०३० वनगमनानुज्ञा

वनवासनिमित्तार्थं वनवासनिमित्तानुमतिसिद्ध्यर्थम् ॥ २।३०।१ ॥

उत्तमसंविग्ना अतिभीता सैव प्रणयात्स्नेहात् अभिमानो ऽत्यन्तमिष्टत्वेन रहसि कोपप्रीत्यादिप्रयुक्तसकलवचनार्हं इत्येवंरूपः परिचिक्षेप सोपहारावचनमुक्तवती ॥ २।३०।२ ॥

पुरुषविग्रहमाकारेण पुरुषं क्रियया तु स्त्रियमेव त्वां जामातरं प्राप्य मे पिता किममन्यत तव तत्त्वं न ज्ञातवानित्यर्थः । यदि जानीयान्मां तुभ्यं न प्रयच्छेदिति शेषः ॥ २।३०।३ ॥

यदि मां विहाय भवान्वनगमनभारं वक्ष्यति प्राप्स्यति वह प्रापणे ऽस्य रूपम् । तदा यदिदं लोको वदति रामे यत्तेजस्तत्तपति दिवाकरे नास्तीवेति तदज्ञानादिव गदितमनृतं भविष्यतीति शेषः । बतेति खेदे खेदातिशयव्यञ्जकतया च न्यूनपदत्वादि न दोषः ॥ २।३०।४ ॥

किं हि कृत्वा किं मनसि विचार्येत्यर्थः विषण्णः प्राप्तविषादः ॥ २।३०।५ ॥

द्युमत्सेनसुतं सत्यवन्तमनुव्रतां तत्पत्नीं सावित्रीमिव मां विद्धि ॥ २।३०।६ ॥

यथान्या कुलपांसन्यन्यं पश्यति, एवमहं मनसाप्यन्यं न द्रष्टास्मि अतस्त्वदृते

त्वां विना नात्र स्थास्ये अतो हे राघव त्वया सह गच्छेयम् ॥ २।३०।७ ॥

एवमप्यननुमतिमेव दृष्ट्वा पुनराक्षिपति स्वयं त्विति । कौमारीम् अन्यापूर्वेण विवाहितामन्यापूर्वां च चिरमध्युषिताम् अनेन तरुणीत्वमुक्तम् । शैलूष इव जायाजीव इव ॥ २।३०।८ ॥

तदेव दर्शयति यस्य भरतस्य मां पथ्यंचरामिष्टानुवर्तिनीमात्थ संप्रत्येव कथितवानसि पथ्यंचरामित्यत्र मुमार्षः । यस्य च भरतस्यार्थे तदभिषेकरूपप्रयोजननिमित्तः अवरुध्यसे निरुद्धाभिषेको ऽसि तस्य त्वमेव वश्य

इष्टानुवर्ती विधेयो नियोज्यश्च भव नाहं तदिष्टानुवर्तिनी तद्विधेया चेह वसामीत्याशयः ॥ २।३०।९,१० ॥

विहारशयनेषु सुप्ताया इवारण्ये गच्छन्त्या न मे परिश्रम इति योजना ॥ २।३०।११ ॥

तूलैरजिनैः प्रियकादिमृगाजिनैश्च समः स्पर्शो येषां तादृशाः भविष्यन्तीति शेषः ॥ २।३०।१२ ॥

अवकरिष्यति विक्षेप्स्यति व्याप्स्यतीति यावत् परार्ध्यमत्युत्तमम् ॥ २।३०।१३ ॥

वनान्तर्वनमध्ये शिश्ये त्वया सहेति शेषः । कुथाश्चित्रकम्बलास्तद्रूपास्तरणयुक्तेषु मञ्चेषु सुप्ताया मम ततः शाद्वलशयनात्किं सुखतरं स्यात्किमधिकं सुखं स्यान्न किमपीत्यर्थः ॥ २।३०।१४ ॥

स्वयमाहृत्य दास्यस इत्यनेन स्वस्य तदाहरणप्रयुक्तश्रमाभावः सूचितः ॥ २।३०।१५ ॥

मातुरित्यादि कर्मणः शेषत्वविवक्षया षष्ठी आर्तवानि तत्तदृतुभवानि ॥ २।३०।१६ ॥

तत उक्तहेतोः ॥ २।३०।१७ ॥

त्वत्साहित्येन नरको ऽपि स्वर्गस्त्वद्राहित्येन स्वर्गो नरक इति मम निश्चयं जानन् ॥ २।३०।१८ ॥

कैकेयीवन्मथितसिद्धान्तमाह अथेति । अव्यग्रां वनवासे दोषानगणयन्तीम् द्विषतां भरतादीनाम् ॥ २।३०।१९ ॥

