०३२ सम्पद्वितरणम्

तत इति ॥ २।३२।१ ॥

अग्न्यगारमग्निहोत्रशाला । हे सखे रामस्य वेश्मागच्छ दुष्करकारिणो रामस्य

प्राप्तराज्यस्यागपूर्वं वनं जिगमिषोः कृत्यं च पश्येति शेषः ॥ २।३२।२ ॥

सन्ध्यां माध्याह्निकीम् ॥ २।३२।३ ॥

अभिचक्राम प्रत्युत्थानादि कृतवान् । अर्चितमग्निमिव होमकाल इति शेषः ॥ २।३२।४ ॥

अङ्गदं बाहुमूलधार्यं भूषणम् । केयूरं तदधोभागस्थम् । सहेमसूत्रैर्मणिभिः स्वर्णसूत्रस्यूतैर्मुक्तादिरत्नमालाभिः ॥ २।३२।५ ॥

सीताप्रचोदितः सीतया सुयज्ञपत्न्यै सखीत्वाद्दिव्याभरणदानाय प्रचोदितः ॥ २।३२।६ ॥

हेमसूत्रमुरोभूषणविशेषः । हारय सेवकद्वारा प्रापय । रशना काञ्ची । सा मदनुगामिनी सखी । तव भार्याया इति शेषः ॥ २।३२।७ ॥

तुभ्यं भार्यायै च । गच्छती नुमभाव आर्षः ॥ २।३२।८ ॥

त्वयि त्वद्गृहे प्रतिष्ठापयितुं दानपूर्वकं प्रापयितुम् ॥ २।३२।९ ॥

शत्रुञ्जयो नाम तथा प्रसिद्धं यं गजं मातुलो मम ददौ तं गजं ते ददामि । निष्कसहस्रेण स्वनामाङ्कितनिष्कसहस्रदक्षिणया ॥ २।३२।१०,११ ॥

ब्रह्मा त्रिदशेश्वरमिव । नियोक्तृनियोज्ययोः परापरप्रभुत्वे दृष्टन्तः ॥ २।३२।१२ ॥

कौशिको विश्वामित्रः आहूयार्चय अनन्तरं रत्नैस्तर्पय ॥ २।३२।१३,१४ ॥

तैत्तिरीयाणां तैत्तिरीयशाखाध्येतृ़णामाचार्यो यो द्विजः कौसल्यामाशीर्भिः पर्युपतिष्ठति सेवते अभिरूपः श्लाघ्यगुणः ॥ २।३२।१५ ॥

यावद्यावता धनेन तुप्यति तावद्दापय । कौशेयानि कृमिकोशोत्थानि ॥ २।३२।१६ ॥

चित्ररथनामा सुमन्त्रादन्यः सूतः सुचिरोषितश्चिरकालवृद्धः ॥ २।३२।१७ ॥

पशुका अजादयो यज्ञपशवो महिष्यादयश्च कठकालापाः

कठकालापसंबन्धिशाखाध्यायिनः दण्डमाणावा दण्डप्रधाना माणवा उपकुर्वाणब्रह्मचारिणः ॥ २।३२।१८ ॥

अन्यद्व्रतोपवासादि अलसा भिक्षादौ स्वादुकामाः सदन्नकामाः । तेषां दानयोग्यत्वायाह महतामिति । “तपो हि स्वाध्यायः” इति श्रुतेर्नित्यतपस्वित्वेन महतां संमताः ॥ २।३२।१९ ॥

यानान्युष्ट्राः शालीन्वहन्तीति तादृशबलीवर्दानां सहस्रम् । भद्रकांस्तदाख्यान्धान्यविशेषांश्चणकमुद्रादिरूपान्व्यञ्जनार्हान्दापय ॥ २।३२।२० ॥

व्यञ्जनार्थं दधिघृतार्थमुपाकुरु देहि । मेखलीनां ब्रह्मचारिणाम् दीर्घ आर्षः समुपस्थितः विवाहार्थमिति शेषः । सहस्रं गवां निष्काणां वा ॥ २।३२।२१ ॥

नो ऽस्माकमम्बा कौसल्या यथा मम दक्षिणां मया तदाश्रितब्रह्मचारिवर्गस्य दापितां नन्देत्तथा तानर्चयेत्यन्वयः ॥ २।३२।२२,२३ ॥

बाष्पगलान्बाष्पगद्गदान् । उपजीवनं जीवनसाधनम् ॥ २।३२।२४ ॥

एकैकं प्रत्येकम् । यावन्ममागमनमशून्यं कार्यं पर्यायेणैकशः स्थित्वा पूर्ववद्रक्षणीयमित्यर्थः ॥ २।३२।२५२७ ॥

