संवादम् रामसीतयोरिति सेषः । पूर्वमागतः कौसल्यागृहाद्रामसीतासंवादप्रवृत्तेः पूर्वमेवागतः शोकं स्वस्य वनगमनमङ्गीकरोति न वेति शङ्क्या संभावितरामविरहजम् ॥ २।३१।१ ॥
भ्रातुश्चरणौ गाढं निपीड्य प्रणम्येति यावत् । अतियशामुत्कृष्टकीर्तिमतीं सीतां चक्षुरादिभिः प्रार्थयन् महाव्रतं वनवासलक्षणमहाव्रतकृतनिश्चयं रामं तूवाच चस्त्वर्थे । स्वाभिमतप्राप्तौ सीताशरणगमनमेव मद्गमनमङ्गीकारयत्येवं मुख्य उपाय इति मत्वा तत्प्रार्थना ॥ २।३१।२ ॥
बुद्धिर्युवाभ्यामिति शेषः । त्वा त्वां वनगन्तारम् । अनुगमिष्यामि । अनुः सहार्थे । गमनकाले चाग्रत एव धनुर्धरो गमिष्यामि ॥ २।३१।३,४ ॥
नन्विहैव भोगान्भुक्त्वा स्थातव्यमित्यत्राह नेति । आक्रमणमारोहः ॥ २।३१।५,६ ॥
पूर्वमेव भवतानुज्ञातः । तस्मादपरितापः संस्त्वमप्यनुविधाय माम् । प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियामित्युक्तेः । किं च पूर्वम् अवतरणसमय इत्यप्यर्थः ॥ २।३१।७ ॥
एतत्प्रतिषेधप्रयोजनम् । संशयः पूर्वं केनाभिप्रायेणानुमतिः, इदानीं केनाभिप्रायेण प्रतिषेध इति सन्देहः ॥ २।३१।८ ॥
प्राग्गामिनं वनं प्रति प्रथमगमनाभिप्रायवन्तम् याचमानम् तत्रानुमतिमिति शेषः ॥ २।३१।९ ॥
वश्यविधेयावसकृद्व्याख्यातौ ॥ २।३१।१० ॥
को भजिष्यतीति । “भरिष्यति” इति पाठान्तरम् । एवं च मातृसेवार्थमेव प्रतिषिद्ध्यते । अङ्लंकारप्रतिसंहारोक्तिश्च उत्सवार्थधृताधिकालङ्कारविषया मदनुविधानं च मदिष्टाप्रतिबन्धरूपमिति भावः ॥ २।३१।११ ॥
कामैरिष्टान्नपानैः । ननु भर्तैवास्या रक्षकस्तत्राह स इति । स कामपाशेन पर्यस्तः कैकेय्यनुरागेण बद्ध इत्यर्थः ॥ २।३१।१२,१३ ॥
पुत्रत्वाद्भरतो रक्षिष्यतीत्यत्राह न स्मरिष्यतीति । कैकेय्यां तन्नियोगे सपत्नीतिरस्कारविषयके पर्यवस्थितः प्रतिष्ठितः ॥ २।३१।१४ ॥
तर्हि मयापि कथं रक्षणं कर्तुं शक्यमत आह राजानुग्रहणेन वा दशरथानुग्रहसंपादनेनेत्यर्थः ॥ २।३१।१५ ॥
मयि भक्तिर्मदाज्ञायाः पालनात् । गुरुः कौसल्यादिः ॥ २।३१।१६ ॥
विप्रहीणाया वियुक्तायाः । नो ऽस्माकम् ॥ २।३१।१७,१८ ॥
मातृसेवायां भरत एवास्तीत्याह तवैवेति । अनेन रामोक्तानुपपत्तिपरिहारः । अप्रमेयबलराममातुरसेवायां मम महाननर्थ इति मत्वा भरत एव तां पूजयिष्यतीत्यर्थः ॥ २।३१।१९ ॥
