दत्त्वेति ॥ २।३३।१ ॥
आयुधे इति जात्यभिप्रायेण सीतयालङ्कृते पूजार्थचन्दनादिभिः ॥ २।३३।२ ॥
विमानशिखराणि सप्तभूमिकगृहाग्रभागाः । प्रासादस्त्रिभूमिकः हर्म्यं राजगृहम् उदासीनो ऽरक्षितृत्वेन निरुत्सुकः व्यलोकयत् राममिति शेषः ॥ २।३३।३ ॥
यतो बहुजनाकुलत्वाद्रथ्या गन्तुं न सुखेन शक्यन्ते तस्मात्प्रासादमारुह्य प्रासादात्तत्र प्रासादे संस्थाय ॥ २।३३।४ ॥
दीनत्वे हेतुमाह पदातिमिति ॥ २।३३।५,६ ॥
रसज्ञः सुखज्ञः कामानां भोग्यवस्तूनाम् वचनं पितृवचनम् ॥ २।३३।७ ॥
भूतैः प्राणिभिः वनप्रयाणानुमत्यर्थं राजसंनिधौ गमनसमये ॥ २।३३।८,९ ॥
सत्त्वं पिशाचम् राजा स्वस्वभावे वर्तमानो हि यतो न पुत्रं विवासयितुमर्हति ॥
२।३३।१० ॥
तदेवाह निर्गुणस्यापीति । वृत्तेन चरित्रेण तस्मात्पिशाचग्रस्त एवेति भावः ॥ २।३३।११ ॥
आनृशंस्यमहिंसा अनुक्रोशो दया श्रुतमनुष्ठानपर्यवसायि शास्त्राध्ययनम् शीलं सत्स्वभावः दमो बाह्येन्द्रियनिग्रहः शमश्चित्तनिग्रहः ॥ २।३३।१२ ॥
तस्मात्तस्य षङ्गुणवत्त्वात् उपघातः पीडनम् पाठान्तरे ऽपि स एवार्थः ॥
२।३३।१३ ॥
जगत्पालकत्वादपि तस्योपघातेन जगत्पीडितमित्याह पीडयेति । पुष्पफलोपगः पुष्पफलसहितः मूलस्येवेत्यनेन सर्वजगदधिष्ठानत्वमस्य सूचितम् ॥ २।३३।१४ ॥
मनुष्याणामित्युपलक्षणं प्राणिमात्रस्य वस्तुमात्रस्य च धर्म एवान्तःसारो यस्य सः ॥ २।३३।१५ ॥
सपत्न्यः पत्नीसहितास्ते रामोपघातमसहन्तो वयं येन मार्गेण ॥ २।३३।१६ ॥
एकदुःखसुखाः समानदुःखसुखाः ॥ २।३३।१७ ॥
समुद्धृतनिधानत्वादिधर्मकाणि गृहाणि कैकेयी प्रतिपद्यतामित्यन्वयः । निधानानि निक्षेपाः अजिरमङ्गणं परिध्वस्तं मार्जनादिरहितं येषु धनं गवादि, अनिक्षिप्तभूषणादि चोपात्तं गृहीतं येभ्यो ऽत एव हृतसाराणि ॥ २।३३।१८ ॥
उद्बिलैरुद्भिन्नबिलैः ॥ २।३३।१९ ॥
अपेतोदकत्वादिना मनुष्यराहित्यं सूच्यते ॥ २।३३।२० ॥
दुष्कालो राजिकदैविकक्षोभकालः ॥ २।३३।२१ ॥
येन वनेन हेतुना ॥ २।३३।२२ ॥
दंष्ट्रिणः सर्पाः मृगपक्षिणो गिरिस्थाः ॥ २।३३।२३ ॥
अस्मत्त्यक्तम् पुरमिति शेषः सेव्यमानमस्माभिः सेव्यमानं वनमित्यर्थः । कर्तारो ऽत्र पूर्वोक्ता दंष्ट्र्यादयः तृणमांसफलानामादानं यस्मात्तम् । व्यालमृगद्विजं तद्वन्तम् अर्श आद्यच् । तादृशं देशमिमं कैकेयी प्रपद्यतामित्यन्वयः ॥ २।३३।२४,२५ ॥
न विचक्रे न विकारं प्राप्तम् ॥ २।३३।२६ ॥
पुनस्तद्वार्ताश्रवणानन्तरमपि मातुः कैकेय्याः ॥ २।३३।२७,२८ ॥
आर्तं खिन्नमभिजनं देशं तत्स्थजनमिति यावत् । प्रतीक्षमाणः पश्यन्नपि निदेशमाज्ञाम् ॥ २।३३।२९ ॥
तत्पूर्वं सः स्वाकारणार्थागमनकालः पूर्वो यस्यार्तरूपत्ववतस्तादृशं तदारभ्यार्तरूपमिति यावत् । सुमन्त्रं प्रेक्ष्य प्रतिहारणार्थं स्वागमननिवेदनार्थं व्यतिष्ठत द्वार्येवेति शेषः ॥ २।३३।३० ॥
तदेव सुमन्त्रमाह पितुरिति ॥ २।३३।३१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे त्रयस्त्रिंशः
सर्गः ॥ २।३३ ॥