पश्चात्त्वद्गमनोत्तरकालम् अतस्तदैव त्वद्वियोगकाल एव ॥ २।३०।२० ॥

किमिति । विगृह्य कथनेन वनवासकालसंख्याया अतिदुस्तरत्वं ध्वनयति ॥ २।३०।२१ ॥

आयस्तायासं प्राप्ता सस्वरं सशब्दम् ॥ २।३०।२२ ॥

दिग्धैर्विषलिप्तबाणैः चिरसंनियतं बहुकालं संनिरुद्धम् ॥ २।३०।२३,२४ ॥

सिता पूर्णमासी तत्संबन्ध्यमलो राह्वाद्यनुपरक्तो यश्चन्द्रस्तत्सदृशं जलोद्धृतं

जलमुद्धृतं यस्मात् । आहिताग्न्यादिः ॥ २।३०।२५ ॥

परिविश्वासयन्नुज्जीवयन् ॥ २।३०।२६ ॥

तव दुःखेन त्वद्वियोगदुःखेन प्राप्तमपीति शेषः । स्वयंभोर्ब्रह्मणः स्वव्यतिरिक्ततत्त्ववस्त्वन्तराभावेन पूर्णबलत्वेन च यथा भयाभावस्तद्वदेव ममापि सर्वतो भयाभावः ॥ २।३०।२७ ॥

सर्वं समग्रमान्तरमभिप्रायमविज्ञाय तत एव हेतोस्तव वनवासं न रोचये नाङ्गीकृतवान् इतः प्रागिति शेषः ॥ २।३०।२८ ॥

यत्सृष्टासि निश्चितासि मया सार्धं वनवासाय गन्तुमिति शेषः, यद्वा सृष्टास्यवतीर्णासि अतस्त्वं मया विहातुं न शक्या आत्मवतात्मज्ञेन यथा प्रीतिर्दया हातुमशक्या ॥ २।३०।२९ ॥

सर्वथा त्वां सह नेष्यामीत्याह धर्मस्त्विति । वानप्रस्थधर्म इत्यर्थः तं पूर्वाचरितधर्मम् त्वं च यथा सुर्यं सुवर्चलानुवर्तते तथा मामनुवर्तस्व ॥ २।३०।३० ॥

मम तु गमनं निश्चितमेवेत्याह न खल्विति । अहं वनं न गच्छेयमिति न, किं तु सर्वथा गच्छेयमेव यतस्तत्पितुर्वचनं मां नयति ॥ २।३०।३१ ॥

ननु यदि तव नेच्छा तदा पितृवच उल्लङ्घ्यापि तिष्ठेत्याह एष धर्म इति । एतत्पदार्थः पितुर्मातुश्च वश्यतेष्टानुवर्तिता अतो ऽहं तदाज्ञां व्यतिक्रम्य जीवितुं नोत्सह इति मया निश्चितम् ॥ २।३०।३२ ॥

अस्वाधीनमप्रत्यक्षत्वात्तादृशं दैवं प्रकारैर्भावनामात्रसाध्याराधनप्रकारैः स्वाधीनं प्रत्यक्षदृश्यमानत्वात् ॥ २।३०।३३ ॥

यत्र पित्राद्याराधने सति त्रयं धर्मार्थकामरूपं भवति त्रयो लोकाश्चाराधिता भवन्ति । अनेन तदाराधनेन लोकत्रयान्तर्गतसकलदेवताराधनफलं दर्शितम् । अतस्तत्सममन्यत्पवित्रं पुण्यजनकम् । यद्वा पविर्महाभयरूपः संसारः “पविर्वज्रं महाभयम्” इत्यभिधानात् । तस्मात्त्रायते तत्तेन संसारतारकमित्यर्थः अन्यत्रैलोक्ये नास्ति तेन भुवि स्थितैरिदमाराध्यते ॥ २।३०।३४ ॥

बलकराः परलोकबलकराः तद्धितावहा इति यावत् ॥ २।३०।३५ ॥

गुरुवृत्तिर्गुरुचित्तवृत्तिः ॥ २।३०।३६,३७ ॥

मा माम् ॥ २।३०।३८ ॥

यतो वने वसिष्यामीति दृढनिश्चयेन त्वं मामनुयातुं निश्चिता अतस्त्वां दण्डकावनं नेतुं मम या मतिस्तद्विरुद्धा या मतिरासीत्सेदानीं सन्ना विशीर्णा ॥ २।३०।३९ ॥

सा त्वं हि यतो ऽधुना वनाय वनगमनाय दिष्टा मयानुज्ञाता, अतो मामनुगच्छस्व । सहधर्मचरी भवेत्यनेन वनवाससाध्यस्य स्वधर्मस्य रक्षोवधजस्य त्वया विनासंभव इति सूचितम् ॥ २।३०।४० ॥

व्यवसायं भर्त्रनुसरणनिश्चियमनुक्रान्ता प्रकर्षेण प्राप्ता प्रीत्यतिशयात्संबोधनद्वयम् ॥ २।३०।४१ ॥

क्रिया दानादिक्रियाः । इदानीमेवं दृढनिश्चये ॥ २।३०।४२ ॥

रत्नान्युत्तमवस्तूनि भोजनमाशंसमानेभ्यो भिक्षुकेभ्यो भोजनं देहि ॥ २।३०।४३ ॥

क्रीडार्था उपस्कराः स्वर्णमयपुत्रिकाद्युपकरणानि ॥ २।३०।४४ ॥

शयनीयानि मम च चात्स्वस्य अन्यानि यानि च वस्तूनीति शेषः ।

ब्राह्मणानामनन्तरब्राह्मणदानोत्तरमवशिष्ठानि भृत्यवर्गेभ्यो देहीत्यर्थः ॥ २।३०।४५ ॥

अनुकूलमिष्टं गमनं वनानुगमनम् ॥ २।३०।४६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे त्रिंशः सर्गः ॥ २।३० ॥