पूर्वोचितं पूर्वकालस्तितं राजमन्त्रिण उचितं च ॥ २।३५।२ ॥
दशरथस्यमनः समीक्षमाणः कैकेयीविषयस्नेहरहितं जानन् ॥ २।३५।३,४ ॥
यस्यास्तव यया त्वया ॥ २।३५।५ ॥
अतः नहीति । हे देवि तवातिशयेन कर्तुमशक्यं न किंचिद्विद्यते । इह संसारे अन्ततः सर्वान्ते त्वत्कृत्यसाध्यफलविचार इत्यर्थः । पतिघ्नीमिति । रामगमने राजमरणस्यावश्यकत्वादिति भावः । रामस्य विवासनाद्राज्ञो मरणाच्च कुलघ्नीम् ॥ २।३५।६ ॥
अचलमिव दुष्प्रकम्प्यम् । कर्मभिः क्रूरैः सन्तापयसि राजानमिति शेषः ॥ २।३५।७ ॥
भर्तुरिच्छा भर्तुरिच्छाविषयानुसरणम् ॥ २।३५।८ ॥
यथावयः वयःक्रममनतिक्रम्य नृपक्षये राजभूतपितृक्षये राज्यानि प्राप्नुवन्ति ज्येष्ठक्रमेणेति यावत् तमिममनादिप्रवृत्तमाचारमिक्ष्वाकुकुलनाथे दशरथे जीवत्येव लोपयितुमिच्छसीति योजना ॥
२।३५।९,१० ॥
विषये देशे तादृशं ब्राह्मणवासानर्हम् अमर्यादमतिक्रमितज्येष्ठराज्यादिव्यवहारं करिष्यसीत्यनेनाद्यापि रामं निवर्तयेति सूचयति ॥ २।३५।१११३ ॥
यस्यास्त ईदृशं घोरं वृत्तमस्ति तया त्वया तदाचरन्त्या हेतुभूतया पृथिवी यन्न
विदृता न विदीर्णा तदाश्चर्यमिव पश्यामि ॥ २।३५।१४ ॥
किं च महाब्रह्मर्षिभिः सृष्टाः प्रयुक्ताः, ज्वलन्तो ऽग्निवद्भस्मकरणसमर्थाः, भीमदर्शना भीमं फलं दृश्यते येषु तादृशा धिगिति वाग्रूपा दण्डास्त्वां न हिंसन्ति इदमप्याश्चर्यमित्यनुकर्षः । स्थितां कृतनिश्चयाम् अनेन सर्वे त्वां धिक्कुर्वन्तीति
ध्वनयति ॥ २।३५।१५ ॥
अथान्यापदेशेन राजानं निन्दति आम्रमिति । परिचरेदालवालादिकरणेन रोपयेत्, आम्रस्थाने तं च पुनः पयसा सिञ्चेत् अस्यैवं निम्बसेवां कुर्वतः प्रीतये स मधुरो न भवेत् अतो वृथैवेदं कैकेय्यनुवर्तनं राज्ञ इत्याशयः ॥ २।३५।१६ ॥
इदानीं कैकेय्या मर्मवचनान्यप्याह– आभिजात्यमिति । यथा ते मातुराभिजात्यं प्रशस्तमातापितृजत्वोचितव्यवहाररूपं तथैव ते तव मन्ये कारणानुसारित्वात्कार्यस्येति भावः । तदुपपादयति दृष्टान्तेन नहीति । निम्बात्क्षौद्रं न स्त्रवेदिति वचो लोकप्रसिद्धं किलेत्यर्थः ॥ २।३५।१७ ॥
ननु मे मातुः कथमाभिजात्यक्षतिस्तत्राह तवेति । असद्ग्राहं घोरपापकर्माभिनिवेशं पूर्ववृद्धेभ्यो यथा येन प्रकारेण श्रुतं तथा संप्रति विद्म स्मरामः । तदेवाह पितुरित्यादि । कश्चिदृषिः ॥ २।३५।१८ ॥
तस्माद्वरदानात्सर्वभूतानां व्यक्ताव्यक्तवाचां रुतं शब्दं तद्बोध्यमर्थं संजज्ञे जानीते स्म । तेन सर्वभूतरुतज्ञत्वेन तिर्यग्गतानां तिर्यक्स्त्रोतसां पशुपक्ष्यादीनां वचो विदितं ज्ञातार्थं भवति ॥ २।३५।१९ ॥
