एतदिति ॥ २।२९।१ ॥
वने वस्तव्यतां वासं प्रति त्वया ये दोषाः कीर्तितास्तान्मां प्रति गुणानेव विद्धि । यतो ऽहं तव स्नेहेन पुरस्कृता त्वन्निष्ठस्नेहविषया । अनेन त्वत्स्नेहविषयस्य दोषपदार्थो न को ऽपीति भावः । यद्वा यतस्त्वद्विषयकस्नेहेनाग्रगा इत्यर्थः ॥ २।२९।२ ॥
तदेवाह मृगा इत्यादि ॥ २।२९।३ ॥
अदृष्टपूर्वं तावकं रूपं येषां तत्त्वात् रूपं दृष्ट्वेति । “स्थाने हृषीकेश तव प्रकीर्त्या” इति न्यायाद्येषामन्यकर्तृकत्वमरणेन भयं तेषां साक्षात्त्वद्दर्शने भयमित्यर्थसिद्धमिति ध्वनितम् । तव सर्वे हि बिभ्यति । अनेन “यद्भीषोदेति सूर्यः” इत्यर्थो ध्वनितः ॥ २।२९।४ ॥
गुरुजनाज्ञया “इयं सीता मम सुता छायेवानुगता सदा” इति सूचितपित्राद्याज्ञयोक्तरीत्या त्वत्पित्राद्याज्ञया त्वद्वियोगेन हेतुना ॥ २।२९।५ ॥
आद्ये ऽपिर्लोकोक्तौ ॥ २।२९।६ ॥
एवंविधं पतिहीनाया जीवनमशक्यमित्येवंरूपं त्वया दर्शितं भरतानुकूलतयात्र वासस्थित्युपदेशेन, अतो ऽहं त्वया सह यास्यामि त्वदुपदिष्टभरतानुकूल्येन स्थातुमश्क्यत्वादिति भावः
। केचित्तु एवंविधं वनवासदुःखं कामं त्वया मम दर्शितं यद्यपि तथापि तादृशवने पतिहीना प्रबलभर्तृहीना न जीवितुं शक्ष्यति न तु मादृशी प्रबलभर्तृकेत्यहं वनं यास्याम्येवेति भाव इत्याहुः ॥ २।२९।७ ॥
अथापि वनस्य सदोषत्वे ऽपि वने त्वया वस्तव्यं किलेति ब्राह्मणानां सत्यं वचनं पूर्वं पितृगेहे निवसन्त्या मया श्रुतम्, अतो ऽवश्यंभावित्वान्मम वनवासस्य न दोषगणनेति भावः ॥ २।२९।८ ॥
तदेव पुनर्द्रढयति लक्षणिभ्य इति । सामुद्रिकलक्षणविद्भ्यः । वचनं वनवासबोधकवाक्यं श्रुत्वा वनवासकृतोत्साहा नित्यमेवाहमस्मीति शेषः ॥ २।२९।९ ॥
स वनवासस्यादेशो ब्राह्मणोक्तो मया प्राप्तव्यः किल भाविनो ऽन्यथाभावाभावात् । तस्मात्त्वया सह यास्यामि । इदमन्यथा न कथमप्यन्यथा न भविष्यतीत्यर्थः ।
अत्राज्ञापर्यायादेशशब्देन ब्राह्मणोक्तिस्त्वदाज्ञैव तव सर्वान्तर्यामित्वादिति सूचितम् । किं चावतारकरणमसमकालिको ऽयं तवादेशो ऽद्यतनरात्रिशेषकालिकश्चादेश इति ध्वनितम् ॥ २।२९।१० ॥
तदेवाह कृतेति । कृतादेशा अनुष्ठिताज्ञा । अन्यथा प्रतिज्ञाताचरणाभावे दोषाभावो ममापि तवेव स्यादिति भावः । अतस्त्वया सह गमिष्यामि । समुत्पन्नः संप्राप्तः पूर्वकल्पितवनवासस्येति शेषः । द्विज इति जात्यभिप्रायेण । अत्र द्विजपदेन रावणो ऽपि । तेन यच्छ्वेतद्वीपे तेनोक्तं लक्ष्मीनिमित्तं त्वत्तो मे वधो ऽत्विति,
तत्सत्यं भवत्वित्यपि गूढं सूचितम् ॥ २।२९।११ ॥
