“निरुदरः” इति पाठे तनुमध्य इत्यर्थः । श्यामः श्यामवर्णः तरुणश्च । अत्र कवेरपि करुणासमग्रत्वेन वर्णितस्यैव पुनः पुनः कथनमदोषाय ॥ २।३४।१,२ ॥
उपरक्तं राहुग्रस्तम् । पुनरपश्यदिति वाल्मीकेः प्रयोगो वर्णनीयमयीभावेन
तस्यापि शोकग्रस्तत्वात् ॥ २।३४।३ ॥
आबोध्य महाराज इति संबोध्य राममेवोद्दिश्य शोचन्तम् ॥ २।३४।४ ॥
वर्धयित्वा संपूज्य । भयविक्लवया रामो वनप्रयाणोद्युक्त इतीदं परमनिष्टं कथं राज्ञे वदिष्यामीति भयेन विक्लवया कातरया अश्लक्ष्णयेति छेदः ॥ २।३४।५ ॥
उपजीविनां च तेभ्यश्च दत्त्वा सर्वं धनं दत्त्वेत्यनेन सर्वथा तिष्ठासाभावो ध्वन्यते ॥ २।३४।६८ ॥
स दशरथः निष्पङ्को निष्पापः । “निष्पन्दः” इति पाठे निश्चल इत्यर्थः ॥ २।३४।९ ॥
इह मद्वेश्मनि ये केचिन्मामका दाराः स्त्रियः सन्ति तान्दारानिहानय ॥ २।३४।१० ॥
अतीत्यातिवेगेन प्राप्य ह्वगत्याह्वयति वो युष्माकं राजा अवैधव्यदत्वात्, न तु प्रजानां तासां दुःखदत्वात् आगम्यतामिति पदम् ॥ २।३४।११ ॥
प्रचक्रमुर्गच्छन्ति स्म । तद्भवनं तस्य राज्ञो भवनम् ॥ २।३४।१२ ॥
अर्धसप्तशताः एकदेशिसमासः सप्तशतस्यार्धं संख्या यासां ता इत्यर्थः । अर्शआद्यजन्तः । अत एवाग्रे वक्ष्यति “त्रयः शतशतार्धा हि” इति । ताम्रलोचनाः रामप्रयाणश्रवणजदुःखजातरोदनेनेति शेषः । कौसल्यां परिवार्येत्यनेन प्राग्लक्ष्मणोक्तं तस्याः सर्वप्रभ्वीत्वं ध्वनितम् ॥ २।३४।१३ ॥
समवेक्ष्य दारानिति शेषः ॥ २।३४।१४,१५ ॥
आराद्दूरतः उत्पपातालिङ्गनार्थम् ॥ २।३४।१६ ॥
तमालिलिङ्गिषितं राममप्राप्य मध्य एव दुःखितः पपात ॥ २।३४।१७ ॥
अभ्यपतदभ्यागतवान् विसंज्ञमिव विसंज्ञमेव ॥ २।३४।१८ ॥
भूषणध्वनिमिश्रित उरःशिरस्ताडनादिना चञ्चलतरभ्रश्यद्भूषणध्वनिमिलितः । “मूर्छितः” इति पाठे ऽपि स एवार्थः व्याप्त इत्यर्थे वा ॥ २।३४।१९ ॥
तौ सीतया सार्धं तं राजानं बाहुभ्यां परिष्वज्य यथा पीडा न भवति तथालिङ्गितमुत्थाप्य पर्यङ्के समवेशयन्स्थापितवन्तः ॥ २।३४।२० ॥
मुहूर्तस्य संबन्धसामान्ये षष्ठी मुहूर्तेन लब्धसंज्ञमित्यर्थः ॥ २।३४।२१ ॥
कुशलेन मां पश्य सौम्येन चक्षूषा मामनुगृहाणेत्यर्थः ॥ २।३४।२२ ॥
वनं प्रति प्रस्थितं मां सीता चान्वेतु गच्छत्विति लक्ष्मणं च प्रस्थितमनुजानीहीत्यर्थः । ननु लक्ष्मणसीतयोः कुतो वनवासकष्टप्राप्तिः नह्यसौ वरनिर्बन्धस्तयोरत आह कारणैरिति । हेतुभिस्तथ्यैर्व्यवहारदशयासत्यैः न चेच्छतः इह स्थातुमिति शेषः ॥ २।३४।२३ ॥
अनुजानीह्यनुज्ञां देहि प्रजापतिर्ब्रह्मात्मजान्सनकादींस्तपांसि