ततस्तत एव हेतोः शयने शयानस्य ते पितुर्भूरिवर्चसः सुवर्णकान्तेर्जृम्भस्य जृम्भाख्यस्य पक्षिणो भावो ऽभिप्रायो विरुतात्तदीयशब्दाद्विदितः । अथ स ते पिता तत्र शयने शयान एव तद्भावपरिज्ञानजसन्तोषेण बहुधा द्विस्त्रिर्बहुप्रकारेण चाहसत् ॥ २।३५।२० ॥
तत्र शयने शयाना ते जननी मामयं हसतीति क्रुद्धा सती मृत्युरूपं पाशमिच्छन्ती हे नृपते ते हासं हासकारणं ज्ञातुमिच्छामीति ते पितरमब्रवीत् । “वरं ते” इति पाठे ते जननी मामयं हसतीति बुद्ध्या क्रुद्धाभवत् ततो राज्ञा त्वद्विषयो ऽयं न हासः, किं तु वरबलान्मे सर्वरुतज्ञानसामर्थ्यमस्ति, अतः किंचिज्जन्तुं विदिततद्भावो ऽहासिषमित्युक्ते तद्वरस्वरूपं तद्दातारं च जिज्ञासामीत्यर्थः ॥ २।३५।२१ ॥
हासं तत्कारणम् । “वरम्” इति पाठे तद्दातारम् ॥ २।३५।२२ ॥
सर्वथा शंस जीव वा मा वा म्रियस्व वा । तस्मिन्नवगते इतः परं कदापि न हसिष्यसि त्वत्कर्तृकमत्कर्मकभाविहासाभावं निश्चेष्यामीत्यर्थः ॥ २।३५।२३ ॥
तस्मै वरदाय ऋषये तमर्थं कथननिर्बन्धरूपं कथयामासेत्यन्वयः ॥ २।३५।२४ ॥
ततः साधुः स वरदः प्रत्यभाषत ध्वंसतां वा स्वपित्रादिसमीपं गच्छतु वा । “मा कथाः” इति पाठे ऽस्या वच इति शेषः ॥ २।३५।२५ ॥
निरस्य भद्रे त्वमितो गच्छेति ते मातरं परित्यज्य ॥ २।३५।२६ ॥
तथा त्वमपि दुर्जनाचरिते पथि स्थितेति शेषः । अत इमं राजानं
मोहान्मोहमुत्पाद्यासद्ग्राहमसत्कार्यग्राहकं कुरुषे ॥ २।३५।२७ ॥
कन्यानां मातृतुल्यत्वं न्यायप्राप्तमित्याह सत्य इति । मा माम् नराः पुत्ररूपाः समनुजायन्ते पितृस्वभावानुवर्तिनो जायन्ते ॥ २।३५।२८ ॥
नैवं भव मातृवन्मा भव यद्वसुधाधिप आह तद्गृहाण रामाभिषेकरूपं वचः । “नेया” इति पाठे विधेया भवेत्यर्थः । भर्तुरिच्छां तद्विषयमुपास्य तदनुवर्तिनी भूत्वास्य जनस्यास्मदादेर्गतिः शरणं भव ॥ २।३५।२९ ॥
प्रोत्साहिता प्रेरिता । असद्धर्मं कनिष्ठाभिषेकपूर्वं ज्येष्ठस्य विवासनरूपमुपादध ग्राहय । “उपावह” इति पाठे ऽप्ययमेवार्थः ॥ २।३५।३० ॥
तव मिथ्याप्रतिज्ञातं लीलयोक्तं वरद्वयदानरूपं वचः, अतो राजा न करिष्यति तत् ॥ २।३५।३१ ॥
अतो ज्येष्ठत्वादिगुणको रामो ऽभिषिच्यताम् तदभिषेके ऽनुमतिः क्रियताम् । कर्मण्यः कर्मणि साधुः ॥ २।३५।३२ ॥
विपक्षे बाधकमाह परिवाद इति परिवादो ऽपवादः चरिष्यति प्रचरिष्यति ॥ २।३५।३३ ॥
राघवाद्रामादन्यः पुरवरे वसंस्ते क्षमो ऽनुकूलो नहि भवेदित्यर्थः । भरतस्त्वत्प्रतिकूल एव भविष्यतीति भावः ॥ २।३५।३४ ॥
अतः रामे हीति । पूर्ववृत्तं पूर्वराजाचारम् ॥ २।३५।३५ ॥
भूयो ऽत्यर्थम् ॥ २।३५।३६ ॥
सान्त्वैर्न क्षुभ्यते तीक्ष्णैर्न परिदूयते ॥ २।३५।३७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥ २।३५ ॥