इति तात्त्विकमर्थमुक्त्वा पुनर्लोकानुसारेणाह वनेत्यादि । हिरेवार्थे किलेति निश्चये । वनवासे बहुधा दुःखानि सन्तीति निश्चितं जानाम्येव, तथापि तान्यकृतात्मभिरजितेन्द्रियैः पुरुषैः स्त्रीसाहित्यवशात्प्राप्यन्ते । अत्र पुरुषप्रकरणाभावे ऽपि तदुक्तिस्त्वयापि सा बुद्धिर्वनवासदुःखं दृष्ट्वा न निवर्तनीयेति ध्वनयितुम् ॥ २।२९।१२ ॥
ननु लक्षणज्ञानां भ्रमो भवेत्तत्राह कन्यया चेति । भिक्षिण्याः शमवृत्तायाः शमवदाचारायास्तापस्याः तपोयुक्तत्वेन तस्य भ्रमो न संभवतीति भावः । अत्रत्यमिहेत्युत्तरश्लोकान्वयि ॥ २।२९।१३ ॥
इहास्मिन्गृहे पूर्वमेव त्वं मे मया बहुतिथं बहुवारं वनवासस्य लीलार्थं वनगमनं प्रति प्रसादितः । अतस्त्वया सह वनगमनं मे काङ्क्षितम् । हि निश्चयेन । इति जानीहीति शेषः ॥ २।२९।१४ ॥
हे राघव, ते भद्रम् अहं गमनं प्रति कृतक्षणास्मि कृतानुमतिकास्मि वने वासो यस्य तादृशस्य शूरस्य तव चर्या शुश्रूषा मम रोचते हि । तादृशस्य शूरस्य तव चर्या रक्षोवधादिरूपा मम रोचते मत्संबन्धेनैव शोभते संपद्यते हि यत इति गूढम् ॥ २।२९।१५ ॥
प्रेमभावाद्भर्तारमनुगच्छन्ती विकल्मषा भविष्यामीत्यन्वयः । त्वया विनात्र स्थितौ हि लोकः कल्मषं संभावयिष्यतीति भावः ॥ २।२९।१६ ॥
प्रेत्यभावे मृत्वा शरीरान्तरपरिग्रहे ऽपि परलोके ऽपीति यावत् त्वया सह सङ्गमः कल्याणो दिव्यसुखहेतुः । अत इहसङ्गमस्य कल्याणत्वं कैमुतिकन्यायसिद्धमिति भावः । प्रेत्यसङ्गमसत्त्वे मानमाह ब्राह्मणानां मुखात्पुण्या किल श्रुतिर्यत उक्तार्थप्रतिपादिका श्रूयते ॥ २।२९।१७ ॥
तां श्रुतिं पठति इहेति । या स्त्री पितृभिः पितृपितामहमात्रादिभिर्यस्याद्भिः स्वधर्मेण स्वस्वजातीयकन्यादानधर्मेण दत्ता सा इहलोके च तस्यैव प्रेत्यभावे ऽपि तस्यैव भवतीति ॥ २।२९।१८ ॥
एवं श्रुतिन्यायतो नित्यसंबन्धे सतीत्यर्थः अस्मान्नगरात् स्वकां स्वीयाम् सुवृत्तामित्यस्य विवरणं पतिव्रतामिति ॥ २।२९।१९ ॥
सुखदुःखयोः समाम् । अस्यैव विवरणं समानसुखदुःखिनीम् नेतुम् वनमिति शेषः ॥ २।२९।२० ॥
न चेच्छसि नैवेच्छसीत्यर्थः ॥ २।२९।२१ ॥
अननुमतौ हेतुर्विजनत्वं श्वश्रूप्रभृतिरक्षकजनरहितत्वम् ॥ २।२९।२२ ॥
एवमुक्ताननुमतिबोधकवाक्यमुक्ता स्नापयन्तीवेत्युक्त्या तस्या अपि वास्तवदुःखाभावो ध्वनितः रामवाक्यस्य नाठ्यतया ज्ञानात् ॥ २।२९।२३ ॥
सान्त्वयत् सान्त्ववाक्यान्युवाचेत्यर्थः ॥ २।२९।२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकोनत्रिशः सर्गः ॥ २।२९ ॥