चरितुमुद्युक्तान्यथानुज्ञां दत्तवांस्तद्वदित्यर्थः ॥ २।३४।२४ ॥
वनवासाय जगतीपतेः स्वस्यानुज्ञामनुमतिं प्रतीक्षमाणं प्रार्थयमानम् अव्यग्रं लेशतो ऽपि विषादरहितं राघवं प्रेक्ष्योवाच ॥ २।३४।२५ ॥
हे राघव यतो ऽहं कैकेय्या वरदानेन मोहितो निरुत्तरतया शोकपरवशो जातः, अतो राज्यानर्हः अतो मां निगृह्य बद्धा ऽयोध्यायां त्वमेव स्वभुजवैभवेन राजा भव प्रवृत्तमभिषेकं समापयेति
यावत् ॥ २।३४।२६,२७ ॥
भवान्वर्षसहस्राय पतिर्भवतु, अतः परमप्यनेककालं राजा भवेत्यर्थः । त्वया यो वरो दत्तस्तमनृतं कर्तुमहं न योग्यः तव नरकपातप्रसङ्गात् अतो ऽहमरण्ये वत्स्यामि मे राज्यस्य काङ्क्षिता इच्छा न ॥ २।३४।२८ ॥
प्रतिज्ञान्ते प्रतिज्ञासमाप्तौ ते पादौ ग्रहीष्यामीत्यन्वयः ॥ २।३४।२९ ॥
कैकेय्याद्यैव गमनमनुमन्यस्वेति मिथो रहसि चोद्यमानः ॥ २।३४।३० ॥
श्रेयसे परलोकहिताय वृद्धये इहलोके ऽभ्युदयाय अरिष्टं पापदुःखभिन्नं पुण्यं सुखं च ते ऽस्तु । अव्यग्रः सन्नकुतोभयं पन्थानं गच्छस्वेत्यार्षम् ॥ २।३४।३१ ॥
सत्यात्मनः सत्यप्रतिष्ठितस्वभावस्य धर्माभिमनसो धर्मसंपादनाभिनिविष्ठमनसः ॥ २।३४।३२ ॥
प्रातरेव कैकेय्या प्रस्थितस्य मात्राद्यनुनयदानादिना चतुर्थप्रहरं व्यापृतस्य तुर्ययामे राजानुमत्यर्थमागतस्य राज्ञा तत्कालसमीपमेव प्रवत्स्यमानरजनीसहवासः प्रार्थ्यते अद्येत्यादि । इदानीमिति समीपलक्षकम् रजनीमावस सर्वथा मा गच्छ । किमर्थं तत्राह चरामि त्वया सहभोक्ष्यामि ॥ २।३४।३३ ॥
साधायिष्यसि गमिष्यसि ॥ २।३४।३४ ॥
मत्प्रियार्थं मम परलोकहितार्थम् ॥ २।३४।३५ ॥
तदेव दर्शयति न चेत्यादि । छन्नया गूढक्रूराभिप्रायया चलितो ऽस्मि भ्रंशितो ऽस्मि त्वदभिषेकमनोरथात् भस्माग्निकल्पया भस्मच्छन्नाग्नितुल्यया ॥ २।३४।३६ ॥
वञ्चना सामान्येन प्रतिश्रुतवरयोर्भरताभिषेकत्वद्विवासनरूपविशेषपर्यवसायित्वरूपा या मे लब्धा यतो ऽनया वृत्तसादिन्या कुलोचितचारित्रनाशिन्याभिप्रचोदितो ऽस्मि एवमिति शेषः । अतो या
वञ्चना मया लब्धा तां निस्तर्तुमिच्छसीति यावत् ॥ २।३४।३७ ॥
एतदाश्चर्यतमं न अपानृतकथमपगतानृतवचनम् एतच्च नाश्चर्यम् यतो ज्येष्ठो गुणैर्वयसा च सुतो ऽसि ॥ २।३४।३८ ॥
आर्तस्य पितुर्भाषितं श्रुत्वैकाहदर्शनेनापीत्युक्तरूपं दीनः कैकेय्याद्य गच्छेति नियोगस्यावश्यानुष्ठेयत्वप्रतिज्ञानात्तावन्मात्रपितृमनोरथपूरणासक्त्याप्राप्तशोक इव ॥ २।३४।३९ ॥