तदेव कालान्तरभवं भयं दर्शयति यदीति । दुःस्थो दुर्मार्गस्थो राज्यं प्राप्येत्यन्वयः । दुर्मनसा कैकेय्यनुरोधाद्दुष्टमनसा ॥ २।३१।२० ॥
त्रैलोक्यमपि तत्पक्षं वधिष्यामीत्यनुकर्षः किं तु सेत्युत्तरश्लोकान्वयि ॥ २।३१।२१ ॥
किं च स्वात्मभरणे कौसल्यायाः कस्याप्यपेक्षा नेत्याह किं तु सा कौसल्येत्यादि । कुतस्तस्या एवं शक्तिस्तत्राह यस्या इति । यस्या उपजीविनामुपजीविभिः सहस्रं ग्रामाणां प्राप्तं वर्तते ॥ २।३१।२२ ॥
यदेवं तदिति ॥ २।३१।२३ ॥
यदेवमतो ममानुचरं कुरुष्व मत्सेवामनुमन्यस्व । इह मत्सेवानुमतौ वैपरीत्यसाधकं न विद्यते त्वदुक्तहेतोरन्यथासिद्धेर्दर्शितत्वात् । तवार्थः फलमूलाद्याहरणरूपस्त्वत्प्रयासं विना प्रकल्प्यते प्रसिद्ध्यति । अहं च तेन कृतार्थो भवामि । अत उभयहितं मदनुगमनमिति भावः ॥ २।३१।२४ ॥
तदेव दर्शयति धनुरित्यादिना । श्वापदादिभ्यो रक्षार्थं धनुर्ग्रहः । पिटका फलमूलाद्याहरणायोग्या वंशपेटी ॥ २।३१।२५ ॥
स्वाहार्हाणि होमयोग्यानि हविर्भूतानि । स्वाहाराणि इति पाठे सुष्ट्वाहारयोग्यानि ॥ २।३१।२६ ॥
स्वपतश्चेत्यनेन रात्रौ स्वस्य निर्निद्रत्वं ध्वनयति ॥ २।३१।२७ ॥
अनेन वाक्येन स्वपतश्चेत्यन्तेन । व्रज अनुव्रज आपृच्छस्व सुहृज्जनानामाज्ञां
गृहाण ॥ २।३१।२८ ॥
महायज्ञे तुष्टो वरुणो राज्ञो जनकस्य धनुरादिकं ददौ तच्च जनकेनास्माकं यौतकत्वेन दत्तं तत्सर्वमाचार्यसद्मन्याचार्यं सत्कृत्य निहितं तदादाय क्षिप्रमाव्रजागच्छ । अत्रैवमनुवादादेव तत्र जनकाय वरुणकर्तृकधनुरादिदानं रामलक्ष्मणाभ्यां च तत्कर्तृकतद्दानं बोध्यम् ॥ २।३१।२९,३० ॥
आयुधमिति जात्या ॥ २।३१।३१ ॥
स लक्ष्मणः ॥ २।३१।३२ ॥
राजशार्दूलः क्षत्रियश्रेष्ठः ॥ २।३१।३३ ॥
मम काङ्क्षिते मदभीष्टप्रयोजननिमित्तसंपादनोचितकाल आगतः ॥
२।३१।३४,३५ ॥
इह मत्समीपे । गुरुषु दृढभक्त्योपेताः । एतेन पूर्णविद्यतया दानपात्रत्वं सूचितम् ॥ २।३१।३६ ॥
वसिष्ठपुत्रं सुयज्ञमानयेत्यनेन मूलप्रभोर्दशरथस्य वसिष्ठः पुरोहितस्तत्पुत्रस्य तत्पुत्र इति न्यायेन सुयज्ञस्य विशिष्यानयनवन्नियोगः । अस्यैव गृह आयुधस्थापनमिति शेषः ॥ २।३१।३७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे द्वात्रिंशत् सर्गः ॥ २।३१ ॥