कृपणेभ्यो दीनेभ्यः ॥ २।३२।२८ ॥

तत्र गार्ग्यो गर्गगोत्रः । क्षतेन खननेन वृत्तिर्जीविका यस्य क्षीणवृत्तिरिति वा । “उञ्छवृत्तिः” इति पाठान्तरम् । फालं हलावयवविशेषस्तत्सदृशं मृत्खननार्थं लोहमयमत्र विवक्षितं कुद्दालकं खननसाधनम् लाङ्गलं हलाकारो दण्डः फलापाकर्षणार्थः ॥ २।३२।२९ ॥

दारकाः पुत्राः । “स्त्रीणां भर्ता हि देवता” इति पाठे यद्यपि देवतात्वादाज्ञानर्हस्तथापि प्रीत्या

मद्वचनं कुरुष्वेत्यर्थः ॥ २।३२।३० ॥

यदीत्यस्य दर्शयसि तदा सर्वथेति शेषः ॥ २।३२।३१ ॥

दुश्छदामतिजीर्णत्वादाच्छादनायोग्यां यत्र रामनिवेशनं यस्मिन्पथ्याश्रिते रामवेशन प्राप्यते तं पन्थानमास्थाय प्रातिष्ठत ॥ २।३२।३२ ॥

दीप्त्या ब्रह्मवर्चसेन ॥ २।३२।३३,३४ ॥

प्रत्यवेक्षस्व मां मयि कृपां कुर्वित्यर्थः । परिहाससमन्वितं क्रीडाप्रयोजनव्यवहारविशेषसमन्वितम् ॥ २।३२।३५ ॥

“अस्त्येकम्” इति पाठे तावदेव शिष्टमस्तीत्यर्थः । “अप्येकम्” इति पाठे गवामसंख्यातानां मध्ये एकमपि सहस्रं मया न विश्राणितं दत्तम्, अतो ऽत्रैव स्थित्वा दण्डेन यावद्गवाकीर्णं यावन्तं देशं परिक्षिपसि परिगृह्णासि तावत्तावद्देशावस्थिता गा अवाप्स्यसे ब्राह्मणस्य गोग्रहणचापलकौतुकदर्शनार्थमेतद्भगवद्वचनम् ॥ २।३२।३६ ॥

संभ्रार्न्तस्त्वरितः सर्वप्राणेन सर्वबलेन आविध्य भ्रामयित्वा वेगतो वेगेन ॥

२।३२।३७ ॥

स दण्डस्तस्य कराच्च्युतः सरयूपारं तीर्त्वातिक्रम्योक्षाणसंनिधावुक्ष्णां वृषभाणां संनिधिर्यत्र आर्ष आनङ् तादृशे गोव्रजे पपात ॥ २।३२।३८ ॥

आ तस्मात्सरयूतटात्परपारस्थसरयूमभिव्याप्य या गावः स्थितास्ता आनयामास त्रिजटाश्रमं प्राति नाययामास चेति शेषः ॥ २।३२।३९ ॥

अयं दण्डपरिक्षेपवचनरूपः परिहास एवेत्यर्थः ॥ २।३२।४० ॥

इदं हीति । इदं दूरपरिक्षेप-जनकं तेजः शक्तिस्तव वृद्धस्यापि यत् तद् एव जिज्ञासितुं ज्ञातुं - स्वार्थे सन्न् आर्षः- इच्छता इमम् अर्थं दण्डप्रक्षेपरूपम् अर्थं भवान् प्रचोदितो ऽसि अपरं गोभ्यो ऽन्यदपि किंचिद् बहुमूल्यम् अपि वस्तु वरीतुं व्यवस्यसि चेत् तदपि वृणीष्व ॥ २।३२।४१ ॥

इदमुपचारमात्रमिति न मन्तव्यमित्याह ब्रवीमीति । यन्त्रणा संकोचः हि यतो मम यद्यद्धनं तद्वि प्रकारणाद्विप्रप्रयोजनसंपादनार्थम् । कथं तथात्वमत आह भवत्सु विप्रेषु सम्यग्यथाशास्त्रं प्रतिपादनेन दानेन तत्फलरूपेण हेतुना दानरूपफलार्थं मयार्जितं धनं मे यशस्करं भवेत् न तु भूमिनिक्षेपफलकम् ॥ २।३२।४२ ॥

मोदितः संजातमोदः यशआदीनामुपबृंहिणीर्विवर्धनीर्महात्मनो रामस्य तदाशिषः प्रत्यवदत् ॥ २।३२।४३ ॥

धर्मबलैर्धर्मयुक्तपराक्रमैः चिराद्यथार्हं कृतैः संमानवचोभिः सुहृज्जनीयैः प्रचोदितः प्रेरितः प्रेरितदानव्यापारः ॥ २।३२।४४ ॥

सुहृद्भृत्यजनस्तद्युक्तः अर्शआद्यजन्तमेतत् । दरिद्रः सन् भिक्षाचरणकर्ता संभ्रमः आदरः ॥ २।३२।४५ ॥

इति श्रीरामभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे द्वात्रिंशः सर्गः ॥ २।३२ ॥