तापतः सर्वकामैरित्यस्योत्तरमाह प्राप्स्यामीति । गुणान्मृष्टान्नादीन् । अतः सर्वकामैः सर्वकामप्रतिनिधित्वेनापक्रमणमितो गमनमेव वृण इत्यर्थः । यद्वाद्य प्रयाणे सतीमान्गुणान्प्रतिज्ञापालनजधर्मरूपान्प्राप्स्यामि श्वो गमने कस्तान्प्रदास्यति प्रत्युताधर्म एव अतः सर्वकामैरित्यादि प्रग्वदेव ॥ २।३४।४०,४१ ॥
अद्य वनवासकृता तदर्था बुद्धिर्न चलिष्यति अतो गमनानुज्ञामेव कुर्वित्याशयः । अतिदानशूरस्य भवतो ऽनुचितमप्येतदित्याह य इति ॥ २।३४।४२ ॥
निखिलेनाद्यैव मत्प्रस्थापनात् निदेशं शासनम् ॥ २।३४।४३ ॥
वनचरैस्तपस्विभिः । मा विमर्शो भरताय राज्यदाने मास्तु संदेहः सर्वथा तस्मै वसुमती दीयताम् ॥ २।३४।४४ ॥
कथमेवमत आह नहीति । आत्मनि स्वमनसि सुखं स्वीयानां प्रियं चोद्दिश्य राज्यं न काङ्क्षितमपि तु तव निदेशं यथावत्कर्तुमेव काङ्क्षितमिच्छामि ॥ २।३४।४५ ॥
क्षुभ्यति मर्यादां त्यजति ॥ २।३४।४६,४७ ॥
अनृतमनृतयुक्तम् एवं सत्यं सत्ययुक्तम् । तव प्रत्यक्षं तव संनिधौ सत्येन सुकृतेन ते त्वया च शपे शपथं करोमीत्यर्थः ॥ २।३४।४८ ॥
क्षणमपि इह पुर इति शेषः । स त्वमिमं मद्रमनसंभवं शोकं धारयस्व । विपर्यय इहाद्य स्थितिरूपं प्रतिज्ञातार्थविपरीतानुष्ठानम् ॥ २।३४।४९,५० ॥
उत्कण्ठा दर्शनादिविषयोत्कण्ठाजन्यं दुःखम् ॥ २।३४।५१५३ ॥
येन त्वया ॥ २।३४।५४ ॥
केवला कृत्स्ना चिराय वनं सेवितुं गमिष्यामि ॥ २।३४।५५ ॥
शिवासु सीमास्विति स्थित इति शेषः । मया विना तेनात्र पुरे स्थातुमश्क्यत्वादिति भावः । केवलमनुशास्तु रक्षणमात्रं करोतु, न तु राजत्वाभिमानो राज्यसुखं वा तस्येति ध्वनितम् । अनेन राज्ञो ऽजीवनं भरतस्य नन्दिग्रामवासश्च ध्वनितः । शिवासु सीमासु रममाण इत्यापाततो ऽर्थः त्वया यदुक्तं कैकेयीं प्रतीति शेषः ॥ २।३४।५६ ॥
यथा शिष्टसंमते तव निदेशे मया मनो दीयते, तथा महत्सु कामेषु काम्यवस्तुषु
मनः सङ्कल्पात्मकं मे मया न दीयते । न च नाप्यात्मनो ऽन्तःकरणस्य प्रिये ऽतो मत्कृते दुःखं व्यपैतु ॥ २।३४।५७ ॥
त्वामनृतेन योजयन्राज्यादिकं चिन्तितं मद्विषयचिन्तावन्तं त्वामपि न वृणीय न वरिष्यामीति मे सत्यं व्रतं तथा ते व्रतं कैकेयीवरदानसङ्कल्पः सत्यमस्तु अत्र चिन्तितं त्वामित्यनेन चिन्तया तव मरणे ऽपि मया न स्थेयं मरणादपि
परलोकनाशकानृतत्वस्यातिकष्टत्वं सूचितम् । तेन तव मरणेन मे दुःखं नापि पापं यथा तवानृतत्वकारण इति सूचितम् ॥ २।३४।५८,५९ ॥
तापस्त्वग्दाहोत्पादकः दुःखमन्तर्व्यथोत्पादकम् ॥ २।३४।६० ॥
समेता मिलिताः तां कैकेयीम् हाहा इति शब्दः कृतो येन तथाभूतं सर्वं परिचारिकादिजनजातम् ॥ २।३४।६१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥ २।३४ ॥